________________
उद्देशक : १, मूलं : २०, [भा. ७१४]
[ भा. ७१४]
[भा. ७१५]
वृ- गाथाद्वयमपीदं व्याख्यातार्थं, नवरं वृषभोऽभिषेकः सपरिवारश्च वृषभादीनामाचार्यप्रदत्तः प्रव्रजितस्वजनवर्गो वा द्रष्टव्यः । तदेवं साधूनां निस्तारणविधिरुक्तः । इदानीं साध्वीनां तमाहपवित्तिनिभिसेयपत्ता भिक्खुणि खुड्डा तहेव थेरी य ।
;
[ भा. ७१६]
तरुणे बहुपरिवारेस लद्धिजुत्ते तहेव अब्भासे । एते व सहरस गमा निप्पन्नो जेन सो नियमा ।। तरुणे निष्पन्ने वा बहु परिवारे स लद्धि अब्भासे । भिक्खु खुड्डा थेराण होति एए गमा पंच ।।
गहणं तासिंइणमो संजोगगमं तु वोच्छामि ।।
बृ- प्रवर्तिनीसमस्तसाध्वीनां नायिका आचार्यस्थानीया, अभिषेका प्रवर्तिनीपदयोग्या, भिक्षुकी क्षुल्लिका स्थविराच प्रतीता । एतासांपञ्चानामपिग्रहणमिदं वक्ष्यमाणंसंयोगगमं । संयोगतोऽनेकप्रकारं वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति
| भा. ७१७
तरुणी निप्पन्नपरिवारा सलद्धिया जा य होति अब्भासे । अभिसेयाणं चउरो सेसाणं पंच चेव गमा ।।
२४३
वृ-यदिशक्तिरस्ति ततः पञ्चापि प्रवर्तिन्यादयो युगपन्निस्तारणीया अशक्तौ चतस्रः तत्राप्यशक्तौ तिस्रस्तदभावे द्वे प्रवर्तिन्यभिषेके । तत्राप्यशक्तौ प्रवर्तिन्येका । तत्रापियद्येका प्रवर्तिनी स्थविरा भवति अपरा च तरुणी । ततस्तरुणी स्थविरयोर्मध्ये तरुणी निस्तारणीया । द्वयोस्तरुण्योः स्थविरयोर्वा मध्ये निष्पन्ना, द्वयोर्निष्पन्नयोरनिष्पन्नयोर्वा मध्ये सपरिवारा द्वयोः सपरिवारयोर परिवारयोर्वामध्ये लब्धियुक्ता द्वयोर्लब्धियुक्तयोरलब्धिकयोर्वा या भवत्यभ्यासे सा निस्तारणीया एते पंच गमाः प्रवर्त्तिन्यां, अभिषेकायां चत्वारो गमाः, तस्यानिष्पन्नतया निष्पन्नानिष्पन्नगमासंभवात् शेषाणां भिक्षुकी क्षुल्लिका स्थविराणां पंचगमा भवंति तेच पंचापि गमाः प्रवर्त्तिन्या इव भावनीयाः । तदेवं साधूनां साध्वीनां च प्रत्येकं निस्तारणविधिरुक्तः साम्प्रतमुभयेषां संयोगत आह
[ भा. ७१८ ] आयरिय गणणि वसभे, कमसोग्गहणं तहेव अभिसेया । सेसाण पुव्यमित्थी मीसगकरणे कमो एस ।।
Jain Education International
वृ- यद्यस्ति शक्तिस्ततो द्वावपि वर्गों युगपन्निस्तारयेत् । अथासमर्थस्तत एवं यतना आचार्यप्रवर्तिन्योर्मध्ये प्रथमत आचार्यं निस्तारयेत् । ततः प्रवर्तिनीं । प्रवर्तिनीवृषभयोर्मध्ये प्रवर्तिनीं प्रश्चात् वृषभं । वृषभोऽभिषेकः । वृषभाभिषेकयोर्मध्ये पूर्वमभिषेकं पश्चादभिषेकां । सेसाणपुव्वमित्थीति - शेषेषु षष्टी सप्तम्यर्थे प्राकृतत्वात् पूर्वं स्त्री निस्तारणीया अनुकम्प्यत्वात् पश्चात्पुरुषास्तद्यथाभिक्षुभिक्षुक्योर्मध्ये भिक्षुकी पञ्चादिभक्षुः । क्षुल्लिकाक्षुल्लिकयोर्मध्ये प्रथमतः क्षुल्लिका पश्चात्क्षुल्लकः । स्थविरास्थविरयोः पूर्वं स्थविरा पश्चात्स्थविरः । अत्रापि सुनिपुनेन भूत्वा अल्पबहुत्वचिन्ता कर्तव्या । कृत्वा च यद्बहुगुणं तत्समाचारणीयम् । उक्तं च- “बहुवित्थरमुस्सग्गं बहुतरमुववायवित्थरं नाउं । जह जह संजम वुड्ढी जह जयसू निजरा जयह ।।" एष मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एषोऽनन्तरोदितः क्रमः गतं जीयत्ति द्वारमधुना पिट्टनद्वारमाह
[भा. ७१९ ]
भिक्खू खुड्डग थेरे अभिसेगे चेव तहय आयरिए ।. गहणं तेसिंइणमो संजोगगमं तु वोच्छामि ।।
For Private & Personal Use Only
www.jainelibrary.org