SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : २५, [भां. ८२४] इति सकलुणमालत्तो मुज्झति सेहो अथिरभावे ।। वृ- अथवा सा देवता संयतीवेषं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितमव्यक्तं साधुप्रतिमां प्रतिपन्नं बूयात्- 'अहो ज्येष्ठार्य अहमपि युष्माभिः समं व्रजामि, तत्प्रतीक्षस्व तावद्यावत् पादलग्नं कण्टकमपनयामि इति । एवं तया देवतया कृतसंयतीवेषया सकरुणामालप्तः स वराक: शैक्षः शैक्षत्वादेवास्थिरभावो मुह्यति मोहमुपगच्छति मुह्यं च यदि प्रतीक्षणादि करोति तथा प्रायश्चितं तदेवाहअच्छति अवलोएति य लहुगा पुन कंटउमेलगत्ति । गुरुगा नियत्तमाणे तह कंटगमग्गणे चेव ।। [भा. ८२५ ] वृ - सत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा, अच्छतित्ति प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघु मासाः । अथापि तत्संमुखमवलोकते तदापि चतुर्लघुः यदिपुनरासन्नान्निवर्त्तते तदाचतुर्लघु एतच्च आसन्नातो लहुतो इति वक्ष्यमाणग्रन्थादवसितम् । अथ दूरात्तदा तस्मिन् दूरान्निवर्तमाने चत्वारो गुरुका गुरुमासास्तथा कण्टकमार्गणे चेवेत्ति यदि कण्टकमपनेष्यामीति तत्पादलग्नं कण्टकं मृगयते, तदापि प्रायश्चित्तं चतुर्गुरु । [ भा. ८२६ ] कंटकपायग्गहणे छल्लहु छग्गुरुग चलणमुक्खेवे । दिट्ठ मिच्छग्गुरुगा परिणयकरणेय सत्तट्ठा ।। वृ- कण्टकं पादगतं यदि गृहणाति तदा प्रायश्चित्तं षट्लघवो लघुमासाः अथ तस्याः संयत्याः पादं गृहणाति कण्टकोद्धरणाय तदापि षट् लघु, यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धरणा तथा षट् गुरु पादे उत्पाटिते सति यदिसागारिकं पश्यतितदा तस्मिन्नपिदृष्टे षट् गुरु, सागारिकदर्शनानन्तरं यदिभावः परिणतो भवति यदाहं प्रतिसेवे इति तदाच्छेदः करणे प्रति सेवाकरणे मूलं एतत्प्रायश्चित्तविधानं भिक्षोरुक्तम् ।गणावच्छेद्याचार्ययोः पुनरिदमाह-सत्तठत्ति, अत्र पूरण प्रत्ययांतस्य लोपः प्राकृतत्वात् । ततोऽयमर्थः गणावच्छेदिनः प्रायश्चित्तविधानं द्वितीयाच्चतुर्लघुकादारब्धं सप्तममनवस्थाप्यं प्रायश्चितं यावदवसेयमाचार्यस्य प्रथमाच्चतुर्गुरुकादारब्धमष्टमं पाराञ्चितं प्रायश्चित यावदेतदेवाह [ भा. ८२७] लहुया दो दोसु य गुरुगाच्छम्मास लहु गुरुच्छेदो । भिक्खु गणायरियाणं मूल अणवठपारंची ।। २६९. Jain Education International वृ- भिक्षुगणावच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधानमूलमनवस्थाप्यं पाराञ्चितंच, यावद्यथा भिक्षोर्द्वयोः प्रतीक्षणेऽवलोकते च चत्वारो मासा लघवः द्वयोर्निवर्तने कण्टकमार्गणे चत्वारो गुरुकाः, छम्मासलहुगुरुत्ति अत्रदोसु इतिप्रत्येकमभिसम्बध्यते । द्वयोः कण्टकग्रहणेपादग्रहणे च षण्मासा लघवः द्वयोः पादोत्क्षेपे सागारिकदर्शने च षट् गुरु, प्रतिसेवाभिप्राये च्छेदः प्रतिसेवाकरणे मूलं, गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्तेभवतितथा वक्तव्यं तच्चैवं गणावच्छेदिनः प्रतीक्षणेचत्वारो लघुकाः अवलोकने चत्वारो गुरवः निवर्तने चत्वारो गुरवः, कण्टकमार्गणे षट् लघु, कण्टकग्रहणे षट् लघु, संयतीपादग्रहणे षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने च्छेदः । प्रतिसेवाभिप्राये मूलं, प्रतिसेवाकरणेऽनवस्थाप्यं, आचार्यस्य यथा पाराञ्चितमन्ते भवति तथा वक्तव्यम् । तच्चैवमाचार्यस्य प्रतीक्षणे चतुर्गुरु अवलोकने चतुर्गुरुनिवर्तने कण्टकमार्गणे च षट् लघु, कण्टकग्रहणे पादग्रहणे च षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने मूलं, प्रतिसेवाभिप्रायेऽनवस्थाप्यं, प्रतिसेवाकरणे पाराञ्चितमिति । सम्प्रति यदुक्तं 'गुरुगानिवत्तमाणे' इति तत्र विशेषमाह For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy