________________
उद्देशक : १, मूलं : २५, [भा. ७६९ ]
२५५
वृ- यद्यपि द्विविधा शिक्षा आद्यासूत्रग्रहणसामाचार्यासेवनलक्षणा भवति गच्छ्वासे तथापि गच्छ्वासे योग्या न पुनरेकाकिविहारयोग्या तत एकाकिविहारे या योग्या शिक्षा तद्योग्यसामाचार्यभ्यासरूपतया स आत्मानं भावयति । तद्गतसामाचार्यभ्यासश्चपञ्चभिर्भावनाभिर्भवति, ततस्ताभिर्विशेषत आत्मानं परिकर्मयति । [भा. ७७० ]
तवेण सत्तेण सुत्तेण एगत्तेण बलेणय ।
तुलणा पंचहा वृत्ता पडिमं पडिवज्रत्तो ।।
वृ- प्रतिमां प्रतिपद्यमानस्य प्रतिपत्तुकामस्य तुलना कर्मणा पञ्चधा पञ्च प्रकारा प्रोक्ता । तद्यथातपसा, सत्वेन, सूत्रेण, एकत्वेन बलेन च, तत्र तपोभावनाप्रतिपादनार्थमाहचउभत्तेणजतिउं छठेहिं अटुमेहिं दसमेहिं । बारसचउदसमेहिंय । धीरो धीइमं तुल्ले अप्पा ।।
[ भा. ७७१]
वृ- प्रथमतश्चतुर्थेन यतते किमुक्तं भवति ? प्रथमतो नियमेन त्रीन् वारान् चतुर्थं करोति । तत्र यदि त्रिभिरपि कृते चतुर्थे क्लाम्यति । ततस्तावदभ्यस्यतिचतुर्थं यावच्चतुर्थं कुर्वन मनागपिन क्लममुपयाति । एवं चतुर्थेन यतित्वा त्रीन् वारान् षष्ठं करोति, तत्रापि यदि वास्त्रयं कृते षष्ठे क्लममुपैति ततश्च चतुर्थवत् षष्ठेऽप्यभ्यासं तावत्करोति यावत्तस्यापि करणे ग्लानिर्नोपपद्यते । एवं षष्ठैरात्मानं भावयित्वा अष्टमै र्भावयति, तदनन्तरं दशमैः । ततो द्वादशैरुपलक्षणमेतत् । ततो अनेन प्रकारेण षोडशादिभिश्च धीरो धृतिमान् आत्मानं तुलयति । परिकर्मयति, सच तावत्तुलयति, यावत्षण्मासान् सोपसर्गेऽपिन क्षुधाहानिं उपगच्छति । उक्तं च
[ भा. ७७२ ]
जावत्थो पोरिसि माइ तवोउतंति गुणं । कुणइछुहा विजयठा गिरिनदीसिहेण दिट्टंतो ।। एक्वेक्कं ताव तवं करेति जहा तेन कीरमाणेण । हानी न होइ जइयावि होज छम्मास उवसग्गो ।।
(भा. ७७३।
वृ-तत्र यदुक्तं चतुर्थादिषु तावदस्यासं करोति यावन्न क्लाभ्यति । तत्र गिरिनदीसिंहदृष्टान्तस्तथाहियथा सिंहो गिरिनदीं तरनू परतटे चिह्नं करोति, यथा अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति संचरन् तीक्ष्णेनोदकवेगेनापहियते । ततः प्रत्यावृत्त्योत्तरति । एवं प्रमाणतस्तावत्करणं करोति यावदभग्नः सन् सकलामपि गिरिनदीं शीघ्रं तरति । एवं साधुरपि यदि चतुर्थं षष्ठमष्टमादि वा त्रीन् वारान् कृत्वा क्लामं याति । ततश्चतुर्थादिकं प्रत्येकंतावदभ्यस्यति यावन्न क्लाम्यतीति तथाचेमामेवसिंहदृष्टान्तयोजनामाह[ भा. ७७४ | जह सीहो तह साहू गिरिनदी सीहो तवोधनो साहू । वेयावच्चकिलंतो अभिन्नरोमो य आवासे ।।
वृ- यथा सामान्येन गुहायां वर्त्तमानः सिंहस्तथा गच्छे वर्त्तमानः साधुः यथा च गिरिनदीमुत्तरन् अभ्यासकरणे प्रवृत्तः सिंहस्तथा तपोधनस्तपः करणाभ्यासप्रवृत्तः साधुः एवं च चतुर्थ षष्ठाष्टमादितपः कुर्वन् आत्मवैयावृत्यकरो ज्ञातव्यः । कस्मादिति चेदुच्यते यस्मात्स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते । ततः स आत्मवैयावृत्यकरः । एवमात्मनो वैयावृत्त्ये अक्लान्तः सन् आवासेत्ति अवश्यकरणीयेषु योगेषु भिन्नरोमा भवति । रोममात्रमपि न क्लमं याति । गतं तपो
भावनाद्वारमधुना सत्व भावनाद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org