________________
उद्देशक : १, मूलं : २५, [भा. ८०९ ]
२६५
वृ- तीरितायां समाप्तायां प्रतिमायां उत्प्राबल्येन भ्रमन्त्युद्भ्रमाः भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रमकनियागो ग्रामस्तत्रदर्शनमात्मनः प्रकटनं करोति । ततः साधुसंयतं संज्ञिनं वा सम्यग्दृष्टिं श्रावकं अप्पाहेत्ति संदेशयति । ततो दण्डिनो राज्ञो निवेदनं सत्कारं करोति, तदभावे भोजिकस्तस्याप्यभावे श्रावकवर्गस्तस्याप्यभावे सङ्घः साधुसाध्वीवर्गः । इयमत्र भावना- प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति । तत्रागत्यात्मानं दर्शयति । दर्शयंश्च स्वयं साधुं श्रावकं वा पश्यति, तस्य संदेशं कथयति यथा समापिता मया प्रतिमा, ततोऽहमागत इति तत्राचार्या राज्ञो निवेदयन्ति, यथा-अमुकोमहातपस्वी समाप्ततपः कर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यस्तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकस्तदभावे समृद्धः श्रावकवर्ग स्तदभावे साधुसाध्वी प्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो मानस्तस्योपरि चन्द्रोदय धारणं नान्दी तूर्यास्फालनं सुगन्धवासप्रक्षेपणमित्यादि । एवं रूपेण सत्कारेण गच्छं प्रवेशयेत् | सत्कारेण प्रवेशनायामिमे गुणाः
[ भा. ८१० |
उद्भावनापवयणे, सद्धाजननं तहेव बहुमानो । उहावणा कुतित्थे जीयं तह तित्थवड्डीय ।
वृ- प्रवेशसत्कारेण प्रवचनस्य उद्भ्राजना प्राबल्येन प्रकाशनं भवति । तथा अन्येषा बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महीती शासनस्य प्रभावना भवति । तथा श्रावक-श्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा- अहो महाप्रतापि पारमेश्वरं शासनं, यत्रेदृशा महातपस्विन इति; । तथा कुतीर्थे जातावेकवचनं । कुतीर्थानामपभ्राजना हीलना तत्र ईदृशां महासत्वानां तपस्विनामभावात् । तथा जीतमेतत्कल्प एप समाप्तप्रतिमानुष्ठानः सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसाराद्विरज्यन्ते विरक्ताश्च परित्यक्तसङ्घाः प्रव्रज्यां प्रतिपद्यन्ते । ततो भवति तीर्थप्रवृद्धिरिति । तदेवं परिकर्मणाभिधानं प्रतिमाप्रतिपत्तिः प्रवेशसत्कारश्च भणितः । साम्प्रतमधिकृतसूत्रं यत्र योगमर्हति तद्विवक्षुरिदमाह
[भा. ८११]
एएण सुत्न गयं सुत्तनिवाती इमो उ अव्वत्ते ।
उच्चारिय सरिसं पुन, परुवीयं पुव्वभणियंपि ।।
वृ- यदेतदनन्तरं परिकर्मणादिकमुक्तं, नैतेन सूत्रगतं व्याख्यातं, जातावेकवचनस्य भावात् । नैतेन त्रीणि सूत्राणि व्याख्यातानि सूत्राणामन्यविषयत्त्वात् । तथा चाह- 'सुत्तनिवातो इमो उ अव्वते' तु . शब्दः पुनरर्थे स च पुनरर्थं प्रकाशयन् हेत्वर्थमपि प्रकाशयति, यतोऽयमधिकृतः सूत्रनिपातोऽव्यक्तेऽव्यक्तशब्दविषयः, । अव्यक्तो नाम श्रुतेन वयसा चाप्राप्तोऽपरिकर्मितश्च पूर्वभणितंच समस्तं व्यक्तविषयमतोऽव्यक्तविषयत्वं च प्रागुक्तमिति नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति । अत्राह यदेतत् प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतं सूत्रात्तावन्न भवति । सूत्रस्यान्यविषयत्वात् । अन्यस्माच्चेत्तर्हि न वक्तव्यमसम्बद्धत्वादत आह-उच्चारिय सरिसमित्यादि परिकर्मणाभिधानं यच्च पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं । यथा घरसउणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादिपरिकर्मणाभिधानं यच्च पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं । यथा घरसउणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादिच प्रागभणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा किमुक्तं भवति? एगल्लविहारपडिमं उवसंपचित्ताणं विहरित्तए इत्युक्तमेत्तच्च सूत्रखंड व्यक्ते अव्यक्ते च समानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org