________________
उद्देशक : १, मूलं : २५, [भां. ७८६ ]
[भा. ७८६ ]
२५९
उभयतो किसी किसदेही दढोकिसोया वि दोहिवि दढो य ।
बीयचरमापसत्था धितिदेहं समप्पिया भंगा ।।
वृ- बलचिन्तायां चतुर्भङ्गी । तद्यथा-उभयतो धृति देहाभ्यां कृशः । किमुक्तं भवति ? शरीरेण कृशी धृत्या च दृढः एष द्वितीयः । दृढो किसोयावित्ति शरीरेण द्दढो धृत्याकृशः, एष तृतीयः । द्वाभ्यामपि च शरीरेण धृत्या च दृढः । एष चतुर्थः । अत्र द्वितीयचतुर्थभङ्गौ धृतिदेहसमाश्रितौ । धृतिदेहविपयाँ प्रशस्तावेकाकिविहारप्रतिमायोग्यौ । द्वितीयस्य दृढधृत्याश्रयत्वात् । चरमस्य दृढधृतिदेहाश्रयत्वात् । एते च एकाकि विहारप्रतिपत्तये कृतपरिकर्माणः स्वयमेवात्मानं तुलितमतुलितं वा प्रायो जानन्ति । ज्ञात्वा च प्रतिमाप्रतिपत्तये आचार्यान् विज्ञपयन्ति । तथा चाह—
[ भा. ७८७ ]
सुत्तत्थझरियसारा सुतेनकालं तु सुठु नाऊणं । परिचिय परिकम्मेण य सुठु तुलेऊण अप्पाणं ।। तो विनवेति धीरा आयरिए एगविहरणमती उ । परियागसुयसरीरे कयकरणा तिव्वसद्धागा ।।
[ भा. ७८८ ]
वृ- सूत्रार्थयोर्झरणेन क्षरणेन साराः शोभनाः सूत्रार्थझरणसारा सूत्रेण सूत्रपरिकर्मणातः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादावपि सुष्ठुज्ञात्वा परिचितेन स्वभ्यस्तेन परिकर्मणा तपः प्रभृति परिकर्मणा सुष्ठु आत्मानं तुलयित्वा धीरा महासत्त्वा एकाकिविहरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याये प्रव्रज्यापर्याये च श्रुते पूर्वगते शरीरे च कृतकरणाः कृताभ्यासास्तीव्र श्रद्धाकाः प्रवर्द्धमानश्रद्धाकाः ततस्तुलनानन्तरमाचार्यान् विज्ञपयन्ति, अत्रयोऽनाचार्यः स आचार्यं विज्ञपयति । यथा-‘भगवन् कृतपरिकर्माहमिच्छामि युष्माभिरनुज्ञात एकाकिविहारप्रतिमां प्रतिपत्तुमिति, यः पुनराचार्यः स स्वगच्छाय कथयति । यथा परिकर्मितोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमामिति यदुक्तंपरियार सुय सरीरे इति तद्वयाख्यानार्थमाह
1
[भा. ७८९ ]
गूण तीस वीसा, कोडी आयारवत्थु दसमं च । संघयणं पुन आदिल्लगाण तिन्हं तु अन्नयरं
वृ- द्विविधः पर्यायो-गृहि पर्यायो व्रतपर्यायश्च । तत्र यो जन्मत आरभ्य पर्यायः सः गृहिपर्यायः । स च जघन्यत एकोनत्रिंशद्वर्षाणि कथमिति चेदुच्यते-इदं गर्भाष्टमवर्षं प्रव्रजितो विंशतिवर्षपर्यायस्य च दृष्टिवाद उहिष्टः, एकेनवर्षेण योगः समाप्तः । सर्वमीलनेन जातान्येकोनत्रिंशद्वर्षाणि, व्रतपर्यायप्रव्रज्याप्रतिपत्तेः आरभ्य स च जघन्यतो विंशतिवर्षाणि तावत् प्रमाणपर्यायस्यैव दृष्टिवादोद्देशभावात्। उत्कर्षतो जन्मतो पर्यायो व्रतपर्यायो वा देशोनापूर्वकोटी एतच्च पूर्वकोट्यायुष्के वेदितव्यं नान्यस्य । उक्तं च
[भा. ७९०]
पडिमा पडिवनस्स उ मिहिपरियातो जहनउगुणतीसा । जतिपरियातो वीसा दोण्हवि उक्कोसदेसूणा ।।
वृ- श्रुतं जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु यावत्तत्र कालज्ञानस्याभिधानात्, उत्कर्षतो यावद्दशमं पूर्वं, च शद्वस्यानुक्तार्थ संसूचनाद्देशोनमिति द्रष्टव्यम् । तथा चोक्तम्आयारवत्थुतइयं जहन्नगं होइ नवमपुव्वस्स । तहियं कालन्नाणं दस उक्कोसाणि भिन्नाणि ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org