SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २७२ व्यवहार - छेदसूत्रम् - १- १/३० [ भा. ८३४ ] वृत्ता वितिणगमना इयाणिमवितिन्निमिग्गमे सुत्ता । पडिसिद्धिमवत्तस्स इमेसु सव्वेसु पडिसिद्धं ।। वृ- पूर्वमुक्ता अभिशय्यादिषु वितीर्णगमनाः वितीर्णमनुज्ञातं गमनं येषां ते तथा इदानीं पुनः सूत्राणि अवितीर्णेऽननुज्ञाते निर्गमे यदिवा प्राक् एकाकिविहार प्रतिमाविषयेण सूत्रत्रयेणाव्यक्तस्य श्रुतेन वयसा परिकर्मणया वा प्राप्तस्य निर्गमणं प्रतिषिद्धमेतेषु पुनः पञ्चसु सूत्रेषु सर्वेषां व्यक्तानामव्यक्तानां च निर्गमनं प्रतिषिद्धमित्येष सम्बन्धः । अधुना अमूनि पञ्चापि सूत्राणि यद्विषयाणि तानि क्रमेण विशेषप्रतिपादनार्थमुपन्यस्यति[भा. ८३५ ] पासत्थ अहाच्छंदो कुसील उसन्नमेव संसत्तो । एएसिं नाणत्तं वोच्छामि अहानुपुवीए ।। वृ- ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, पाशस्थ इति संस्कारस्तत्रेयं व्युत्पत्तिः मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । अहाच्छंदो इति यथाच्छन्दोऽभिप्राय इच्छा तथैवागमनिरपेक्षं यो वर्तते स यथाच्छन्दः । कुत्सितं शीलमस्येति कुशीलः समाचार्यासेवने, अवसीदति स्मेत्यवसन्नः । तथा संसक्त इव संसक्तः पार्श्वस्थादिकं तपस्विनां चासाद्य सन्निहितदोषगुण इत्यर्थः । इदंतु व्युत्पत्तिमात्रं स्थानाशून्यार्थमुक्तं । यावता भाष्यकृदेव स्वयमग्रे व्युत्पत्तिममीषां शब्दानां करिष्यति । एएसिमित्यादि एतेषां पार्श्वस्थादीनामनुष्ठानभेदतो यन्नानात्वं तदहं यथानुपूर्व्या यथोक्तक्रमेण वक्ष्यामि । अथ कथं पार्श्वस्थादयो जायन्ते तत आह [ भा. ८३६ ] गच्छंमि केइ पुरिसा, सउणी जह पंजरंतरनिरुद्धा । सारणपंजरचइया पासत्थगयादि विहरति ।। वृ- यथा शकुनिः शकुनिकापञ्जरान्तरनिरुद्धा महता कष्टेन वर्तते, तथा केचित् गुरुकर्माणः पुरुषागच्छे स्मारणचोदनादि महत्कष्टमभिमन्यमानाः कष्टेन वर्तन्ते । ततः स्मारणलक्षणपञ्जरत्याजिताः सन्तः पार्श्वस्थगतादयः आदिशब्दाद्यथाच्छन्दो गतादिपरिग्रहः विहरंत्यवतिष्ठन्ते विहृत्य च केचिद्भूयः स्वगुणमुपसम्पद्यते । तेषां चोपसम्पद्यमानानां प्रायश्चित्तदेयमतस्तद्विवक्षुरिदमाह [ भा. ८३७] तेसिं पायच्छित्तं वोच्छं ओहेय पयविभागेय । ठप्पंतु पयविभागे ओहेण इमं तु वोच्छामि ।। वृ- तेषां पार्श्वस्थादीनां स्वगुणमुपसम्पद्यमानानां प्रायश्चित्तं वक्ष्ये कथमित्याह-ओघेन सामान्येन पदविभागेन च कालादिविशेषेण, गाथायां सप्तमीतृतीयार्थे । तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं. तत् स्थाप्यं स्थापनीयं पश्चाद्वक्ष्यते इत्यर्थः । ओघेन सामान्येन कालादिविशेषरहितत्वेनेति भावः । पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयतिऊसववज्जकयाई, लहुओ-लहुया अभिक्खगहणंमि । (भा. ८३८) ऊसविकयाइ लहुआ गुरुगा य अभिक्खगहणंमि ।। बृ- उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डादिकं गृहीतवान् । ततस्तस्य प्रायश्चित्तं लघुको मासः, तथाभीक्ष्णं गृहीतवान् तथा चत्वारो लघुमासाः । अथोत्सवे कदाचित् शय्यातरपिण्डमग्रहीत् ततश्चत्वारो लघुका मासाः । अथाभीक्ष्णमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुका इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमग्ने स्वयमेव वक्ष्यतीति नाभिधीयते । । अत्र कालविशेषो न कोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy