________________
२७८
व्यवहार - छेदसूत्रम् - १-१ / ३०
त्वन्तिमपदहास इति गतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रं वक्तव्यम् । तच्च प्रागेवोपदर्शितम् । इदानीं यथाच्छन्दस्वरूपं वर्णयति
[भा. ८६१]
उस्सुत्तमायरंतो उस्सूत्तं चैव पन्नविमाणो । एसो उ अहाछंदो इच्छाच्छंदो य एगठा ।।
वृ- सूत्रादुर्ध्वं उत्तीर्णं परिभ्रष्टमित्यर्थः । उत्सूत्रं तदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽभिधीयते । सम्प्रतिच्छन्दः शब्दार्थं पर्यायेणव्याचष्टे । इच्छाच्छन्द इत्येकार्थः । किमुक्तं भवति ? च्छन्दो नाम इच्छेति व्युत्पत्तिश्च यथाच्छन्दशब्दस्य प्रागेवोपदर्शिता उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति[भा. ८६२]
उस्सुत्तमनुवदिठं सच्छंदविगप्पियं अननुवादी । परतत्तिय पवित्तेतिंतणे य एसो अहाच्छंदो ।।
वृ- उत्सूत्रं नाम यत्तीर्थङ्करादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता समाचारी । यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्गं कुर्वन्ति । वारणानां वन्दनकेकथमपीत्युच्यतेइत्यादिसाप्यङ्गेषूपाङ्गेषु नोपदिष्टेत्यनुपदिष्टं शङ्केत ततोऽनुपदिष्टमाह - सच्छन्देन स्वाभिप्रायेन विकल्पितं रचितं स्वेच्छाकल्पितमित्यर्थः । अतएवाननुपाति सिद्धान्तेन सहाघटमानकंन केवलमुत्सूत्रमाचरन् प्रज्ञापयंश्च यथाच्छन्दः किन्तु यः परतत्तिषु गृहस्थप्रयोजनेषु करणकरणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिंतिणो नामयः स्वल्पेऽपि केनचित्साधुनापराद्धेऽनवरतं पुनः पुनस्तं रुषन्नास्तेऽयमेवं रूपो यथाच्छन्दः तथा
[ भा. ८६३ ]
सच्छंदमतिविगप्पिय किं ची सुखसाय विगइ पडिबद्धो । तिहिं गारवेहिं मज्जति तं जाणाही अहाच्छंदं । ।
वृ- स्वच्छन्दमतिविकल्पितं किञ्चित्कृत्वा तल्लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद्विकृतीर्लभते । ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठति तथा चाह- सुखस्वादने सुखास्वादे विकृतौ च प्रतिबद्धः । तथा तेन स्वच्छन्दः मतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । अभिष्टरसांश्चाहारान् प्रतिलभते वसत्यादिकंच विशिष्टमतः स आत्मानमन्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गौरवैर्ऋद्धिरससालक्षणैर्माद्यति य एवंभूतस्तं यथाच्छन्दं संजानीहि । इह उत्सूत्रं प्ररूपयन् यथाच्छन्द उच्यते तत उत्सूत्रप्ररूपणामेव भेदतः प्ररूपयतिअहच्छंदस्स परूवण उस्सुत्ता दुविह होइ नायव्वा ।
[भा. ८६४]
चरणेसु गईसुजा, तत्थ चरण इमा होति ।।
वृ- यथाच्छन्दसः प्ररूपणा उत्सूत्रासूत्रादुत्तीर्णाद्विधा भवतिज्ञातव्या । तद्यथा चरणेषु चरणविषया गतिषु गतिविषया, । तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति तामेवाहपडिलेहण मुहपोत्तिय रयहरण निसेज्ज पाय मत्त पट्टे ।
[भा. ८६५ ]
पडलाई चोलउन्ना दसिया पडिलेहणा पोत्ते ।।
वृ या मुखपोत्तिका मुखवस्त्रिका सैव प्रतिलेखनीया पात्रप्रत्युपेक्षया पात्रकेसरिकाः किं द्वयोः परिग्रहेण अतिरिक्तोपधिग्रहणेन संभवात् । तथा रयहरणनिसेज्जत्ति किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यमित्येका निषद्यास्तु, पायमत्तएत्ति यदेवपात्रं तदेवमात्रं क्रियताम् मात्रकं वा पात्रं किं द्वयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org