SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ५६ ] २५ च छउमत्थस्सहवइ आलोयणा न केवलिणो इति तथा सूत्रोक्तेन प्रकारेण भिक्षते इत्येवं शीलोभिक्षु स्तस्ययतेरालोचना प्रायश्चित्तंस्यात् तदपि च गुरुणामंतिके समीपेनान्येषामिति, इह करणीया योगा इति सामान्येनोक्तमधुनानामग्राहं करणीययोग प्रतिपादनार्थमाह [भा. ५७ ] भिक्खवियार विहारे अनेसुयएवमाइकजेसु । अविगडियंमिअ विनती होज्ज असुद्धे व परिभोगो । । वृ- भिक्षायां विचारे विहारे अन्येष्वपि चैवमादिकेषु कार्येषु आलोचनाप्रायश्चितं भवतीति वर्त्तते इयमत्रभावना गुरुमापृच्छ्य गुरुणानुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोंच्छनादि यदिवा आचार्योपाध्याय स्थविरबालग्लान शैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषध्यादि गृहीत्वासमागतो विचारउच्चारभूमिस्तस्माद्वासमागतो विहारो वसतावस्वाध्याये स्वाध्यायमकृत्वा वसतेरन्यत्रगमनं, ततएवमादि ग्रहणाच्चैत्यवंदन निमित्तं, पूर्वगृहीतपीठ फलक शय्या संस्तारकप्रत्यप्र्पणनिमित्तं वा बहुश्रुतापूर्व संविग्नानां वंदनप्रत्ययं वा संशव्यवच्छेदाय वा श्राद्धस्य ज्ञात्यवषन्न विहाराणामवबोधाय, साधार्मिकाणां वा संयमीत्साहनिमित्तं हस्तशतात्परं दूरमासन्नं वा गत्वा समागतीयद्यपि नास्तिकश्चिदतीचारस्तथापि यथाविधि गुरुसमक्षमालोचयितव्यमन्यथा सूक्ष्मचेष्टा निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुध्यभावात् अन्यच्च निरतिचारोपि यदि गुरोः समक्षं नालोचयति, ततोऽ विनयोभवति, अशुद्धपरिभोगो वा तथाचाह अविकटिते अनालोचिते अविनयो वा अशुद्धस्य वा परिभोगो भवेत् आलोचिते तूभयदोपाऽभावः नन्वविनयदोषाभावः स्याद शुद्ध परिभोगाभावः कथं ? उच्यते केनापि साधुना भिक्षा प्रचुरासत्कारपुरस्सरा लब्धा, तस्यशंकितमुपजातं, किंनामेयं भिक्षा शुद्धाऽशुद्धावा, तत्रयद्यनालोच्यभुंक्तेततोऽशुद्धपरिभोगां भवति, तेन वालोचितं आचार्येण पृष्टमन्य दिवसेषुतस्मिन् गृहे कीदृशी भिक्षाअलभ्यत, किवतोवा भोजनकारिणः ? प्राघूर्णका वाकेप्यागता, संखंडीवाजाता, इत्यादि विभाषाएव च पृष्टे तेन यथावस्थितं कथितं, ततआचार्येण ज्ञाता शुद्धा अशुद्ध वा, तस्मादालोचयितव्यं, अन्यच्च - छाउमत्थो तहन्नहा वाहवेजउवजोगी । आलोएंतोउहइ, सोउंचवियाणइसीया [ भा. ५८ ] - वृ- अन्यच्चकिंचान्यत् इत्यर्थः छाद्ममस्थिकः सामान्यसाधुगतउपयोगस्तथा वथावस्त्वनुसारी अन्यथा वा विपरीतो भवेत्; आचार्यस्त्वति मेधाधारणादि गुणसमन्विततया बहुश्रुततयावातिशयज्ञानीततः शंकितमालोचिते निःशंकितं करोति, तथायद्यपिगृह्णतः शंकितमुपजातं तथापि कदाचित् आलोचयन् स्वप्रज्ञयाप्यूहते, ततः शुद्ध मशुद्धंवा स्वयमेव जानाति, यदि वातदीयामालोचनां श्रुत्वा श्रोता आचार्योदिकः पूर्वोक्तेन प्रकारेण यदिवा आचार्यादिकस्य पार्श्वे बहवो लोकाः समागच्छंति, बहुभ्यश्च शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जानाति शुद्धमशुद्धं वा, तस्मादालीचयितव्यं, यदुक्तं गुरुणंतिएसिया इति तत्रस्यादित्यस्य व्याख्यानमाह - [ भा. ५८ ] आसंकम वहियंमियहोइ सिया अवहिए तहिपगयं । गणतत्ति विप्पमुक्के, विविक्खेवेवावि आसंका ।। वृ- स्याच्छद्व आशंकमिति प्राकृतत्वादाशंकायामवधृतेचार्थे आशंकानामविभापा यथास्यादिति कोऽर्थेः कदाचिद्भवेत् अवधृतंनाम अवधारणं तत्रतयांद्वयोरर्थयोर्मध्ये अवधुते अवधारणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy