________________
२२५
उद्देशक ः १, मूलं: १९, [भा. ६४८] [भा.६४८] न करेंती आवस्संहीनाहियनिविठ्ठपाउयनिसन्ना ।।
- दंडगहणादिविणयं राइणियादीणन करेंति ।। वृ-आवश्यकंमूलतएव नकुर्वन्ति, यदिवा हीनं अधिकंवाकायोत्सर्गाणांहीनहीनकरणतोऽधिकं वाऽनुप्रेक्षार्थं कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति । यदि वा निषणा उपविष्टाः प्रावृताः शीतादिभयतः कल्पादिप्रावरणप्रावृता निषन्नास्त्वग्वर्तनेन निपतिताः प्रकुर्वन्ति ।गतमावश्यकद्वारम्। दण्डगहणादित्ति दण्डग्रहादौ दण्डग्रहणं भाण्डमात्रकादीनामुपलक्षणं दण्डकादीनांग्रहादौ ग्रहणे निक्षेपे चन प्रत्युपेक्षणं, नापि प्रमार्जनंदुःप्रत्युपेक्षितादिवाकुर्वन्ति । गतंदण्डद्वारम् । विनयद्वारमाह-विनयं रत्नाधिकादीनामाचार्यादीनां यथारत्नाधिकंनकुर्वन्ति गतं विनयद्वारम् । राजादिद्वारकदम्बकमाह[भा.६४९] रायं इत्थिंतह अस्समादिवंतरहेय पेहेति ।
तह नक्खवीणियादी कंदप्पादीव कुव्वंति ।। वृ-राजानंनिर्गच्छन्तंवा स्त्रियंसुरूपामितिविशिष्टाभरणालङ्कृतामागच्छन्तीवातथातिरिक्ख इत्यस्य व्याख्यानम् अश्वादिकम् अश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्णं, व्यंतर रथान्वा विभूत्याविपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षते, । एतेन राजस्त्रीतिर्यग्वानमन्तरद्वाराणि व्याख्यातानि । तथेत्यनुक्तसमुच्चयार्थः । स चेदमुक्तं समुच्चिनोति कालप्रत्युपेक्षणं न कुर्वन्ति; न वा कालंप्रतिजागरति ।गतंप्रेक्षाद्वारं ।तथानखवीणिकादिकंनखैर्वीणावादनंआदिशब्दात्नखानांपरस्परं घर्षणमित्यादिपरिग्रहः । तथाकन्दर्पादिकं, कन्दर्पकौकुच्यकौतुकादि कुर्वन्ति ।। [भा.६५०] एएसुवट्टमाणेअट्ठिय पडिसेहिए इमामेरा ।
हियए करेइदोसे गुरूएकहणंसदेइ तेसोहिं ।। वृ-एतेष्वनन्तरोदितेषुदोषेषुवर्तमानान्वारयतीतिक्रियाध्याहारः कृतेऽपिवारणेयदितेन तिष्ठन्ति प्रतिषेधन्ति, यदि वयमेवं कुर्मस्तत किं तव को वा त्वमित्यादि । ततोऽस्थिते प्रतिषेधिते वा नायके इयमनन्तरमुच्यमानामेरत्तिमर्यादासमाचारीतामेवाह; हृदयेतान्दोषान्करोति, कृत्वाचगुरवेकथयति सचगुरुर्ददातितेषांशोधिप्रायश्चित्तमिति । संप्रति वक्ष्यमाणार्थसंग्रहाय द्वारगाथामाह[भा.६५१] अतिबहुयं पच्छित्तं, अदिने वाहेय रायकन्नाय ।
ठाणासति पाहुणए नउगमनमासोक्ककरणे ।। वृ-चोदकवचनंअतिबहुकंप्रायश्चित्तंगुरुमासादिनदातव्यं,तदानेव्रतपरिणामस्यापिहानिप्रसक्तेः, अत्र गुरुवचनं "जो जत्तिएण सुज्झइ'' इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदाने प्रायश्चित्तं शल्यं नोद्धरति, तस्मिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः । यः पुनराचार्यः शिष्यस्य प्रायश्चित्तस्थानापत्तिं जानन्नपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो राजकन्यापदैकदेशे राजकन्यान्तःपुरपालकः । तथा ठाणा सति इत्यादि सङ्कटायां वसतौ प्राघूर्णक समागते सति स्थानस्य योग्यभूमिप्रदेशस्यअसतिभावप्रधानोऽयं निर्देशोअविद्यमानत्वे उत्सर्गतोनतुनैवगमनं, किन्तुयतना वक्ष्यमाणा कार्या, तस्यां च यतनायां कर्तुमशक्यमाणायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते यथाऽस्मद्वधाय प्राघूर्णकाः समागता यत् गन्तव्यमस्मिभिराभिशय्यादिषु कर्त्तव्यं वा रात्रौ जागरणमिति, । तदा तेषां कर्करणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव 2115
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org