________________
नाट.
२६४
व्यवहार - छेदसूत्रम्-१-१/२५ नयनिक्खिवइजलाइसुजत्थसे सूरो वयतिअत्थं ।। वृ- वसतेः सकाशाद्यदि निगमनं भवति ततो नचनैवावधारणेनैव भाण्डमुपकरणमात्मीयवसतौ क्षिपति किन्तु सर्वभाएडमादाय हिएडते । हिएडमानश्च यत्रैव जलादिषु जने स्थले ग्रामे नगरे कानने वने वा तस्य सूर्यो व्रजत्यस्तं तत्रैव कायोत्सर्गेण अन्यथा वावतिष्ठते । न पुनः पदमात्रमुत्क्षिपति । गतंनिक्षेपद्वारमधुनाआपन्नलागभगमनद्वारण्याह[भा.८०७] मनसा विअनुग्घाया सच्चित्तेचेव कुणतिउवदेसं।
अच्चित्तजोगगहणंभत्तं पंथो यतइयाए ।। वृ-मनसा वि आस्तांवाचाकावेनचेत्यपिशब्दार्थः । यानिप्रायश्चित्तानि आपद्यतेतानिसर्वाण्यपि तस्यानुद्घातानि गुरूणि भवन्ति । गतमापन्नद्वारम् । लाभद्वारमाह-सचित्ते चेत्यादि लाभो द्विविधःसचित्तस्य अचत्तिस्य च तत्र सचित्तस्य प्रव्रजितुकामस्य मनुष्यस्य, अचित्तस्य भक्तपानादेः । तत्र यदा सचित्तस्य लाभ उपस्थितो ज्ञायते । यथा नूनमेष प्रव्रजिष्यति नतुस्थास्यति तदा तस्मिन् सचित्ते प्रव्रजितुमुपसम्पद्यमानतयासंभाविते उपदेशमेवकरोति ।नतुतंप्रव्राजयतितस्यतामवस्थामुपगतस्य प्रव्रज्यादानानर्हत्वात् । एवकारोभिन्नक्रमः ।सचयथास्थानं योजितः । अचित्तस्यपुनर्योग्यस्यभक्तस्य पानस्यवाग्रहणंकरोति ।गतंलाभद्वारं ।गमनद्वारमाह-भक्तंभिक्षाचार्यापन्थाः पथि विहारक्रमकरणाय गमनं, तृतीयस्यां पौरुष्यां नान्यदा तथा कल्पत्वात् । तदेवं भिक्षौ प्रतिमाप्रतिपत्तिविधिरुक्तः ।
सम्प्रतिगणावच्छेद्यादिषुतामेवाह[भा.८०८) एमेवगणायरिए गणनिक्खिवणम्मिनवरनाणत्तं ।
पुवोवहिस्स निक्खिवणमपुव्वगहणंतु ।। वृ- एवमेव अनेनैव भिक्षुगतेन प्रकारेणगणित्ति गणावच्छेदिनि, आयरिए इतिआचार्योपाध्याय वक्तव्यम् । किमुक्तं भवति । यथा भिक्षौ प्रतिमाप्रतिपत्तुं प्रतिपन्ने विधिरुक्तस्तथा गणावच्छेदिनि आचार्योपाध्याये च प्रतिपत्तव्यः । तथा च सूत्रकारोऽपि तत्सूत्रे अतिदेशत आह-एव गणावच्छेए एवं आयरितोवज्झाए एवं भिक्षुगतेन सूत्रप्रकारेण गणावच्छेद एवमेव आचार्याश्च उपाध्यायाश्च आचार्योपाध्यायंतस्मिन् सूत्रं वक्तव्यं । तद्यथा___ गणावच्छेए य वा गणातो अवक्कमएगल्लविहारपडिमंउवसंपज्जित्ताणं विहरेखा । सेइच्छेजा दोच्चंपि तमेव ठाणं उवसंपजित्ताणं विहरितए पुनो आलोएजा पुनो पडिक्कमेजा पुनो च्छेदस्स परिहारस्स वा उवट्ठावेज्जा । ततोआयरियातोवज्झाएयगणातो अवकम्मएगल्लविहारपडिमंउवसंपज्जित्ताणंविहरेज्जा' इत्यादि । व्याख्याप्यस्य सूत्रद्वयस्य तथैव । अथ किमविशेषेण भिक्षाविव प्रतिमाप्रतिपत्तिविधिरनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत आह-गणनिक्खेवणम्मीत्यादि नवरं नानात्वं भेदो गणनिक्षेपणे । इयमत्र भावना-गणावच्छेदी गणावच्छेदित्वं मुक्त्वा प्रतिमां प्रतिपद्यते, आचार्योऽन्यं गणधरंस्थापयित्वेतिशेषः । अथवा इदं भिक्षुगतविधेर्गणावच्छेद्याचार्ययोविधिः नानात्वंगणावच्छेदी आचार्यो वा पूर्वगृहीतं उपधिं निक्षिप्य अन्यमुपधिप्रायोग्यमुत्पाद्य प्रतिमांप्रतिपद्यते ।
इत्युक्तः प्रतिमाप्रतिपत्तिविधिः । इदानीं समातिविधिमाह[भा.८०९] तीरिय उडभामणियोगदरिसणं साहु सन्निवप्पाहे ।
दंडीय भोईय असती सावगसंधोवसक्कारं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org