________________
२५८
व्यवहार - छेदसूत्रम् - १-१ / २५ यथोक्तस्वरूपो निस्सङ्गो भवति । बलभावनातो धृत्यवष्टम्भः प्राणात्ययेऽपि नात्मानं मुञ्चति । तदेवं परिकर्मकरणं व्याख्यातम् । सम्प्रतिं दो जोहा इत्येतत् व्याख्यातव्यं । तत्रपरिकर्मणिकृत आचार्येण स परीक्षणीयः । किमसौ कृतसम्यक् परिकर्मा किं वानेति । तत्र द्वयोर्योध निदर्शने त एवाहपज्जोयमवंतीवइखंड कण्णसाहस्सि मल्ल पारिच्छा ।
[ भा. ७८३]
महकाल च्छ्गलसुरघड तालपिसाए करे मंसं । ।
वृ- अवन्तीपतिः प्रद्योतः खण्डकर्मो नामं मन्त्री । अन्यदा राज्ञः पार्श्वे साहस्त्रिकः साहस्रिकयोधी मल्लः समागतः, । तस्य खण्डकर्णेनामात्येन महाकालश्मशाने च्छागेन सुराकुटेन च मदिंराघटेन परीक्षा कृता । तत्र तालप्रमाणः पिशाचस्तालपिशाचस्तस्य करे हस्ते मांसं दत्तवान् । द्वितीयो मल्ल आगतः । सोऽपि तथैव परीक्षितः । केवलं स तालपिशाचाद्भयमगमत् । एष गाथासंक्षेपार्थः । । भावार्थ:कथानकादवसेयस्तच्चेदम्, अवंतीजनवए पज्जोयस्स रन्नोमंती खंडकन्नो नाम । अन्नया सहस्संपि जो जुद्धे जिनति सो आगतो ओलग्गामिति रायाणं विन्नवेति । रन्ना भणियं - उलग्गाहि । ततो सो भणतिममवित्ती जा सहस्सजोहाणं सा दायव्वा । ततो खंडकन्नो चिंतेति । परिक्खामि ताव एयरस सत्तं जइसत्तमंती होइ ततो सव्वं साहस्सजोही । ततो खंडकन्नेणं च्छ्गलओसुराघडतो य दातुं भणितो, अज्ज कण्हचउद्दसीए रत्तिं महाकाले मसाणे भक्खेयव्वं । ततो सो महाकालं गंतुंच्छ्गलयं उद्दवित्ता पउलेउं मंसं खाइउं सुरं च पाउमाढत्तो । नवरं तालपिसाची आगंतुं हत्थं पसारेति । ममवि देहित्ति । ततो सो सहस्सजोही अभीतो पिसायस्य वि देति । अप्पणाय खायतिय, स्न्नाय पच्चंतियपुरिसापडियारगा पेसिया ते जहावित्तं पसित्ता रन्नी खंडकन्नस्सयं कहेंति । सच्चं सहस्सजोही एसोत्ति वित्तीदिन्ना, । अन्नोवि आगंतु विन्नवेत्ति । उलग्गामित्ति सोवि तहेव परिक्खिउमाढत्तो । तालपिसातो आगतो भीतो, नट्टीपरिचारगेहिं खंडकन्नस्स य जहावित्तं कहियं । न दिन्ना सहस्स जोहवित्ती । एवमाचार्योऽपि किमयं कृतसम्यक् परिकर्मा किंवा नेति तपःप्रभृतिभिः तं परीक्षेत कथमिति चेदत आह
1
[ भा. ७८४ ] न किलम्मति दीहेणवि तवेण न वितासितो वि बीहेति । छन्ने विट्टितो वेलं साहति पुट्ठो अवितहंतु ।। पुरपच्छ संथुएहिं न सज्ज दिट्ठिरागमाईहिं । दिट्टी सुहवण्णेहिय अब्भत्थबलं समूहंति ।।
[भा. ७८५ ]
वृ- आचार्यस्तपःकारापणादिना प्रकारेण तं सम्यक् परीक्षते । तद्यथा दीर्घेणापि तपसा न क्लाम्यति तदा स तपः परिकर्मितो ज्ञातव्यः । यदा तु नवित्रासितो मार्जारप्रभृतिश्वापदादिभिर्न बिभेति । तदा सत्त्वपरिकर्मितः । यदा तु मेघच्छन्ने नभसि वसति मध्ये वा स्थितः कियद्गतं दिवसस्य कियद्वा गतं रात्रेः कियद्वा शेषमिति दिवसस्य रात्रेर्वा वेलां पृष्टः सन्नवितथं साधयति कथयति, तदा ज्ञातव्यः स सूत्रभावना परिकर्मितः, तथा पूर्व संस्तुता मातापित्रादयः पश्चात्संस्तुता भार्या श्वश्रूश्वशुरादयः तेषु पूर्वसंस्तुतपश्चात् संस्तुतेषु वन्दनार्थमुपगतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । दृष्टिरागादिभिर्न स्निग्धदृष्टयादिभिः । आदिशब्दात् मुखविकाशादिपरिग्रहः न सज्जते न सङ्गमुपजाति, तदा स एकत्वभावना परिकर्मितो वेदितव्यः । एतदेव व्याचष्टे - दृष्टिमुखवर्णाभ्यां स्निग्धया दृष्ट्या अवलोकनेन स्फारिकृतकान्तिमुखवर्णकरणेन च । उपलक्षणमेतत् संभाषणादिना च तस्याध्यात्मबलमेकाकित्व भावनाबलं समूहंति परिभावयन्ति सूरयः । बलभावनामाह
7
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org