________________
व्यवहार - छेदसूत्रम् - १- १/३० चान्तिमपदहासस्य भावना प्रागेव कृता । इतरस्मिन् साधूनामप्रतर्पिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं तस्यान्यथा शुद्ध्यभावात् । ततो न वयं रागद्वेषवन्तः । सम्प्रति पार्श्वस्थान् व्याख्यानयति[भा. ८५३ ] दुविहो खलु पासो देसे सव्वे य होइ नायव्वो । सव्वे तिन्नि विकप्पा देसे सेज्जायर कुलादी ।।
वृ- द्विविधो द्विप्रकारः, खलु निश्चितं पार्श्वस्थः । तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः शब्दः संस्कारमाश्रित्य त्रयी विकल्पास्त्रयः प्रकारास्तद्यथा पार्श्वस्थः प्रास्वस्थः पाशस्थश्च । एते स्वयमेवाग्रे वक्ष्यन्ते । देशे देशतः पार्श्वस्थः, शय्यातरकुलादि प्रतिसेवमानः, । 'तिनि विगप्पा' इत्युक्तं तत्र प्रथमं प्रकारमाह
[ भा. ८५४ ]
२७६
दंसणनाणचरिते तवे य अत्ताहितोपवयणेय । तेसिं पासविहारी पासत्थं तं वियाणेहि ।।
वृ- दर्शनं सम्यक्त्वं, ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषां समाहारो द्वन्द्वस्तस्मिन् । तथा तपसि बाह्याभ्यन्तररूपे द्वादशप्रकारे प्रवचने च द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग् योगवानित्यर्थः । यदि वा अहितस्तेषां विराधकत्वात् । किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी । न तेषु ज्ञानादिष्वन्तर्गत इत्यर्थः । स पार्श्वस्थ इति विजानीहि, ज्ञानादीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः । इह यद्यपियो दुष्करमाश्रवं निरोधं करोतिस परमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयो रुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ; भवति च तपो मोक्षं प्रति प्रधानमङ्ग पूर्वसञ्चितकर्मक्षपणत्वात् प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः । । सम्प्रति द्वितीयप्रकारमाह
[भा. ८५५ ]
दंसणनाणचरिते सत्तो अच्छति तहिं न उज्जमति । एए पासत्थो, एसो अन्नो वि पज्जाओ ।।
वृ- ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति । एतेन कारणेनैष पार्श्वस्थ उच्यते । प्रकर्षेणासमन्तात्ज्ञानादिषु निरुद्यमतया स्वस्थः प्रार्श्वस्थ इति व्युत्पत्तेः । एष खलु अन्यो द्वितीयोऽपि पर्यायः । अपिशब्दः खल्वर्थे भिन्नक्रमश्च । स च यथास्थानं योजितः । उक्तो द्वितीयः प्रकारः । । सम्प्रति तृतीयमाह
[ भा. ८५६ ]
पासोत्ति बंधणंति य एगई बंधहेयवो पासा ।
पासत्थिओ पास अन्नो वि य एस पज्जाओ ।।
वृ- पाश इति वा बन्धनमिति वा एकार्थम् । इह ये मिथ्यात्वादयो बन्धहेतवस्ते पाशाइव पाशास्तेषु स्थितः पाशस्थः । पाशेषु तिष्ठतीति पाशस्थ इति व्युत्पत्तेः । एषोऽन्यः खलु तृतीयः पर्यायः । उक्तास्त्रयोऽपि प्रकारास्तद्भणनाच्च भणितः सर्वतः पार्श्वस्थः । । इदानीं देशतः पार्श्वस्थं व्याचिख्यासुना यदुक्तं 'सेज्जायर कुलादी' इति तद्व्याख्यानयति
[भा. ८५७ ]
सेज्जायर कुल निस्सिय ठवण कुल पलोयणा अभिहडेय ।
पुव्विं पच्छा संथव निइ अग्गपिंड भोइपासत्थो ।।
वृ- यः शय्यातरपिण्डं भुङ्क्ते यानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति । किमुक्तं भवति ? यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि येषु ग्रामेषु नगरेषु वा वसन्ति, तेषु गत्वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International