________________
२६६
व्यवहार - छेदसूत्रम्-१-१/२५ ततोयद्यपि सकलसूत्रोपनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्डं तत् व्यक्तेऽपि समानमिति व्यक्त विषयं परिकर्मणादिमुक्तमित्यदोषः । यदुक्तमयमधिकृतसूत्रोपनिपातो अव्यक्तविषय इति । तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसंभवस्तथोपपादयति
[ भा. ८१२ ]
आगमने सक्कारं, कोयं दठूण जायसंवेगो । आपुच्छणपडिसेहण देवी संगामतो नीति ।।
वृ- समाप्तिप्रतिमानुष्ठानस्य गच्छंप्रत्यागमने राजादिभिः क्रियमाणं सत्कारं कोऽपि भिक्षुर्गणावच्छेदी आचार्यो वा दृष्टो जातसंवेगः सन् स्वाचार्याणां पुरत आपृच्छनं करोति । यथा-भगवन्नहमप्येकाकिविहारप्रतिमां प्रतिपद्ये इति ते ततस्ते आचार्या विशिष्टश्रुतविदो जानन्ति भूतं भाविनं चेति तस्यायोग्यतामुदीक्षमाणाः प्रतिषेधनंम कृतवन्तः । यथा त्वमयोग्यः श्रुतेन वयसा वा प्राप्तत्वात् । न च परिकर्मणा तद्योग्या त्वयाकृतेति स एवं प्रतिषिध्यमानोऽपि यदा न तिष्ठति तदा सूरिभिर्वक्तव्यो यदि न स्थास्यति तर्हि विनंक्ष्यसि यथा सा देवी । का सा देवीति चेदत आह- देवी संगामतो । संगामे निव पडिमे देवी काऊण जुज्झति रणमि ।
[ भा. ८१३ ]
बितिय बलेण नरवति नाउं गहिया धरिसियाय ।।
बृ-सङ्ग्रामेदेवी नृपप्रतिमां राज्ञ आकारं कृत्वा युध्यते । साच तथा रणे सङ्ग्रामे युध्यमाना द्वितीयबले प्रतिपक्षबलेयो नरपतिस्तेन कथमपिज्ञात्वा अरे महेला युध्यते सन्नाहापेक्षं कृत्वा गृहीतचएडालैर्धर्षापिता मारिता च । एषी अक्षरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम् - एगेन रना एगस्स रनो नगरं वेढियं । राया स अंतेउरो नगरब्भंतरे अग्गमहिसी भणति जुज्झामि वारिज्जुंती विरन्ना न ठाति । ततो सा संनहित्ता खंधावारेण समं निग्गंतुं परबलेन समंजुज्झइ महिलत्ति काउं गहिया चंडालेहिं धरिसावित्ता मारिया । दूरे ता पडिमाती गच्छ विहारे वि सो न निम्मात्तो ।
[ भा. ८१४ ]
निग्गंतुं आसन्ना नियत्ते लहुतो गुरू दूरे ।।
वृ- दूरे तावत्प्रतिमाः । किमुक्तं भवति तद्विषयमिदं सूत्रत्रिकं तस्य प्रतिमाःप्रतिपत्तव्यास्तावत् दूरे विशिष्टश्रुतवयीभ्यामप्राप्ततयातत्समाचारपरिज्ञानस्य परिकर्मणायाश्चाभावात् गच्छविहारे गच्छसमाचार्यामपि सोऽधिकृतसूत्रत्रयविषये निर्मातो न परिनिष्ठामुपगतः स आचार्येण वार्यते । सच वार्यमाणोऽपियदा स्वगच्छान्निर्गत्य यदि कथमपिबुद्धिपरावर्तनेनासन्नाद्विनिवर्तते । ततस्तस्य प्रायश्चित्तं लघुको मासः दूरे दूराद्विनिवर्तते गुरुको मासः । अथ न निवर्तते तत आह
[ भा. ८१५]
सच्छंदो सो गच्छा निग्गंतूणं ठितो उ सुणघरं ।
सुतत्थ सुणहियओ संभरइ इमेसि मेगागी ।।
वृ- स्वमात्मीयंच्छन्दोऽभिप्रायो यस्य स स्वच्छन्दः सन् गच्छाद्विनिर्गत्य शून्यगृहे उपलक्षणमेतत् श्मशाने वा वृक्षमूले वा देवकुलसमीपे वा कायोत्सर्गेण स्थितः । स च सूत्रमर्थं वा न किमपि जानाति यच्चिन्तयति । ततः सूत्रार्थशून्यहृदय एकाकी सन् एषां वक्ष्यमाणानामाचार्यादीनां स्मरति तानेवाहआयरियवसभसंघाड-एय कंदप्पमासियं लहुवं ।
[ भा. ८१६ ]
एगानियत्तसुणघरे अत्थमिए पत्थरे गुरुगा ।।
वृ- आचार्यो गच्छाधिपतिस्तं वा यदि स्मरति यदि वा वृषभमथवा संघाटिकं, कंदप्पत्ति अत्र विभक्तिलोपो मत्वर्थीपयोलपञ्च प्राकृतत्वात् । यैर्वैर्वासाधुभिः समं गच्छे वसन् कन्दर्पं हासंचसूर्यादिरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org