SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१प्रकृतमधिकारः अवधारणार्थोत्रस्याच्छब्दःइतिभावः ततोयमर्थः गुरुणामंतिकेनियमादालोचना, यदिवा आशंकायामपि प्रकृतं, तत्रायमर्थः गुरुणामंतिकस्यात्तावदालोचना यदि पुनराचार्यो गणतृप्तिविप्रमुक्तोभवति, ततस्तमस्मिन् गणतृप्तिविप्रमुक्ते उपाध्यायस्य समीपे आलोचना, अथोपाध्यायस्यापिकुलादि कार्यैः श्राद्धादि कथनैर्वाप्याक्षेपस्ततो अन्यस्य गीतार्थस्य तदभावे अगीतार्थस्य समीपे आलोचयितव्यं, गतमालोचनाहप्रायश्चित्त मिदानी प्रतिक्रमणार्ह मभिधित्सुराह - [भा.६०] गुत्तीसुयसमितीसुय पडिरुवीजोगेतहापसत्थेय । वइक्कमे अनाभोगे पावच्छित्तं पडिक्कमणं ।। वृ- गुप्तयस्तिस्त्रस्तद्यथा मनोगुप्ति वर्चन गुप्तिः कायगुप्तिस्तासु, समितयः पंच तद्यथा इर्यासमिति र्भाषासमितिरेपणासमितिरादानभांडमात्रनिक्षेपणा समिति रुच्चार प्रश्रवण श्लेष्मसिंधाणजल्लपारिष्ठापनिकासमितिश्च एतासु च सहसाकारतोऽनाभोगतोवा कथमपि प्रमादे सतीतिवाक्यशेषः प्रायश्चित्तं प्रतिक्रमणंमिथ्यादुष्कृतप्रदानलक्षणं, इयमत्रभावना, सहसाकारतोऽनाभोगतो वायदिमनसादुश्चितितं स्यात्वचसादुर्भाषितं,कायनंदुद्वेष्टितं, तथाईर्यायां यदिकथांकथयन्व्रजेत्भापायामपियदि गृहस्थभाषयाढड्डरस्वरेण वा भाषेत, एषणायांभक्तपानगवेषणवेलायामनुपगुक्तो भांडोपकरणस्यादानेनिक्षेपेवाऽप्रमार्जयिता अप्रत्युपेक्षितेस्थंडिले उच्चारादीनां परिठापयिता न च हिंसादोषमापन्नः उपलक्षणमेतत् तेनयदिकंदर्पोवाहासोवास्त्रीभक्तचौरजनपदकथया तथाक्रोधमानमायालोभेषुगमनं, विषयेषुवाशब्दरुपरसगंधस्पर्शलक्षणेप्वनुषंगः सहसानाभोगतोवा कृतः स्यात्ततएते सर्वेषुस्थानेषु मिथ्यादुष्कृततप्रदानलक्षणंप्रायश्चित्तमिति, तथा प्रतिरुपयोगप्रतिरुपविनयात्मकेव्यापारेतथा प्रशस्तो यो यत्र करणीयो व्यापारः सतत्र प्रशस्तईच्छामिच्छाइत्यादिस्तस्मिन्न पिवाक्रियमाणे प्रायश्चित्तं प्रतिक्रमणं, इह प्रतिरुपग्रहणं ज्ञानादि विनयोपलक्षणं, ततो यमर्थः ज्ञानदर्शनचारित्रप्रतिरुपलक्षणप्रकारविनयाकरणे इच्छामिथ्यातथाकारादि प्रशस्तयोगाकरणे उपलक्षणमेतत् आचार्यादिप प्रद्वेषादिकरणे वाच अंतर भापादि कृतौ कायेनपुरो गमनादौ प्रतिक्रमणं प्रायश्चित्तं, तथा उत्तरगुणप्रतिसेवनायां वइक्कमेइति मर्यादाकथनं तेनातिक्रमेव्यतिक्रमेच प्राग्व्याख्यातस्वरुपे तथा, अनाभोगादकृत्यप्रतिसेवने मिथ्यादुष्कृत प्रदानात्मकं प्रतिक्रमणं प्रायश्चित्तमिति गाथा समासार्थः व्यासार्थतुभाष्यकृत् व्याचिख्यासुः प्रथमतो गुत्तीसुय समिइसुय इति व्याख्यानयति ।। [भा.६१] केवलमेव अगुत्तोसहसानाभोगतो वअप्पहिंसा । तहियंतुपडिकमणंआउट्टि तवोनवादानं ।। वृ- एवकारो भिन्नक्रमः अगुप्तएव गुप्तिरहित एवकेवलं, उपलक्षणमेतत् तेनसमितिरहित एव केवलमित्यपिद्रष्टव्यं, केवल ग्रहणमगुप्तत्वमसमितत्वंचैकं केवलं, नत्वगुप्तत्वा समितत्वप्रत्ययं प्राणिव्यापादनमापन्नइतिप्रतिपादनार्थं, तथा चाह अप्पहिंसा अल्पशब्दो अभाववाची, अल्पानवकाचन प्राणिनो हिंसाभवेदिति शेपः, कथमगुप्तोऽ समितोवेत्यतआह सहसापदैकदेशेपदसमुदायोपचारात् सहसाकारतोऽनाभोगतोवातत्रसहसाकारतोनामपुव्वं अपासिउणं, डूंढे पाएकुलिंगएपासे, नयतरइति नियत्तेउं, जोगं सहसाकारण मेयं । इत्येवंरुपः, अनाभोगो विस्मृतिः, तहियंतु पडिक्कमणमिति तत्र सहसाकारतो नाभोगतोवाकेवलएवागुप्तत्वेअसमितत्वेचसतिप्रायश्चित्तंप्रतिक्रमणंयदिपुनः आउट्टित्ति उपेत्य अगुप्तत्वमसमि तत्वं वा करोति तदा तत्र प्रायश्चित्तं तपोहँ नवादानं तपसइति गम्यते, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy