________________
२२६
गाथां विवरीषुः प्रथमतोऽतिबहकं प्रायश्चित्तमिति व्याख्यानयति
[भा. ६५२ ]
व्यवहार - छेदसूत्रम्-१-१/१९
अतिबहुयं वेढिज्जइ भंते माहु दुरुव्वुढतो भवेज्जाहि । पच्छित्तेहिं अयंडे, निद्दयदिन्नेहिं भजेज्जा ।।
वृ- भदन्त परमकल्याणयोगिन् गुरो यदि प्रभूतं गुरुमासादि प्रायश्चित्तं पदे पदे दीयते, ततः स प्रायश्चित्तैः समन्ततोऽतिशयेन वेष्टयतेऽतिवेष्टितः सन् मा निषेधे हु निश्चितं दुरुद्वेष्टको भूयात् । दुःखेन तस्य प्रायश्चित्तेभ्यः उद्वेष्टनं स्यात् । अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे पदे दीयमानेषु स कदात्मानमुद्वेष्टयिष्यतीति भावः । अपि च अकाण्डे यत्र तत्र वा पदे पदे निर्दयैः सद्भिर्युष्माभिर्दत्तैः प्रायश्चित्तैः सभज्येत भग्नपरिणामो भूयात् । तथा च सति महती हानिस्तस्मात् ।
[ भा. ६५३ ]
तं दिज्जउपच्छित्तं, जं तरती साय कीरउ मेरा ।
जा तीरइ परिहरिउं मोसादि अपच्चउ इहरा ।।
वृ- तत् प्रायश्चित्तं दीयतां यत्तरति शक्नोति कर्तुं सा च क्रियतां च मेरा मर्यादा या परिहर्तुं शक्यते पाठान्तरं वा परिवहिउमिति तत्र या परिवोढुं शक्यते इत्ति व्याख्येयम् । उभयत्राप्ययं भावार्थः । या परिपालयितुं शक्यते इति मोसादि अपञ्चउ इहरा इति इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषा दोष उभयोरपि समुपजायते । तत्र गुरोर्मात्राधिकप्रायश्चित्तदानात् । इतरस्य तु भग्नपरिणामतया तथा परिपालनायोगात्। अन्यच्चातिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः । अप्रत्ययश्च शिष्यस्योपजायते यथातिप्रभूतमाचार्याः प्रायश्चित्तं ददति । न चैवं रूपं प्रायश्चित्तं जिनाः प्ररूपितवन्तः, सकलजगज्जन्तुहितैषितया तेषां अतिकर्कशप्रायश्चित्तोपदेशदानायोगात् तस्मात्सर्वमिदं स्वमतिपरिकल्पितमसदिति । एवं चोदकेनोक्ते गुरुराह
भा. ६५४ ]
जो जत्तिएण सुज्झइ अवराहो तस्स तत्तियं देइ । पुव्वमियं परिकहियं घडपडगाइएहिं नाएहिं । ।
वृ- चोदक त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेन शुद्धयति तस्यापराधस्य शोधनाय तावन्मात्रमेव सूरिः प्रायश्चित्तं ददाति, नाधिकं नापि हीनं । एतच्च पूर्वमेव घटपटादिभिर्ज्ञातैिरुदाहरणैर्जलनिल्लेवण कुडए इत्यादिना ग्रन्थेन परिकथितं । तस्मान्नदोषः । साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तं भावयति
[भा. ६५५ ]
Jain Education International
कंटकमादिपविट्ठे नोद्धरइ सयं न भोइए कहइ ।
कमढी भूयवणगए आग़लणं खोभिया मरणं ।।
बृ - इह किल व्याधा वने संचरन्त उपानहौ पादेषु नोपनह्यन्ति । माहस्तिन उपानहोः शब्दान् श्रीषुरिति। तत्रैकस्य व्याधस्यान्यदा वने उपानहौ विना परिभ्रमतो द्वयोरपिपादयोः कण्टकादयः प्रविष्टा आदिशब्दात् क्ष्लक्ष्णकिलिञ्चादिपरिग्रहः । तान् प्रविष्टान् कण्टकादीन् स्वयं नोद्धरति । नापि भोजिकायै निजभार्यायै व्याधः कथयति । ततः स तैः पादतलप्रविष्टैः कण्टकादिभिः पीडितः सन् वनगतो हस्तिना पृष्टतो धावता प्रेर्यमाणो धावन् कमठीभूतः स्थले कमठ इव मन्दगतिरभूत् । ततः प्राप्तो हस्ती प्रत्यासन्नंदेशमिति जानन् क्षुब्धः क्षमं गत्वा आगलणमिति वैकल्यं प्राप्तः । ततो मरणमेष गाथार्थः । भावार्थस्त्वयम् - एगो वाहो उवाहांतो विना वने गतो । तस्स पायतला कंटगाईणं भरिया । ते य कंटगादीयानो सयमुद्धरिया नो विय वाहीए उद्धराविया । अन्नया वने संचरंतो हत्थिणा दिठो । तो तस्स धावंतस्स कण्टगाइया दूरतरमंसे
For Private & Personal Use Only
www.jainelibrary.org