________________
२४४
व्यवहार - छेदसूत्रम् - १-१/२० - भिक्षुः क्षुल्लकः स्थविरोऽभिषेकः आचार्यस्तेषामेव क्रमेण व्यवस्थितानां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतोऽनेकप्रकारं वक्ष्यामि । प्रतिज्ञामेव निर्वाहयतितरुणे निप्पन्नपरिवारे सलद्धिए जेय होति अब्भासे । अभिसेयंमि चउरो सेसाणं पंच चेव गमा ।।
[ भा. ७२०]
वृ- यदि शक्तिस्ततः पञ्चापि युगपन्निस्तारयेत् । तदशक्तावेकैकहान्या यावदेकं भिक्षु सोऽपि यदेकस्तरुणोऽपरश्च स्थविरः तदा तरुणो निस्तारणीयः । द्वयोस्तरुणयोरतरुणयोर्वा निष्पन्नो द्वयोर्निष्पन्नयोरनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्यासलब्धिकः द्वयोः सलब्धिकयोरलब्धिकयोर्वा यो भवत्यभ्यासे समीपे स निस्तारणीयः । एते पञ्च गमा भिक्षौ भवन्ति अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् । शेषाणां तु क्षुल्लकस्थविराचार्याणां च भिक्षोरिव पञ्चैव गमाः । तत्र भिक्षुकादिक्रमकरणे कारणमाह
[भा. ७२१]
असहंते पच्चा तरणंमि, माहोज्ज सव्वपत्थारो ।
खुड्डो भीरु नुकंप असो घायस्स थेरोय ।। गणि आयरियाउ सहू देहविओएउ साहसविवज्जी । एमे व भंसमिवि उदिन्नवेदोत्ति नाणत्तं ।।
[भा. ७२२ ]
वृ- भिक्षवोऽहि यदि राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किञ्चिदगीतार्थत्वेनासहमानाः प्रत्यास्तरयेयुः। प्रत्यास्तरणं नाम संमुखीभूय युद्धकरणं । ततोऽसहमाने जातावेकवचनं । षष्ठयर्थेच सप्तमी । असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखीभूयस्तरत्वकरणे मा सर्वप्रस्तारः समस्तसङ्घोपद्रवो भूयात्। किमुक्तं भवति ? मा गाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत् । अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं क्षुल्लकः स हि बालत्वाद्भीरुरनुकम्प्यश्च । ततः स द्वितीयस्थाने स्थापितः । तदनन्तरं स्थविरो यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया घातस्य पिट्टनस्यासहः गणि आयरियाउ सहू इत्यादि गणी गच्छाधिपतिराचार्य आचार्यपदार्ह एतौ द्वावपि सहौ समर्थो घातस्येति सम्बध्यते । अपि च देहवियोगेऽपि देहभ्रंशे अपि तुशब्दोऽपिशब्दार्थे साध्वसविवर्जितौ अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितौ संमुखीभूय युद्धप्रदानलक्षणसाध्वसरहिताविति भावः । ततः स्थविरानन्तरं तौ द्वावपि उपात्ती तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपादानं एवमेवेत्यादि भ्रंशनसंयमच्यावनद्वारेऽप्येवमेव अनेनैवप्रकारेण भिक्षुकादिक्रमकरणे कारणमभिधानीयं, नवरं भिक्षुदीर्णवेदोऽपि संभवतीति नानात्वं । किमुक्तं भवति ? यदि भिक्षोस्तरुणतया प्रचुरमोहनीयोदयतया उत्प्रवाजनमनुकूलं भवेत् । ततः स क्षिप्रमुत्प्रव्रजेदिति प्रथमं भिक्षुग्रहणं, तदनन्तरं क्षुल्लकादिक्रमकरणे प्रयोजनं प्रागुक्तमवसातव्यम् एतच्च लाघवाय प्रस्तावादुक्तं संप्रत्यधिकृत एव पिट्टनद्वारे साध्वीनां निस्तारण विधिमाहः- भिक्खुणी खुट्टीथेरी, अभिसेगाय पवत्तिनीचेव; करणं तासिं इणमो, संजोगगमं तु वोच्छामि ।। भिक्षुकी क्षुल्लिका स्थविरा अभिषेकाप्रवर्त्तिनी च एतासामेवं क्रमोपन्यासे कारण साधुविषये पागुक्तमेवावसातव्यम् । तासां पञ्चानामपि करणं निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति
भा. ७२३]
Jain Education International
तरुणी उनिप्फन्ना परिवार सलद्धिया य अब्भासे । अभिसेयाए चउरो सेसाणं पंच चेव गमा ।।
For Private & Personal Use Only
www.jainelibrary.org