________________
२५४
व्यवहार - छेदसूत्रम् - १-१/२५ विनिर्गच्छति, ततः स नियमादात्मविराधनां संयमविराधनां च प्राप्नोति । तदेवं घरसउनिसीहत्त व्याख्यातम् । सम्प्रति प्रव्रजितशिक्षादीनि द्वाराणि वक्तव्यानि तत्संग्राहिका चेयं गाथापव्वज्जासिक्खावयमत्थयग्गहणंच अनियतो वासो । निष्पत्तीय विहारो, सामायारी ठिती चेव ।।
[ भा. ७६६ ]
वृ- अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तुलेशतोऽर्थमात्रमभिधीयते । प्रथमतस्तावत्प्रवज्या भवति सा च द्विधा धर्मश्रवणतोऽभिसमागमतश्च । तत्र या आचार्यादिभ्यो धर्मदेशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणतः । या पुनर्जातिस्मरणादिना सा अभिसमागमतः, प्रव्रजितस्य शिक्षापदं भवति । शिक्षा च द्विधा ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र ग्रहणशिक्षा सूत्रावगाहनलक्षणा । आसेवनाशिक्षा सामाचार्यभ्यसनं । शिक्षापदमन्तरं चार्थग्रहणंभवति, अर्थग्रहणकरणानन्तरं चानियतो वासो नानादेशपरिभ्रमणं कर्तव्यम् । तदनन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीभाषात्मकस्य सूत्रस्य परिस्फुटरूपार्थनिर्णयकारित्वानुपपत्तेः, तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्ति र्निष्पादनं कर्तव्यम् । तदनन्तरं विहारोऽभ्युद्यतो विहारो जिनकल्पादिप्रतिपत्तिलक्षणः करणीयः । तस्य च विहारस्य या सामाचारी सा वक्तव्या । तथा स्थितिर्जिनकल्पादीनां क्षेत्रकालादिनां क्षेत्रकालादिद्वारेषु चिन्तनीया तत्र प्रव्रज्या शिक्षापदमर्थग आहणमनियतो वासः निष्पत्तिविहारः । सामाचारीति सप्त द्वाराणि प्रतिमायामुपयोगीनि तत्रापि प्रव्रज्या शिक्षापदमर्थग्रहणं चेति त्रीणिद्वाराणि प्रतिपत्तुकामस्य नियमतो भवन्ति, शेषाणां भजना । तथा चाह
[भा. ७६७]
पव्वज्जा सिक्खापयमत्थगहणं च सेसए भयणा । सामायारीविसेसो नवरं वुत्तो उ पडिमाए ।।
वृ- प्रव्रज्या प्रवर्जनं, शिक्षापदं ग्रहणं सेवनारूपं शिक्षाद्विकं अर्थग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिमां प्रतिपित्सोर्नियमेन भवति । शेषके अनियतवासनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पनाय आचार्य पदार्हस्तस्य नियमादिदं द्वारद्वयमस्ति, शेषस्य तु नास्तीत्यर्थः । विहारः पुनः प्रतिमाप्रतिपत्तिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति नवरं सामाचारीविशेषः प्रतिमायां प्रतिमागतो दशाश्रुतस्कन्धे भिक्षुप्रतिमा ध्ययने उक्त प्रतिपादितः इति न पुनरुच्यते । । सम्प्रति परिकर्मकरणं वक्तव्यम् । तत्र पर आह- ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उत गच्छाद्विनिर्गत्येति सूरिराह
[भा. ७६८ ]
गणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अत्थि ।
नीति गणात इहरा कुणति गणे चेव परिकम्मं ।।
बृ- यदि नाम गणे गच्छे अन्योन्यगणधरो गणधरसमानो गणधरपदार्ह इत्यर्थः । गणधरगुणैर्युक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्तर्हितं गणेस्थापयित्वा गणाद्विनिर्गच्छतिविनिर्गत्य च परिकर्म करोति इतरथा तथाविधान्यगणधरगुणयुक्तगणधरत्वार्हाभावे गण एवं स्थितः सन्परिकर्म करोति । अत्र पर आह- ननु तेन पूर्वं द्विविधांशिक्षां शिक्षमाणेनात्मा भावित एव तत किमिदानीं भारत्वाभावेगण एवस्थितः सन् भावनाभिः परिकर्मणयेत्यत आह
[ भा. ७६९]
जइ विहुदुविहा सिक्खा, आइल्ला होति गच्छवासम्मि । तहवि य एगविहारे जा जोग्गा तीए भावेंति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org