________________
२३८
वसति ४ । तदेवं संविज्ञासांभोगिक चतुर्भङ्गी भाविता ।।
साम्प्रतमसंविग्ना सांभोगिकपश्चात्कृत साभिग्रहचतुर्भङ्गी भाव्यते, असंविज्ञा सांभोगिकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति । एष पूर्वचतुर्भङ्गयाञ्चतुर्थो भङ्गः । एतस्याभावे असंविग्ना सांभोगिकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति २ । पश्चात् कृतव्रतपर्यायो यैस्ते पश्चात् कृता मुक्तव्रतपर्यायाः पुराणा इत्यर्थः । एतस्यापि भङ्गस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति ३ । एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति ४ । इदानीं पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यतेपश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रह श्रावकेषु वसति १ । एष पूर्वचतुभङ्गाश्चतुर्थोभङ्गः । एतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरिभिग्रहश्रावकेषु वसति २ । एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति ३ । एतदभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति ४ ।।
सम्प्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भद्गीभावना पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति । एष प्राक्तनचतुर्भङ्गन्याश्रतुर्थभङ्गः १ । एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिक श्रावकेषु वसति २ । एतस्यासंभवे संविज्ञपाक्षिकेषु श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति ३ । एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिक श्रावकेषु वसति ४ । इदानीं संविज्ञपाक्षिकासंविज्ञपाक्षिक श्रावक चतुर्भङ्गी भाव्यते संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वां संविज्ञपाक्षिकश्रावकेषु वसति १ । एष पूर्वचतुर्भङ्गयाश्चतुर्थोभङ्गः । एतस्याभावे संविज्ञपाक्षिकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति २ । एतस्याभावे संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति ३ । अस्याप्यसंभवे संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति ४ । सम्प्रतियदुक्तं 'नो से कप्पइ विहारवत्तियं वत्थए' इति तत्र विहारं व्याख्यानयन्नाह
|
[ भा. ६९८ ]
व्यवहार - छेदसूत्रम् - १-१/२०
आहारोवहिज्झातो, सुंदर सेज्जा वि होइ हु विहारो । कारणातो उवसेज्जा इमे उ ते कारणा होंति ।।
वृ- आहारः खल्वत्र शोभनो लभ्यते । यदि वा उपधिः स्वाध्यायो वा तत्र सुखेन निर्वहति । अथवा सुंदरा शोभना शय्या वसतिरित्येष आहारादि विहारहेतुत्वाद्भवति विहारः । तत्प्रत्ययं न कल्पते वस्तुं कारणतः पुनस्तुशब्दस्य पुनः शब्दार्थत्वात् वसेत् । एतेन कारणवित्तियं वत्थए इति व्याख्यानयति । तानि पुनः कारणानीमानि वक्ष्यमाणानि भवन्ति तान्येवाह
[ भा. ६९९ ]
उभतो गेलन्ने वा वास नदी सुत्त अत्थ पुच्छा वा । विज्जा निमित्तगहणं करेति आगाढ पन्नावा ।।
वृ- उभयतो द्वाभ्यां प्रकाराभ्यां ग्लान्यं ग्लानत्वं भवेत् । किमुक्तं भवति ? स एव पारिहारिको गच्छन् अपान्तराले ग्लानो जातः, । ततो वसेद्यदिवान्यः कोऽपि साधुरभवत् ग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थं तिष्ठेत् । यदिवा वर्षं पतति नदी वा पूरेण समागता, सुत्त अत्थ पुच्छा वा इति केचिदाचार्याः सूत्रमर्थं प्रतिपृच्छेयुः । ततः सूत्रार्थप्रतिपृच्छादाननिमित्तं वसेत्, विज्जेति परवादिनो मुखबन्धकरणी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International