________________
२४
व्यवहार - छेदसूत्रम् - १
तत्र कानामालोचनेतयित् प्रथमंद्वारं तत्प्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिषुव्याख्यातत्वादहिभाष्यकृता न व्याख्यातं, तथापिस्थाना शून्यार्थकिंचिदुच्यते, आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्ववा कार्यसमाप्ते रूधूंवा यदविपूर्वमपि पश्चादपि च गुरोः पुरतोवचसाप्रकटीकरणं सा चालोचना उपरितनेषु प्राश्चित्तेषु केषुचित् संभवति केषुचिन्न संभवति तत्रयेषुसंभवति तत्प्रसिध्यर्थमिदमाह - ( भा. ५५ ]
बिइएनत्थिवियडनावाउविवेगतहाविउस्सग्गो । आलोयणाउ नियमा गीयमगीयेच केसिंचि ।।
वृ द्वितीयसूत्रक्रमप्रामाण्यानुसरणात् प्रतिक्रमणं, तस्मिन द्वितीये प्रतिक्रमणलक्षणेप्रायश्चित्ते नास्ति विकटना आलोचना, तथाहि सहसानाभोगतोवा यदि किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विंद्रियगोचरमागतेषु रागगमनम् अमनोज्ञेषु द्वेषगमनं, तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूते तच्चतेनैव शुद्धिंयातीतिनालोचयति, बाउ विवेगत्ति वा शब्दो विभाषायां विवेक विवेकाई प्रायश्चिते, आलोचना या विभाषा कदाचिद्भवति, कदाचिन्न भवतीति भावः, तथाहि तद् विवेकार्हं नाम प्रायश्चित्तं यत्परिस्थापनयाशुध्यति, तत्रयदकल्पिकमाधाकर्म्मिकादि पूर्वऽमविदितत्वेनगृहीतं, पश्चाच्च कथमपि ज्ञातं तद्यदा परिस्थापयतः शुभभावनाध्यारो हेकेवलज्ञानमुत्पद्यते, तदाऽ सौ कृतकृत्यो जात इतिनालोचयति, अनुत्पन्ने तुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयतीति, तहाविउस्सग्गे इति, यथा विवेक आलोचनायाविभाषा तथा व्युत्सर्गेपि किमुक्तं भवति, व्युत्सर्गेपि कदाचिदालोचना न भवति, यथास्वप्ने हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः तदनंतरं च शुभभावनाप्रकार्षतः केवलज्ञानमुदपादि, मरणं वा तस्याकस्मिकिमुपजातमिति नास्त्यालोचना, अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यकं विकटयन् आलोचयति, यथा स्वप्नमया हिंसादिक मासेवितं कायोत्सर्गेणच शोधितमिति, गतमालोचनेतिद्वारमधुना कस्यसकाशे आलोचना कर्तव्यतिद्वारं विवरीपुराह, सा आलोचना नियमाद वश्यतया गीतमिति प्राकृतत्वात् षष्ठ्यर्थे प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या, नागीतार्थस्य, अत्रैवभतांतर माह अगीयेकेसिंचि केषांचिदाचार्याणामिदंमतं उत्सर्गतस्तावदाचार्यस्य समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादिप्रयोजनगतो भवति तदा अंगीतार्थस्यापि समीपे भिक्षाद्यालोचनीयमिति, तच्चालोचनार्हप्रायश्चित्तमेतेषुस्थानेषुभवति । करणिजेसुउजोगेसु, छउमत्थस्सभिक्खुणी
[भा. ५६ ]
आलोयणपच्छितं, गुरुणं अंतिएसिया ।।
वृ- करणीयाः नाम अवश्य कर्त्तव्यः योगाः श्रुतोपदिष्टाः संयमहेतवः क्रियाः अथवा योगा मनोवाक्काय
व्यापारा:
जोगोविरियं थामी, उच्छाह परक्कमोतहाचेट्ठा । सत्तीसामत्थं चिय जोगस्स हवंति पज्जाया ।।
इतिवचनात् ते चावश्यकर्त्तव्य इमे कूर्म्मइव वसतौसंलीनगात्रः सुप्रणिहित पाणिपादोऽवतिष्ठते, वचनमपि सत्यमसत्यामृषां वाब्रूते, ना सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्योदीरणमेवंरूपेपुकरणीयेषु सम्यगुपयुक्तस्य निरतिचारस्येतिवाक्यशेपः सातिचारस्योपरितनप्रायश्चित्तसंभवात् छद्मस्थस्यपरीक्षज्ञानिनी, नतुकेवलज्ञानिन स्तस्यकृतकृत्यत्वेना लोचनाया अयोगात उक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org