________________
व्यवहार - छेदसूत्रम् - १-१ /२० द्विरात्रात्रिरात्राद्वा परं यदि वसति, ततस्तस्य प्रायश्चित्तं च्छेदः परिहारो वा; यदि पुनः सूत्रार्थ प्रतिपृच्छादानादिलक्षणं कारणं भवेत्, तर्हि ततः परमपि वसेत् यावत्प्रयोजनपरिसमाप्तिस्तथा चाहसुत्तत्थ पाडिपुच्छं, करेंति साहूउ तस्समीवंमि । आगाढंभिव जोगे, तेसिं गुरुहोज्ज कालगतो ।।
[भा. ७१० ]
वृ- सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः यदिवा आगाढे योगे व्यवस्थितानां तेषां साधूनां गुरुरपलक्षणमेतत्, यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान् सूत्रार्थप्रदानादिना निर्वाहयति । ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगानां परिसमाप्तिस्तावदवतिष्ठते । ततः परं तु नेति । अथ सूत्रे सेसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् । प्रथमं च लघु वक्तव्यं, पश्चात् गुरु । ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमत छेदग्रहणं अत आह—
[भा. ७११]
२४२
बंधानुलोमयाए उक्कमकरणं तु होति सुत्तस्स । आगाढंमिय कज्जे दप्पेणवि ते भवेच्छेदो ||
वृ- एवं रूपो हि पाठो ललितपदविन्यासतस्तो बन्धानुलोमतया, तथा अगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पेण स न गच्छति तस्मिन् दर्पेण स्थिते च्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतप इति एतदर्थं च सूत्रस्याप्युत्क्रमकरणमिति । तत्र यदि प्रद्विष्टं राजानंनसमूलमुत्पाटयितुमीशः तर्हि स लब्धिकः समस्तं सङ्घ निस्तारयेत् । अथ नसमस्तं सङ्घ निस्तारयितुमीष्टेत्, तत इमान् पञ्च निस्तारयेत् । तानेवाह[ भा. ७१२] आयरिए अभिसेए भिक्खु खुड्डे तहेव थेरे य । गहणं तेसिंइणमो संजोगगमं च वोच्छामि ।।
वृ- आचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनार्हः, भिक्षुः प्रतीतः, क्षुल्लको बालः स्थविरो वृद्धः । एतेषां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमन. संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति
[ भा. ७१३]
तरुणों निफन्ने परिवारे लद्धिजुत्ते तहेव अब्भासे ।
अभिसेयंमि य चउरो सेसाणं पंच चेव गमा ।।
बृ-यदिशक्तिरस्ति ततः पञ्चापि आचार्यादीन युगपन्निस्तारयेत् । अथन शक्तिस्ततः स्थविरजर्वान् चतुरस्तत्राप्यशक्तौ क्षुल्लकस्थविरवर्जान्त्रीन् तत्राप्यसामर्थ्ये आचार्यमेकं । सोऽप्येकः स्थविरो यदि वर्तते अपरस्तरुणस्तर्हि तर्योस्थविरतरुणयोर्मध्ये तरुणो निस्तारणीयः । द्वयोस्तरुणयोरतरुणयोर्वा मध्ये निष्पन्नः सम्यक सूत्रार्थकुशलः, द्वयोरनिष्पन्नयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्येलब्धियुक्तः द्वयोर्लब्धियुक्तयोर लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः । अत्र सम्प्रदायः । द्वयोरभ्यासे स्थितयोर्यो नंष्टुमशक्तः स निस्तारणीयः । एते पञ्चगमा आचार्ये भवन्ति, अभिषेकस्तु नियमान्निष्पन्न एव भवति । अन्यथा तत्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः ततस्तस्मिन्नभिषेके निष्पन्ना निष्पन्नगमाभावात् शेषास्तु चत्वारो गमास्तद्यथा - स्थविरतरुणगोर्मध्ये तरुणाः, द्वयोस्तरुणयोरतरुणयोर्वा सपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा लब्धियुक्तः द्वयोर्लब्धियुक्तयोरलब्धियुक्तयोर्वाभ्यासे स्थितः; इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पञ्चेव गमा भवन्ति । ते च यथानन्तरमाचार्ये भावितास्तथाभावनीयाः । तथा चैतदेव व्याचिख्यासुर्गार्थाद्वयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org