________________
उद्देशक : १, मूलं : ३०, [भा. ८५७]
२७७
तेभ्यः आहारादिकमुत्पादयति । 'ठवण' त्ति स्थापनाकुलानि निर्विशति । अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते । तेषामपरिभोग्यतया जनैः स्थापितत्वात् तेभ्यः आहारादिकमुत्पादयति । पलोयण त्ति सङ्घड्याः सततमाहारालोल्यतः प्रलोकना येन क्रियते शरीरस्य वा शुभवर्णादि निरीक्षणार्थं प्रलोकना । तथा अभ्याहृतानि आचीर्णाननाचीर्णांश्चाहारान् यो गृह्णाति । यस्तु पूर्वसंसक्तान् मातापित्रादीन् पश्चात्संस्तुतान् श्वश्रूप्रभृतीन् उपजीवति, यदि वा पूर्वपरिचितानप्याहारलोल्यतः पूर्वसंस्तुतान् पश्चात्संत्सुतान् वा करोति । तथा नित्यपिण्डमग्र पिण्डं च यो भुङक्ते स देशतः पार्श्वस्थः । । साम्प्रतमभ्याहृतपिण्डं नियतपिण्डं च व्याख्यानयतिआइणमनाइणं निसीह भिहडं च नो निसीहंच ।
[ भा. ८५८]
साभावियं च निययं निकायण निमंतणे लहुओ ।।
|
वृ- अभ्याहृतं द्विविधमाचीर्णमनाचीर्णं च । तत्राचीर्णमुपयोगसंभवे गृहत्रयमध्ये, ततः परमनाचीर्णमुपयोगासम्भावात् । अनाचीर्णमपि द्विविधा-निशीथाभ्याहृतंनोनिसीथाभ्याहतं च । तत्र यत्साधोरविदितमभ्याहृतंच तन्निशीथाभ्याहृतमितरत् साधोर्विदितमानीतंनो निशीथाभ्याहृतं । एतानि कारणे निष्कारणे वा कथंचित् यथाभिगृह्णानो देशतः पार्श्वस्थः, नियतं त्रिविधम् । तद्यथा- स्वाभाविकं, निकाचितं, निमन्त्रितं च । तत्र यन्नसंयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रंपिएडादिदीयते, तत्स्वाभाविकम् । यत्पुनर्भूतिकर्मादिकरणतश्चतुर्मासादिकं कालं यावत्प्रतिदिवसं निकाचित् निबद्धीकृतं गृह्यते तन्निकाचितम् । यत्तु दायकेन निमन्त्रणापुरस्सरं प्रतिदिवसं नियतं दीयते तन्निमन्त्रितम् । एतान्यपि गृह्णानो देशतः पार्श्वस्थः, स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघुः । । अथ पार्श्वस्थो भूत्वा कथं संविग्नविहारमुपपद्यते येनोच्यते-'स इच्छेजा दोच्चं तमेव ठाणं उवसंपजित्ताणं विहरित्तए' इत्यादि, तत आह
[ भा. ८५९]
संविग्नजनो जड्डो जह सुहितो सारणाए चइओउ ।
वच्च संभरमाणो तं चेव गणं पुनो एति ।।
वृ- इह संविग्नो जनो जड्डु इव हस्तीव वेदितव्यः । तथाहि यथा हस्ती वनादानीतो घृतगुडादिभिः पुष्टिंनीतः स्मृत्वा वनंजगाम । तच्चवनमनावृष्टिभावतोऽवारीभूतं । ततस्तत्रदुःखमनुभवत् घृत्तगुडादिकं स्मरति, स्मृत्वा च भूयो नगरमायाति । एवं सोऽप्यधिकृतः संविग्नो जनः संविग्नानां मध्ये भगवत्प्रसादत उत्कृष्टौराहारैः पोषमुपागतस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते । तत्र च स्थितः पार्श्वस्थ इति कृत्वा श्राद्धादिभिर्नाद्रियते केवलं लोकत आक्रोशमवाप्नोति । यथायंधिक शिथिलो जात इति । ततः संविग्नानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति । समागतश्च सन्नालोचनाद्यर्थमभ्युत्तिष्ठति । तत इदमाह
[ भा. ८६० ]
अत्थिय सेसावसेसं, जइ नत्थी मूलमत्थि तवच्छेया;
थोवं जइ आवन्नो पडितप्पए साहुणा सुद्धो ।।
वृ- पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति । चशब्दात् किं वा नास्ति । ततो मूलं दातव्यम् । मूलं नाम सर्वपर्यायोच्छेदः । अथास्ति चारित्रं ततस्तस्मै तपो वा दीयतां च्छेदो वा । तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपञ्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः । ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते । मासाद्यापत्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org