SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : २५, [भा. ७६१] इति गम्यते । तथा 'पव्वइसिक्ख 'त्ति प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः । शिक्षाग्रहणासेवनरूपं शिक्षाद्विकं । एतेद्वेद्वारे वक्तव्ये, एतच्च शेषद्वाराणामर्थग्रहणादीनामुपलक्षणमतस्तान्यपि वक्तव्यानि । ततः परिकर्मकरणं वक्तव्यं, तदनन्तरं परिकर्मितः परीक्षायां द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ । ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षपकद्विकज्ञातं वक्तव्यम् । तत एवं कृतपरिकर्मा सन् गच्छारामात्सर्वर्तुकपुष्पफलोपगारामरूपात गच्छाद्विनिर्गच्छति । एष द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेवविरीषुः प्रथमतो गृहशकुनिदृष्टान्तं भावयतिवासगगयं तु पोसति चंचूपूरेहिं सउणिया सावं । [ भा. ७६२ ] वारेइ तं उडुतं जाव समत्थं न जायं तु ।। वृ- शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो मावास एवावासकस्तगतं । तुरेवकारार्थः । आवासगगतमेवशावं चञ्चपरैश्चञ्चभरणैः पुष्णाति पुष्टीकरोति । यदि कथमाप्यसञ्जातपक्षोप वालचापलेनावासाद्बहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति, । सा चैवं तावत्करोति यावत्समर्थो न जायते । गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात् । समर्थस्तु जातः सन्न प्रतिषिध्यते । ततो निरुपद्रवं स्वेच्छया विहरति । भावितः शकुनि दृष्टान्तः । सम्प्रति सिंहदृष्टान्तं भावयति [ भा. ७६३] २५३ एमेव वणे सीही सा रक्खइ छावपोयगं गहने । खीरमिउ पिसिय चव्विय, जा खायइ अट्टियाईपि ।। वृ- एवमेव शकुनिकागतेनैव प्रकारेण वने । किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीयं शावपोतकं पुष्णाति यावदस्थीन्यपि खादति । मारिय ममारिएहिं तं तीरावेति छावएहिं तु । [ भा. ७६४] वणमहिस हत्थिवग्घाण पच्चलो जाव सो जातो ।। वृ- वनमहिषादीनां शावकैर्मारिर्तरमारितैर्वा तावत्तमात्मीयशावं तीरयति समर्थीकरोति यावतेषां वनमहिषहस्तिव्याघ्राणां स्वयमेव व्यापादने प्रत्यल समर्थो जातो भवति । कृता सिंहदृष्टान्तभावना ।। साम्प्रतमनयोरेव निदर्शनयोरुपनयनार्थमिदमाह [भा. ७६५ ] Jain Education International अकयपरिकम्ममसहं दुविहा सिक्खा अकोवियमवत्तं । पडिवक्खेण उवमिमो सउणिग सीहादिछावेहिं । । वृ- न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिकर्माणमकृतपरिकर्मत्वादेवासहमेकाकिविहारप्रतिमांप्रतिपत्तुमसमर्थ, तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामपि कोविदमनभिज्ञं तथाश्रुतेन वयसा चा प्राप्तयोग्यताकं पडिवक्खेणंति ये प्राकुशकुनिपोतसिंहशावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षेण प्रतिकूल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादिपरिग्रहस्तैरुपमयामस्तथाहि यथा शकुनिपोतोऽसंजातपक्षो यद्यावासाद्विनिर्गत्य स्वच्छंदसा परिभ्रमति, ततः सकाकढंकादिभिर्विनाशमाविशति । सिंहपोतकोऽपि यदिक्षीराहारो गुहातो विनिर्गत्य वने स्वेच्छया विहरति ततः सोऽपि वनमहिषव्याघ्रादिभिरुपहन्यते । एवं साधुरप्यकृतपरिकर्मा द्विविधशिक्षायामकोविदः श्रुतेन वयसाचाऽप्राप्तयोग्यताको यदि गच्छादेकाकिविहारप्रतिमाप्रतिपत्तये For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy