SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ५३ ] २३ वृ- आङ्मर्यादायां सा च मर्यादा इयं । जहबालोजंपतो कजमकर्ज उजजुए भणइ तं तह आलोएजा मायामय वप्पिमुक्कोय ।। अनया मर्यादया लोकृदर्शने चुरादित्वात् निच लोकनं लोचना प्रकटीकरणं, आलोचनं गुरोः पुरतोवचसा प्रकटीकरणमितिभावः यत् प्रायश्चित्तमालोचना मात्रेण शुध्यनि. तदालोचनार्हतया कारणे कार्योपचारादालोचनं, तथा प्रतिक्रमणं दोषात्प्रतिनिवर्त्तन मपुनः करणतया मिथ्यादुष्कृतप्रदानमत्यिर्थः, तदर्ह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति प्रायश्चित्तं मिथ्यादुष्कृत मात्रेणैवशुद्धिमासादयतिनच गुरु समक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादि प्रक्षेपादुपजातं प्रायश्चित्तं तथाहसिहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तंभवति, न च हिंसादिकं दोषमापन्नस्तर्हि गुरुसमक्षमालोचनामंतरेणापि मिथ्यादुः कृतप्रदानमात्रेण स शुध्यति, तत् प्रतिक्रमणमार्हत्वात् प्रतिक्रमणं, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदगिरुसमक्षमालोचयतआलोच्ययो गुरु संदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुः कृतमिति ब्रूते, तदा शुध्यतितत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् विवेकः परित्यागः यत् प्रायश्चित्तं विवेक एवकृते शुद्धिमासादयति नान्यथा, यथाधाकर्म्मणि गृहिते तत्ववेकार्हत्वात् विवेकः तथा व्युत्सर्गः कायचेष्टानिरोधोपयोगमात्रेण शुध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तद्व्युत्सर्गार्हत्वात् व्युत्सर्गः तवेत्तियस्मिन्प्रतिसेवितनिर्विकृतकादिपण्मासपर्यवसानं तपोदीयते, तत्तपोर्हत्वात् तपः यस्मिन्समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयोमहाव्रतारोपणं तन्मूलार्हत्वान्मूलं, येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते, यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति, पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यतेतदनवस्थित्वादनवस्थितप्रायश्चित्तं पारंचिए चेवत्ति अचूगतौच, यस्मिन् प्रतिसेवितेलिंगक्षेत्रकालतपसां पारमंचति तत् पारांचित मर्हतीति पारांचितं, एपसंक्षेपार्थः विस्तरार्थं तु प्रतिद्वारम् भाष्यकृदेववक्ष्यति, तत्र प्रथमद्वारमालोचनेति विवरिषुरिदमाह - [ भा. ५४ ] आलोयणत्तिकापुन कस्ससगासेचेवहोइकायव्वा केसुच कजेसु भवे - गमणागमणादिएसुतु ।। वृ- काकिंस्वरूपापुनरालोचनेति, प्रथमतः प्रतिपाद्यंतदनंतरं कस्य सकाशे समीपे भवति कर्तृव्यालोचनेतिवाच्यं, तथा केषु कार्येषु भवत्यालोचना तत्र प्रतिपत्तिलाघवाय संक्षेपतोऽ त्रैवनिर्वचनमाह गमनागमनादकिषुगमने आगमने आदिशब्दात् शय्या संस्तारकः वस्त्रपात्रपादप्रोच्छनक गहणादपरिग्रहः, तु शब्दो विशेषणे सचैतत् विशिनष्टि, गमनागमनादष्वि वश्यकर्त्तव्येषु सम्यक्उपयुक्तस्यादुष्टभावतया निरति चारस्य छद्मस्थस्या प्रमत्तस्य यतेरालोचना भवतीति आह, यानि नामावश्यकर्त्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्या दुष्टभावतया निरतिचारस्या प्रमत्तस्य किमालोचनया ? तामंतेरणापि तस्य शुद्धत्वात् यथा सूत्रं प्रवृत्तेः सत्य मेतत् केवलं या चेष्टा निमित्ताः सूक्ष्मप्रमादनिमित्ता वा, सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुध्यंतीति, तच्छुद्धिनिमित्त मालोचना, उक्तं च 11911 ।। २ ।। Jain Education International जया उवउत्तो निरइयारोय करेइ करणीज्जावते जोगा तत्थका विसोही आलोइए अनालोइ एव ।। गुरभणइतत्थ जाचिट्ट निमित्ता वा सुहुमा - आसव किरिया ताउ सुज्झंति आलोयणमित्तेणंति || For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy