________________
२७०
[ भा. ८२८ ]
आसन्नातो लहुयो दूरनियत्तस्स गुरतरो दंडो । चोयगसंगामदुगं नियट्टखिसंत अनुग्धाया ।।
वृ- संयत्या आसन्नात्प्रदेशान्निवृत्ते लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः । दूरान्निवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति । तत्र चौदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तं च भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिंसंतित्ति हीलयन्ति तेषामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्ध संक्षेपार्थः । इदानीमेतदेवोत्तरार्धं विवरीषुः प्रथम-तश्चोदकवचनं भावयति । [भा. ८२९] दिट्टं लोए आलोयभंगि वणिएय अवनियनियत्तो । अवराहे नाणत्तं न रोयए केन यं तुज्झे ।।
व्यवहार - छेदंसूत्रम् - १-१/२५
वृ- प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति । ननु संवत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यम् । दूरात्प्रतिनिवृत्तस्य लघुतरेण, न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा ह्येकस्य राज्ञो नगरम परो राजा वेष्टयितुकामः समागच्छति । तंच समागच्छन्तं श्रुत्वा नगरस्वामी भटान् प्रेषयति । यथा यूयं तत्र गत्त्वा युध्यध्वमिति । तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्ध्वा चिरकालं सजातव्रणो भग्नः समागतः । अपरः परबलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः । तत्रैषां भटानां मध्ये यः आलोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः । यः पुनः सञ्जाताव्रणो यश्चाव्रणित एतौ द्वावपिभग्नौ सन्तौ प्रतिनिवृत्तावित्यपराधिनौ केवलमालोकभङ्गयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवं लोके दूरासन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्' । तत एव दृष्टान्तबलेन यन्मयोक्तं संयत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य भूयान् दण्डो दूरात् प्रतिनिवृत्तस्याल्पतर इति ततः केन कारणेन युष्मभ्यं न रोचते । सूरिराहअक्खयदेह नियत्तं बहुदुक्खभयेण जंसमाणेह ।
भा. ८३०]
एयमहं न रोयति को ते विसेसो भवे एत्थ ।।
वृ- यद्बहु दुःखभयेन परबलेन सह युध्यमानस्य प्रभूतदुःखं मरणपर्यवसानं भविष्यतीति भयेनाक्षतदेहः सन् निवृत्तः प्रतिनिवृत्तोऽक्षतदेहनिवृत्तस्तं समानय एतन्मह्यं न रोचते विषमत्वात्तथाहि सर्वथा अत्राक्षतचारित्रः प्रतिनिवर्तते किन्तु क्षतचारित्रस्ततोऽप्यत्र स उपन्यसनीयो योऽधिकृतदातिकेन सहसमानतामवलम्बते, न चासौ तथेति पर आह-यदेष दृष्टान्तस्तव न भासते ततः कोऽत्रास्मिन विचारे तव विशेषो भवेत विशिष्टो दृष्टान्तः स्यात्सूरिराह
[भा. ८३१]
Jain Education International
एसेव यदितो पुररोहे जत्थ वारियं रन्ना । माणीह तत्थनियंते दूरासन्ने य नाणत्ता ।।
वृ- एष एव भवदुपन्यस्तो दृष्टान्तः पुररोधे सति द्रष्टव्यो यत्र पुररोधे राज्ञा वारितं तथा मा कोऽपि पुरान्निर्यासीदिति तत्रैवं निवारिते तत्र निर्गच्छति । दूरासन्नाच्च प्रतिनिवृत्ते यथा नानात्वमपराधविषयं तदिहापि योजनीयम् । तद्यथा-परचलेन नगररोधे कृते राज्ञा पटहेन घोषितं यथा यो नगरान्निर्यास्यति स मयानिर्ग्राह्य इति । ततः कोऽपि निर्गत्य आसन्नात्मतिनिवृत्तोऽपरो दूरात्तत्र यथैतयोरासन्नात्प्रतिनिवृत्तस्याल्पतरो राज्ञा दण्डो दूरात्प्रतिनिवृत्तस्य बहुतर एवं यो दूरात्संयत्याः प्रतिनिवृत्तस्तस्य गरीयान् भावदोष इति चतुर्गुरुकमासन्नात्प्रतिनिवृत्तस्य त्वल्पीयान् भावदोष इति चतुर्लघु ।
For Private & Personal Use Only
www.jainelibrary.org