________________
२३३
उद्देशक ः १, मूलं: १९, [भा. ६८१] आगमनं भवति । तत्रेयंसामाचारीगुरुसमीपेज्येष्ट एक आलोचयति । आलोच्यप्रत्याख्यानं गृह्णाति। शेषैः ज्येष्ठस्य पुरतः आलोचनाप्रत्याख्यानं च कृतं वन्दनकं च सर्वे ददति । क्षामणं च; द्वितीयपदे अपवादपदेग्लानादिषुप्रयोजनेषुभजनाकर्तव्या ।किमुक्तंभवति? ग्लानादिकंप्रयोजनमुद्दिश्यवसतौ नागच्छेयुरपीतिग्लानादीन्येव प्रयोजनान्याह[भा.६८२] गेलणवास महिया पदुठ अंतेउरे निवे अगनी ।
अहिगरणहत्थिसंभम गेलण निवेयणा नवरिं ।। वृ- ग्लानत्वमेकस्य बहूनां साधूनां तत्राभवत् । ततः सर्वेऽपि साधव स्तत्रव्यापृतीभूता इति न वसतावागमनं । अथवा वर्ष पतितुमारब्धं, मिहिका वा पतितुंलना, यद्वा पउठतिप्रद्विष्टः कोऽप्यन्तरा विरूपकरणाय तिष्ठति अन्तःपुरं वा तदानीं निर्गन्तुमारब्धं । तत्र च राज्ञा उद्घोषितं यथा-'परुषेण न केनापिरथ्यासु संचरितव्यम्' । राजा वा तदा निर्गच्छति तत्र हयगजपुरुषादीनां संमर्दः । अग्निकायो वाऽपान्तरालेमहान् उत्थितः ।अधिकरणंवा गृहस्थेनसमंकथमपिजातं ।बृहवृषभास्तदुपशमयितुं लग्नाः,हस्तिसंभ्रमोवाजातः ।किमुक्तंभवति? हस्तीकमप्यालानस्तम्भंभक्त्वाशून्यासनःस्वेच्छया तदा परिभ्रमति । एतेषुकारणेषु नागच्छेयुरपि वसतिं, नवरमेतेषुकारणेषुमध्ये ग्लानत्वे विशेषः । यदि ग्लानत्वमागाढमुपजातमेकस्य बहनां वा तदा गुरूणां निवेदना कर्तव्या समाप्ता प्राक्तनस्यसूत्रस्य निरवशेषा व्याख्या । अथानन्तरमिदंसूत्रम्
मू. (२०) परिहार कप्पट्टिते भिक्खूबहिया थेराणं वेयावडियाए गच्छेजा, थेराय से सरेजा, कप्पइ से एगराइयाएपडिमाए, जंणंजणंदिसि अन्नेसाहम्मिया विहरंति, तंणंतंणंदेसंउवलातुंनो से कप्पइ, तत्थ विहारवत्तियंवत्थए, कप्पइ सेतत्थकारणवत्तियंवत्थए, तस्सिंचणंकारणंसिनिट्टियंसिपरोवएजा, वसाहिअजो एगरायंवादुरायंवा एवंसे कप्पइ एगरायंवादुरायंवावत्थए, नोसेकप्पइ एगरायंवादुराय वापरंवत्थएजंतत्थ एगरायाओवादुरायाओवा परंवसइ, से संतराएछेदे वा परिहारे वा ।।
वृ- परिहारकप्पठिते भिक्खू इत्यादि । अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.६८३] परिहारो खलुएगतो अदिन्नगं वावि पावपरिहारं ।
सखित्तनिग्गमोवाभणिउइमगंतुदूरेवि ।।। वृ-इहपूर्वपूर्वतरसूत्रेषुपरिहार उक्तोनचक्वचिदप्यन्तराले परिहारप्रकरणंव्यवच्छिन्नंततः प्रकृतः खलु परिहार इति तत्प्रकरणानुरोधादत्र परिहार्यभिधीयते यदि वा अनन्तरसूत्रे इदमुक्तं स्थविरेननुज्ञातामभिशय्यामभिनषेधिकी वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र तुस एव परिहारितमुपगतः प्रतिपाद्यते । अथवान्तरसूत्रे अभिशय्यादिगमनमुक्तंस प्रत्यासन् क्षेत्रनिर्गमः । इदं तु सूत्रं दरे निगमनमभिधत्ते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या परिहारस्य कल्पः सामाचारी परिहारकल्पस्तत्रस्थितः परिहारकल्पस्थितः प्रायश्चित्ततपः प्रकारे व्यवस्थित इत्यर्थः भिक्षुव्रती बहिरन्यत्र नगरादौ स्थविराणामाचार्यादीनां वैयावृत्त्याय वैयावृत्त्यकरणाय गच्छेत्स्थविराश्च येषां समीपे तिष्ठन्ति ते स्मरेयुर्यथैष परिहारकल्पस्थितो वर्तते, स्मरभिः स्थविरैः स वक्तव्यो यावत्प्रत्यागच्छसि तावन्निक्षिप परिहारतपः । तत्र यदि सामर्थ्यमस्ति ततः परिहारतपः प्रपन्नो गच्छति, । अथवा नास्ति ततो निक्षिपति, निक्षिप्य च सतस्य कल्पतेएकरात्रिक्या प्रतिमयाऽत्रप्रतिमाशब्दोऽभिग्रहोवाची ।
एकरात्रिकेणाभिग्रहेण किमुक्तं भवति । यत्रापान्तराले वसामि तत्र गोकुलादौ प्रचुरगोरसादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org