________________
उद्देशक : १, मूलं : ३०, [ भा. ८६५ ]
२७९
परिग्रहेण, तथापट्टति य एव चोलपट्टकः । स एव रात्रौ संस्तारकस्योत्तरपट्टः कियतां किं पृथगुत्तरपट्टपरिग्रहेण । तथा पडलाई चोलत्ति पटलानि किमिति पृथक् ध्रियंते चोलपट्ट एव भिक्षार्थं हिएडमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलकस्थाने निवेश्यताम् । उन्नादसियत्ति रजोहरणस्य दशा किमित्युर्णामय्यः क्रियन्ते क्षौमिकाः क्रियन्तां तहपूर्णामयीभ्यो मृदुतरा भवन्ति । तथा 'पडिलेहणा पोत्तोत्ति प्रतिलेखनावेलायामेकं पोतंप्रस्तार्य तस्योपरि समस्तवस्तुप्रेक्षणां कृत्वा तदनन्तरमुपाश्रयाद्बहिः प्रत्युपेक्षणीयमेवं महती जीवदया कृता इति ।। [भा. ८६६ ]
दन्तच्छन्नमलित्तं हरियठियमज्जणाय निंतस्स । अनुवादि अननुवादी परूवणाचरणमाईंसुं ।।
वृ- हस्तगताः पादगता नखाः प्रवृद्धा दन्तैश्छेत्तव्या । ननखरदनने, नखरदनं हि ध्रियमाणमधिकरणं भवति तथा अलिप्तमिति पात्रमलिप्तं कर्तव्यम्, न पात्रं लेपनीयमिति भावः । पात्रलेपनेन बहुसंयमदोपसम्भवात् । 'हरिय ठिय'त्ति हरितप्रतिष्ठितं भक्तपानादिग्राह्यं तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । 'पमज्जणा य निंतस्से' त्ति यदि च्छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो हिरण्यच्छन्ने क्रियतां जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि संभवात् । अक्षरघटना त्ववेम्-‘निंतस्स निर्गच्छतः प्रमार्जना भवतु यथा वसतेरन्तरिति । एवं यथाच्छन्देन चरणेषु च प्ररूपणानुपातिनी अनुसारिणी अननुपातिनी च क्रियते । अथ किं स्वरूपानुपातिनीत्यनुपातिन्यनुनपातिन्योः स्वरूपमाह - [ भा. ८६७ ]
-
अनुवाइती नजइ जुत्तीपडियं खुभासए एसो । जं पुन सुत्तावेयं तं होति अननुवातित्ति ।।
वृ-यद्भाषमाणः स यथाच्छन्दो ज्ञायते यथा खलु निश्चितं युक्तिसङ्गमेष भाषते तदनुपाति प्ररूपणं यथा यैव मुखपोतिका सैव प्रतिलेखनिकास्त्वित्यादि यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्टं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियतां षट्पदिकापतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदंचान्यत्दृष्टव्यम् । । तदेवाह[ भा. ८६८ ] सागारियादिपलियंक निसेज्जा सेवणाय गिहिमत्तो । निग्गंथ चिठणाई पडिसेहो मासकप्पस्स ।।
वृ- सागारिकः शय्यातरस्ताद्विषये ब्रूते तथा शय्यातरपिण्डे गृह्यमाणेनास्ति दोपः प्रत्युतगुणो वसतिदानतो भक्तपानादिदानतश्च प्रभूततरनिर्जरासम्भवात् । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः । पलियंकत्ति पर्यङ्कादिषु परिभुज्यमानेषुन कोऽपिदोषः केवलं भूमावुपविशमाने लाघवादयो बहुतरदोषाः । 'निसेज्जासेवण' त्ति गृहिनिषद्यायामासेव्यमानायां गृहेषु निषद्याग्रहणे इत्यर्थः । को नाम दोषोऽपित्वतिप्रभूतो गुणस्ते हि जन्तवोधर्मकथाश्रवणतः सम्बोधमाप्नुवन्ति 'गिहिमित्ते ' त्ति गृहिमात्रके भोजनं कस्मान्न क्रियते । एवं प्रवचनोपघातः परिहृतो भवति । तथा 'निग्गंथिचिठणादि' त्ति निर्ग्रन्थीनामुपाश्रये अवस्थानादौ को दोषः संक्लिष्टमनो निरोधेन ह्यसंक्लिष्टं मनः सम्प्रधारणीयमिति भागवत उपदेशः तच्चासंक्लिष्टमनः सम्प्रधारणं यत्र तत्र वा स्थितेन क्रियतामिति न कश्चिद्दोषोऽन्यथा हिं अन्यत्रापि स्थितो यद्यशुभं मनः सम्प्रधारयति तत्र किंन लिप्यते इति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते । यथा यदि मासकल्पात्परतो दोषो न विद्यते ततस्तत्रैव तिष्ठन्ति तिष्ठन्तु मा विहारक्रमं कार्षुरिति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International