________________
२५२
व्यवहार - छेदसूत्रम् - १-१ / २४
मू. (२४) एवं गणावच्छेइए ।।
मू. (२५) एवं आयरिय उवज्झाए ।।
वृ-सूत्रं 'भिक्खूयगणातो अवक्कम' इत्यादि । अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्धस्तत आह[भा. ७५९] निगमनं तु अहिंकयं, अमुवत्ततिवातवाधिकाराओ । तं पुनवि तिन्न गमनं, इमं तु सुत्तं उभयहा वि ।।
वृ- अनन्तरसूत्रे पारिहारिकनिर्गमनमधिकृतमुक्तमिहापि तदेव निर्गमनमुच्यते । अथवा अनन्तरसूत्रे तपसोऽधिकारोऽनुवर्तते । इहापि स एव तपोऽधिकारः । तत्पुनरनन्तरसूत्रं निर्गमनमभिहितं च वितीर्न्नमनुज्ञातमिदंतु सूत्रं निर्गमनमुभयथापि वितीर्णमवतीर्णंच भाषते । अनेन सम्बन्धेनायातस्यास्य सूत्रस्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्च पुनरर्थात् वाक्यभेदे स च वाक्यभेदः सुप्रतीतः, पूर्वसूत्रवाक्याद्वितीर्णगमनाभिधायिनोऽस्य सूत्रवाक्यस्य वितीर्णावितीर्णगमनाभिधायितया कथंचिद्भिन्नत्वात्, गणाद्गच्छादवक्रम्य विनिर्गत्यएकाकि विहारप्रतिमामेकाकिविहारयोग्यां मासिक्यादिकी प्रतिमामुपसम्पद्य विहरेत् । स च गणस्य स्मरति, संभाव्यते चैतत् । तथा हि यः सूत्रार्थतदुभयैरव्यक्तो यश्चाविधिना प्रतिमां च प्रतिपद्येत् स नियमाद्भङ्गमुपैति इति । ततः सगणं स्मरन् इच्छेत् द्वितीयमपि वारं, एकं वारं पूर्वमपि प्रव्रज्याप्रतिपत्तिकालमाश्रितवान् । इदानीं द्वितीयं वारमत उक्तं द्वितीयमपि वारं, तमेवात्मीयपूर्वमुक्तगुणव्रतमुपसम्पद्य विहर्तुं, इमं च गणमुपसंपद्य पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् । गुरुसमीपे आलोच्य पुनः पुनरकारणतया तस्मात् स्थानात् प्रतिक्रमेत् प्रतिक्रम्य च यदापन्नः प्रायश्चित्तं च्छेदं परिहारं वा तस्य च्छेदस्य परिहारस्य वा करणाय पुनरुपतिष्ठेत् । इह प्रतिमाप्रतिपन्नेन यत्रैवाकृत्यं समासेवितं तत्रैवाह-दुष्टु कृतं मयेत्यादिचिन्तनत स्तदालोचितं प्रतिक्रान्तं च गुरुसमक्षं तु द्वितीयवारमिति पुनः शब्दोपपत्तिः ।
एष सूत्रसंक्षेपार्थः । विस्तरार्थं तु भाष्यकृदाह[ भा. ७६० ]
संथरमाणस्स विही, आयारदसासु वन्नितो पुव्विं ।
सो चेव य होइ इहं तस्स विभासा इमा होति ।।
वृ- संस्तरन् नाम स उच्यते यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये यां प्रतिमां प्रतिपन्नस्तां सम्यक् परिपालयितुं क्षमस्तस्य संस्तरतो विधिसमाचारी आचारप्रधाना दशा आचारदशास्तासु दशाश्रुतस्कन्धेष्वित्यर्थः । भिक्षुप्रतिमाध्ययने पूर्वं वर्णितः स एव इहापि अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्तावे परिपूर्णो भवति ज्ञातव्यः, तस्य प्रस्तावायातत्वात् । तथा हि-एकाकिविहारिप्रतिमामुपसम्पद्य विहरेदित्युक्तं, ततः साक्षादुपात्ता एकाकिविहारिप्रतिमेति भवति, तद्विधिप्ररूपणावसरः । केवलंस सकलभिक्षुप्रतिमाध्ययनप्रतिपाद्य इति तत एवावधारणीयः । इह पुनस्तस्यैकाकिविहारिप्रतिमाविधिर्विभाषा कर्तव्या । यथा ईदृशस्य एकाकिविहारे प्रतिमाप्रतिपत्तिः कल्पते । अनेन च प्रकारेण प्रतिपद्यते। ईदृशश्च एकाकिविहारप्रतिमाया अयोग्य इति सा इयं वक्ष्यमाणा भवति । तामेवाभिधित्सुराह[भा. ७६१]
घर सउनिसीहपव्वइय सिक्खपरिकम्मकरण दो जोहा । थिरकरणे लगच्छखमदुग गच्छारामा ततो नीति ।।
वृ- परिकर्मकरणे द्वौ दृष्टान्तौ, तद्यथा-गृहेऽवस्थितः शकुनिर्गृहशकुनिस्तथा सिंहश्चवने व्यवस्थित
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International