________________
२३६
व्यवहार - छेदसूत्रम् - १-१/२० प्रचण्डश्चस न मां मुक्त्वा अन्येन निवारयितुं शक्यते । नापि राजा पिट्टनादि कारयन्, ततो यदि गुरूणामनुज्ञा भवति ततोऽहं गच्छामीति शेषं पूर्वगाथागतमुत्तानमिति न व्याख्यातम् । अत्र चोदक आह[भा. ६९१] चोएइ कहं तुभे परिहारतवं गतं पवनं तु । निक्खिविउं पेसेहा चोयग सुण कारेणमिणं तुं । ।
वृ- चोदयति प्रश्नयति परो यथा-कथं यूयं तकं परिहारतपं प्रतिपन्नं परिहारतपो वहन्तं, नक्खिविउमिति परिहारतपो निक्ष्यि निक्षेपं परिहारतपसः कारयित्वा प्रेषयत स हि महातपस्वी दुष्करकारी ततो न युक्तमेतस्य तपो मोचयित्वा प्रेषणमिति । अत्राचार्य आह चोदक भृणु कारणमिदं येन कारणेन स तपो निक्षिप्य प्रक्षते तदेव कारणमाह
[ भा. ६९२ ]
तिक्खेसु तिक्खकज्जं सहमाणेसु य कमेण कायव्यं । नयनाम न कायव्वं वा उवादाय ।
वृ तीक्ष्णं नाम यद्गुरुकमतिपाति च । तेषु तीक्ष्णेषु कार्येषु समुत्पन्नेषु य तीक्ष्णकार्यमित्रतरलोपो द्रष्टव्यः । तीक्ष्णतरं कार्यं तत्प्रथमं कर्तव्यं पश्चादितरत् । उक्तं च
युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्यं, अतिपातिष्वपि फलं फलदेष्वपि धर्मसंयुक्तं 'सहमानेसुय' त्ति सहमानं गुरुकमनतिपाति च तेषु सहमानेषु पुनः कार्येषु समुत्पन्नेषु । तद्यथादेशकालाद्यौचित्येन युज्यते तत्तथाक्रमेण कर्तव्यं न य नाम न कायव्वंति । न च नाम तीक्ष्णतरं कार्यं कृत्वा पश्चात्सहमानकं न कर्तव्यं किन्तु कर्तव्यमेव कायव्वं वा उवादायेति यदि वा द्वयोरतिपातिनोः कार्ययोः समुत्पन्नयोर्गुरुलाधवचिन्तामुपादाय यत् गुरुकं प्रवचनोपकारिसकलसङ्घसाधारणं च तत्कर्तव्यमितरदतिपात्युपेक्षते । यत्र यदुक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्सहमानकं कर्तव्यं । न च तन्नकर्तव्यमिति तत्र दृष्टान्तो व्रणक्रियाः । तामेवाह
[भा. ६९३]
वण किरियाए जो होइ वावडा जरधनुग्गहादीया । काउमुवद्दवकिरियं समेति तो तं वणं विज्जा ।।
वृ- व्रणक्रियायां प्रारब्धायामपान्तराले या भवति व्यापदुपद्रवः काप्यापदित्याह । ज्वरधनुग्रहादिका ज्वरो वा समुत्पन्नो धनुग्रहो वा वातविशेषः आदिशब्दात्तदन्येषां गुरुकव्याधि विशेषाणां जीवितान्तकारिणां परिग्रहः । तस्य व्यापल्लक्षणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चात्तं व्रणं वैद्याः शमयन्ति । एष दृष्टान्तोऽयमर्थोपनयः
[ भा. ६९४ ]
जह आरोग्गे पगयं एमेव इमंमि कम्मखवणेण । इहराउ अवच्छल्लं ओहावण तित्थहानी य ।।
वृ- यथा वैद्यक्रियायामारोग्यप्रकृतं येनारोग्यं भवति, तत्प्रथमं क्रियते शेषं पश्चादित्यर्थः एवमेव अनेनैव प्रकारेण अस्मिन्नपि मोक्षानुष्ठाने कर्मक्षपणेन प्रकृतं येनानुष्ठाने कर्मक्षपणमचिराद्भवति, तत्प्रथमतः कर्तव्यमिति भावः । इयमत्र भावना मोक्षार्थं क्रियमाणायां क्रियायामपान्तराले यदन्तरायमुपजायते, येनाक्रियमाणेन प्रायश्चित्तमुपजायते, तत् प्रथमतः कर्त्तव्यमितरत् पश्चात्तथा चात्रापि परिहारतपस्युह्यमाने अन्तरा सङ्घादिकार्यमुपस्थितम् । ततः परिहारतपो निक्षिप्य तत् क्रियते, अन्यथा प्रायश्चित्तापत्तितः कर्मक्षपणाऽसंभवस्तथा चाह- इतथरा अधिकृतसङ्घादिप्रयोजनाकरणे अवात्सल्यं सङ्घावात्सल्यप्रत्ययं, अपभ्राजनाप्रत्ययं, तीर्थहानिश्चतीर्थहानिप्रत्ययं च प्रायश्चित्तमापद्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org