SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १, मूलं: २५, [भा. ८०३] २६३ · वृ- गणंगच्छं, सह बालाद्यैस्तेचतेवृद्धाश्च तैराकुलमामन्त्र्य समाहूय क्षमयति, यथा यदि कञ्चित् प्रमादतो मयान सुष्टुभवतांवर्तितंतदहं निःशल्यो निःकषायः क्षमयामीति, येचपूर्वविरुद्धास्तानेवंस विशेषतः क्षमयति, । एवमुक्तेये लघवस्तेआनन्दाश्रुप्रपातं कुर्वाणा भूमिगतशीर्षास्तं क्षमयन्ति । ये पुनः श्रुतपर्यायवृद्धाः तान् पादेषुपतित्वासक्षमयति । उक्तंच जई किं चिपमाएणं न सुट्ठभेवट्टियं मए पुट्विं । तंखामेमि अहं निस्सल्लो निक्कसाओय ।। आनंदअंसुपायं कुणमाणातेविभूमीगयसीसा । तंखामेति जहरिहं, जहारिहंखामिया तेन ।। एवं क्षमयतस्तस्य के गुणा इति चेत् ? उच्यते-निःशल्यता विनयप्रतिपतिर्मार्गस्य प्रकाशनं, अपहृतभारस्येवभारवाहस्यलघुता, एकाकित्वप्रतिपत्त्यभ्युपगमः । क्वचिदप्यप्रतिबद्धताएतेप्रतिमासु प्रतिपद्यमानासुक्षमयतोगुणाः । उक्तंचः खामेतस्स गुणा खलु निसल्लयविनयदीवनामग्गे । लाघवियंएगत्तं अप्पडिबद्धोय पडिमासु ।। गतमामंत्रणद्वारं । स एवं च क्षामयित्वा भावितात्मा तपोभावनाभावितान्तःउग्रतपः करोति, गतं तपोद्वारं । सचतथाप्रतिमांप्रतिपन्नःसंयमे प्रथमेवा सामायिकलक्षणेवर्तते, द्वितीयेवाच्छेदोपस्थापने। तत्र प्रथमे संयमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादि प्रथमपश्चिमतीर्थकरतीर्थेषु, ।एतच्च प्रतिपद्यमानकानधिकृत्मयोक्तंवेदितव्यम् । पूर्वप्रतिपन्नाः पुनःपञ्चानांसंयमानामन्यतमस्मिन् संयमेभवेयुः । उक्तंच पढमे वा बिइए वापडिवाइसंजमम्मिपडिमातो । पुव्वपडिवन्नतो पुन, अन्नयरेसंजमे होज्जा ।। गतंसंयमद्वारमधुना भक्तद्वारमुपधिद्वारंचाह[भा.८०४] पगहियमेवकडं भत्तजहन्नेणनवविहो उवही । पाउरणवज्जियस्स उइयरस्स दसा विजाबारा ।। वृ- भक्तमुपलक्षणमेतत्, पानकं च अलेपकृत् कल्पते । तथाप्रगृहीतं इहालेपकृभिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमा मध्यमग्रहणे चाद्यंतयोरपि ग्रहणं । ततोऽयमर्थः-सप्तसु पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिएडैषणाया अभिग्रहः । आद्यानां तिसृणां पिएडैषणानांप्रतिषेधः । एतच्चचूर्णिकारोपदेशात् विवृतं । तथाचाहचूर्णिकृत्[भा.८०५] उपरिल्ला हिंचउहि, पिंडेसणाहिंअन्नयरीए । __ अभिगहो सेसासु तिसुअग्गहो इति ।। वृ-गतंभक्तद्वारमुपधिद्वारमाह-जघन्येनोपधिर्नवविधः पात्रपात्रबन्धपात्रस्थापना पात्रकेसरिका पटलरजस्त्राणगोच्छकमुखवस्त्रिकारजोहरणलक्षण एष च नवविधो जघन्यत उपधिर्यः प्रावरणवर्जीकृतप्रावरणपरिहाराभिग्रहस्तस्य वेदितव्यः । इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयो यावत् द्वादशविधः । तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः कल्पत्रयस्यापि परिग्रहे द्वादशविधः । गतमुपधिद्वारसम्प्रति निक्षेपद्वारमाह [भा.८०६) वसहीए निग्गमनं हिंण्डतो सव्वभंडमादाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy