________________
२४०
व्यवहार - छेदसूत्रम्-१-१/२० वृ- यः पुनरतिशयज्ञानी अवधिज्ञानादिकलितः स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैनिःशङ्कितंभणति । यथेष भिन्नव्रतइतिततः कोऽनेनसममस्कांवादोयएष द्रष्टुमपिन युज्यते इति । अथ केन समंयुज्यते वादः? उच्यते-आर्यत्वादिगुणोपेतेनतथा चोक्तम्
अज्जेणभव्वेण वियाणएणधम्मपत्तिणेण अलीयभीरुणा |
सीलकुलायारसमत्तिएणतेनं समंवाय समायरेज्जा ।। आर्यआर्यकर्मकारीअजुगुप्सितकर्मकारीत्यर्थः तेन,भव्योऽनेकगुणसंभावनीयः ।विज्ञोवादाभिज्ञः धर्मप्रतिज्ञोधर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी ।तथाशीलाचारसमन्वितःशीलदोषरहित इति भावः । कुलाचारसमन्वितः कुलदोषरहितः तेन समं वादं समाचरेत् । तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति । अथस शून्यवादी भवेतन दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्यांसिद्धत्वविरुद्धत्वानकान्तिकत्वदोषैर्दूषयितव्यः । प्रतिज्ञादिकमपि दूषयितव्यम् । अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे यथा द्वौ जीवाजीवलक्षणौ राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेन त्रीन् राशीन् प्रस्थापयित्वा वादे पराजेतव्यः । एतच्च निदर्शनमात्रं, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वापराजेतव्यः । पराजितश्चसयदिभवेत्राज्ञाच निर्विषयआदिष्टस्ततः पश्चात् सकलपर्षत्समक्षं स्वसमये स्वसमयविषया प्ररूपणा कर्तव्या कथमित्याह[भा.७०५] परिभूयमति एयस्सएयदुत्तंन एसणेसमतो।
समएण विनिग्गहिएगज्जइवसभोव्व परिसाए ।। वृ-यदुक्तंमयात्रयोराशयोजीवोऽजीवो नोजीवइत्यादिनएषोऽस्माकंसमयः; किन्त्वेतस्यवादिनो मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य षर्षदि पर्षन्मध्ये गर्जति, गर्जनविशेषतः स्वसमयप्ररूपणांकुरुते । तदेवमक्रियावादीतिगतम् । सम्प्रति जीव इति द्वारव्याख्यानार्थमाह[भा.७०६] अनुमानेउंरायंसणयग गिण्हमाणविज्जादी ।
पच्छाकडे चरित्तेजहा तहानेवसुद्धोउ ।। वृ-यदिराजाब्रूतेमयासहवादो दीयतामिति, तदा राजानमनुमानयेत्अनुकुलवचसाप्रतिबोधयेत् यथाराजा पृथिवीपतिस्त्वच्छत्रच्छायाश्रिताःप्रजाः सर्वेचदर्शनिनस्ततःकथं राज्ञासह विवादः । अत्रार्थे चेदमुक्तंपठेत् किं तदित्याह[भा.७०७] अत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं।
गुरुणानीएणतवस्सिणा यसह वज्जएवादं ।। वृ- अर्थपतिना धनपतिना नृपतिना राज्ञा पक्षवता नृपवर्गीयपक्षसमन्वितेन तथा बलवता विद्यामन्त्रचूर्णादिवलोपेतेन प्रचण्डेन तीव्ररोषेण तथागुरुणा विद्यादायिना धर्मप्रदायिनाचतथा नीचेन नीचजातीयेन तथा तपस्विना विकृष्टतपः कारिणाचसह वर्जयेत्वादमिति, । एवमनुमानितोऽपियदा नतिष्ठतितदाये राज्ञःसज्ञातिकाःसमानज्ञातिकाः स्वजनाइत्यर्थःतैरनुमानयेत् । तैरपिप्रतिबोध्यमानो यदिन तिष्ठति, तदा विद्यादिना गृह्यते विद्यादिनावश्यं कुर्यात् । आदिशब्दात् मन्त्रेण चूर्णयोगैर्वावश्यं कुर्यादितिपरिग्रहः । विद्यादिनाप्यगृह्यमाणेचारित्रेचारित्रविषयेपश्चात्कृतो भूयात्स्वलिङ्गपरित्यज्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org