________________
उद्देशक : १, मूल : २०, [भा. ६९४]
इति ।।
[ भा. ६९५ ]
अप्परिहारी गच्छति तस्स असतीए जो उ परिहारी । उभयम्मि वि अविरुद्धे आयरहेउं तु तग्गहणं ।।
वृ- अत्रेयं सामाचारी यद्यपरिहारिकः सूत्रार्थसम्पन्नः सलब्धिकश्च तत्कार्यं साधयितुं समर्थः ततः स गच्छति । तस्य तथाभूतस्यापारिहारिकस्यासत्यविद्यमानत्वे यः परिहारी पारिहारिकः स गच्छति एवमुभयस्मिन्नपि अपारिहारिके पारिहारिके च गमने अविरुद्धे तत्सूत्रे तद्भहणं तस्यैव पारिहारिकस्य ग्रहणं कृतं तदादरहेतोः सूत्रे द्वितीयापञ्चम्यर्थे आदरख्यापनार्थमित्यर्थः । किमुक्तं भवति ? यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण गन्तव्यमिति ख्यापनार्थं पारिहारिकग्रहणं न चोभयग्रहणमुपपत्तिमत् पारिहारिकग्रहणेनैवोक्तियुक्तिः उभयग्रहणस्य सिद्धत्वात् । यदि पुनरपारिहारिकग्रहणमेव केवलं स्यात्ततः पारिहारिको न यातीति प्रतिपत्तिः स्यान्न चै तत्समीचीनमतो यथा न्यासः श्रेयानिति सम्प्रति तस्य संस्थितस्य सहायचिन्तां करोति
[ भा. ६९६ ]
२३७
संविग्गमणुनजुओ, असती अमणुनमीसपंथेणं । समणुणेसुं भिक्खं काउं वसएऽमणुणेसु ।।
वृ- स पारिहारिक संविग्नमनोज्ञयुक्तो, असति मनोज्ञे संविग्नाऽमनोज्ञसहायो गच्छेत् । इयमंत्र भावना-तस्य पारिहारिकस्य गन्तुं प्रस्थितस्य संविग्नो मनोज्ञश्च सहायो दातव्यः, मनोज्ञः सांभोगिकस्तदभावे संविग्नोऽसांभोगिकः । एवंभूतसहायस्य च यदि सामर्थ्यमस्ति । ततः उत्सर्गतः कल्पते निर्विशमानकस्य सतो गन्तुं, निर्विशमानको नाम परिहारकल्पस्थितः । अथ नास्ति सामर्थ्यं ततः परिहारतपो निक्षिप्य गोकुलादिषु प्रतिबन्धमकुर्वन् गच्छति । तत्र यदुक्तं- 'जणं जणं दिसा साहम्मिया तणं तणं दिसं उवलित्तए' इति तद्व्याख्यानमाह-मीसपंथेण मिश्रेण साधर्मिका साधर्मिक युक्तेन पथा गन्तव्यम् । अस्यैव व्याख्यानमाह-समणुणेसु इत्यादिस परिहारिकः समनोज्ञेषु संभोगिकेषु भिक्षां कृत्वा मनोज्ञेषु संभोगिकेषु वसति । अत्र चत्वारो भङ्गास्तद्यथा मनोज्ञेषु भिक्षांकृत्वा मनोज्ञेषु वसति एष प्रथमो भङ्गः साक्षादुपात्तः । एतस्यासंभवे सांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति २ । एतस्याप्यभावे तृतीयः असांभोगिकेषुभिक्षां कृत्वा सांभोगिकेषुवसति ३ । एतस्याप्यसंभवे चतुर्थः असांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति । एवमेते संविज्ञ सांभोगिकेषु चत्वारो भङ्गा उक्ताः । एवं संविग्ना संविज्ञ सांभोगिकादिषु द्रष्टव्यास्तथा चाह
[भा. ६९७ ]
एमेवय संविग्गे असंविग्गे चेव एत्थ संजोगा ।
पच्छाकड़ साभिग्गह सावगसंविग्ग पक्खीय ।।
Jain Education International
वृ- यथा संविज्ञ सांभोगिकासांभोगिकेषु चतुर्भङ्गया भिक्षावसतय उक्ता, एवमेव अनेनैवप्रकारेण संविग्नेऽसंविग्ने वा सांभोगिके भिक्षावसतिविचारे संतोगा वक्तव्याः । एवमेव असंविग्नाः सांभोगिकाः पश्चात्कृतसमिग्रहनिरभिग्रहश्रावकेषु तेषामप्यसंभवे । संविज्ञपाक्षिकासंबिज्ञपाक्षिक श्रावकेषु प्रत्येकं चत्वारः संयोगाः कर्तव्याः । सर्वत्र च पूर्वपूर्वचतुर्भङ्गी चतुर्थभङ्ग उत्तरोत्तर चतुर्भङ्गयां प्रथमो भङ्गः । तद्यथा-संविग्नासंविभोगिकेषु भिक्षां कृत्वा संविज्ञासंभोगिकेषु वसति १ । एतस्य भङ्गस्याभावे संविग्नासंभोगिकेषु भिक्षां कृत्वा असंविज्ञासांभोगिकेषु वसति २ । असंविज्ञासांभोगिकेषु भिक्षां कृत्वा संविज्ञासांभोगिकेषुवसति ३ । अस्यासंभवे असंविज्ञासांभोगिकेषु भिक्षां कृत्वा असंविग्नासांभोगिकेषु
For Private & Personal Use Only
www.jainelibrary.org