________________
उद्देशकः १, मूलं : ३०, [भा. ८८९]
२८५ नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति एवं बहुरूपनट इव सोऽपि पार्श्वस्थादि मिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति । यदि वा यथा एडको लाक्षारसे निमनः सन् लोहितवर्णो भवति, गुलिकाकुण्डे निमग्नः सन्नीलवर्णइत्यादिएवं पार्श्वस्थादि संसर्गतः पार्श्वस्थादिः। स द्विधा, तद्यथा-असंक्लिष्ट इतरश्चसंक्लिष्टः । तत्रासंक्लिष्टमाह[भा.८९०] पासत्थ अहाच्छंदो कुसील उसन्नमेव संसत्तो।
पियधम्मोपियधम्मे सुचेव इणमो उसंसत्तो ।। वृ-पार्श्वस्थे मिलितः पार्श्वस्थः यथाच्छन्देयथाच्छन्द: कुशीले कुशीलः अवसन्ने अवसन्नः संसक्ते संसक्तः । तथा प्रियधर्मसु मिलितः प्रियधर्मा एष संसक्तोऽसंक्लिष्टो ज्ञातव्यः, संक्लिष्टमाह[भा.८९१) पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो ।
इथि गिरिसंकिलिठो संसत्तोसो उनायव्वो ।। वृ-यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः । तथापि त्रिभिगौरवैर्ऋद्धिरससातलक्षणैः प्रतिबद्धः तथा स्त्रीषु गृहीषु च प्रतिबद्धः स संक्लिष्टः स संसक्तो ज्ञातव्यः । अस्य चासंक्लिष्टस्य प्रायश्चित्तविधिर्देशतः पार्श्वस्थस्येव वेदितव्यः ।
मू. (३१) भिक्खू य गणाओ अवक्करम पर पासंडपडिमं उवसंपज्जित्ताणं विहरिजा, सेय इच्छेज्जा दोच्चं पि तमेव उवसंपजित्ताणं विहरित्तए नत्थिणं तस्स तप्पइयं कइ छेदे वा परिहारे वा नन्नत्थ एगाए आलोयणाए"। वृ-भिक्खूयगणातो अवक्कमेत्यादिअथास्यसूत्रस्य कः सम्बन्धइत्यत आह[भा.८९२] देसेन अवकंता सव्वेणंचेवभावलिंगाओ।
इति समुदिता उसुत्ता इणमन्नंदव्वतो विगते ।। वृ-द्रव्यलिङ्गमधिकृत्य देशेनापक्रान्ताभावलिङ्गतो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनापक्रान्ताः पार्श्वस्थादयइति । एवमथान्यनन्तरसूत्राणिसमुदितानिसम्यक्प्रतिपादितानि, इदानीमधिकृत्यमन्यत्सूत्रं द्रव्यतो द्रव्यलिङ्गेन विगते वियुक्ते द्रव्यलिङ्गवियुक्तविषयमिति भावः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्चशब्दोऽनुक्तसमुच्चयार्थः । सचैतत्समुच्चिनोतिरागद्वेषादिनाकारणेन गणादपक्रम्य निर्गत्य परपाखण्डप्रतिमां परपाषण्डलिङ्गमुपसम्पद्य विहरेत् । विहृत्य च कारणे समाप्ते द्वितीयमपि वारंतमेव गणमुपसम्पद्य विहर्तुमिच्छेत् । तस्य तथोपसम्पद्यमानस्य नास्ति कश्चित् च्छेदो वा परिहारो वा उपलक्षणमेतत् । अन्यदपि प्रायश्चित्तं न किमप्यस्ति कारणतः परलिङ्गप्रतिपत्तेः प्रतिपत्तावपिसम्यग यतनाकरणात् । किंसर्वथा न किमपिनेत्याह-नान्यत्र एकाया आलोचनिकायाः अन्यत्रशब्दः परिवर्जनार्थोयथाभीमार्जुनाभ्यामन्यत्रसर्वेयोद्धारइत्यादिततोऽयमर्थः । एकामालोचनां मुक्त्वा आलोचना पुनर्भवत्येवेतिभावः; एष सूत्रसंक्षेपार्थः । अधुना नियुक्तिभाष्यविस्तरः[भा.८९३] कंदप्पेपरलिंगे,मूलं गुरुगायगरुलपक्खम्मि ।
सुत्तंतुभिच्छुगादी कालक्खेवो वगमनंवा ।। वृ-यदि कंदर्पकन्दर्पतः आहारगृद्धयादि करणता लक्षणतः परलिङ्गं करोति । ततस्तस्मिन्नपरलिङ्गे कृते तस्य प्रायश्चित्तं मूलं अथ गुरुडपाक्षिकं गरुडादिरूपं परलिङ्गं करोति, । तदाश्चत्वारो गुरुकाः । . चशब्दसंयतीप्रावरणापिचत्वारो गुरुकाइत्यादिसंसूचनार्थः अत्र परआह-ननुसूत्रनिर्युक्त्योरनुपपत्तिः Jain Education International
www.jainelibrary.org
For Private & Personal Use Only