________________
२३४
व्यवहार - छेदसूत्रम् - १-१/२० भेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं नाधिकमित्येवं रूपेणाभिग्रहेण, जनं जनं दिसिमित्यादि । अत्र द्वितीया सप्तम्यर्थे । यस्यां यस्यांदिशि । नंशब्दो वाक्यालङ्कारे । अन्ये साधर्मिकाः प्रवचनसाधर्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणास्तिष्ठन्ति । तणं तणं दिशमिति तां तां दिशं णं शब्दो प्राग्वत् । उपलातुं ग्रहीतुमाश्रयितुमित्यर्थः । ला आदाने इति वचनात् । नो से कप्पइ इत्यादिनोनैव से तस्य परिहारकल्पस्थितस्य निक्षिप्तपरिहारतपसी वा कल्पते । तत्रेति गच्छन् यत्र वसति भिक्षां वा करोति । तत्र सुन्दर आहारः, सुन्दर उपधिः, सुन्दर शय्येति, समीचीनो विहार इति विहारप्रत्ययं वस्तुं कप्पइ सेत्यादि कल्पते, से तस्यानन्तरोदितस्य यत्र भिक्षां कृतवान् उषितवान् वा । तत्र कारणप्रत्ययं वक्ष्यमाणसूत्रार्थ प्रतिपृच्छादानादिकारणनिमित्तं वस्तुं, तस्सिंचणमित्यादि । येन कारणेनोषितस्तस्मिन् कारणे निष्ठिते परिसमाप्ते यदि ब्रूयात् । अहो आर्यवस एकरात्रं द्विरात्रं वा तत एवं तदुपरोधतः से तस्य कल्पते । एकरात्रं द्विरात्रंवा वस्तुंन पुनः से तस्य कल्पते एकरात्राद्विरात्रात् परं वस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं वसति निष्कारणं तस्मात्सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवसनरूपात्से तस्य प्रायश्चित्तं च्छेदो वा परिहारतपो वेति एष सूत्रं संक्षेपार्थः । साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो भिक्षुशब्दविषये चालना प्रत्यवस्थाने आह
[ भा. ६८४ ]
परिहारिय गहणेणं भिक्खुगहणं तु होइ किं न गयं । किं च गिहिणविभणित्ति गणि आयरियाणपडिसेहो ? ।।
वृ- अथवा पारिहारिकग्रहणेन परिहारकल्पस्थितग्रहणेन भिक्षुग्रहणं किं न भवतीति गतं गतार्थं भवत्येवेतिभावः । परिहारकस्य भिक्षुत्वाव्यभिचारात् न खलु पारिहारिकत्वं गृहस्थस्यापि भवति । एतदेव का क्या आह- किं च गिहीणवित्ति किं वा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं येन तद्वयवच्छेदकरणतो भिक्षुग्रहणं सफलतामनुवीत् । नैव भवतीति भावः । ततो निरर्थकं भिक्षुग्रहणं । अत्राह भण्यते उत्तरं दीयते, गण्याचार्ययोर्गणी गच्छाधिपतिराचार्योऽनुयोगाचार्यस्तयोः । उपलक्षणमेतत्, उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन आचार्योपाध्यायप्रतिषेधार्थं भिक्षुग्रहणमिति भावः । पुनरप्याक्षेपपरिहारावाह
"
[ भा. ६८५ ]
गणि आयरियाण किं नु पडिसेहो ।
भिक्खुपरिहारिउ वि हुकरेइ किमु आयरियमादी ।।
वृ- वैयावृत्योद्यमेन वैयावृत्यविषयोद्यमकरणे किं नु खलु गण्याचार्ययोर्गच्छाधिपत्यनुयोगाचार्योपाध्यायानां प्रतिषेधः नैवासी युक्त इतिभावः । यतो भिक्षुरपिशब्दो भिन्नक्रमत्वादन्यत्रोपात्तोऽप्यत्र सम्बध्यते परिहारकः करोति । सङ्घ वैयावृत्यं किमुताचार्यादि न करोति सुतरां तेन कर्तव्यं गुणोत्तमतया विशेषस्तस्यैतत्करणादिकारत्वात् । अत्र सूरिराह
[ भा. ६८६ ]
जम्हा आयरियादी निक्खिविऊणं करेइ परिहारं । तम्हा आयरियादी वि भिक्खुणो होंति नियमेण ।।
बृ- यस्मादाचार्यादिकः परिहारं परिहारतपः करोति । आचार्यादिपदं निक्षिप्य मुक्त्वा तस्मादाचार्यादयोऽपि भवन्ति नियमेन भिक्षव इति भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति । अथ स्थविराणां वैयावृत्त्याय गच्छतीत्युक्तं तत्र किं वैयावृत्यं येन हेतुभूतेन स गच्छति तत आहपरिहारिओ उगच्छे सुत्तत्थ विसारओ सलद्धीओ ।
[भा. ६८७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org