________________
२२४
व्यवहार - छेदसूत्रम्-१-१/१९ किंस्वरूपः सोऽगीतार्थो नायकस्थापनीय इत्यतआह[भा.६४४ मज्झत्थोऽकंदप्पीजोदोसे लिहइलेहओचेव ।
- केसुयतेसीएज्जा दोसेसुतेइमे सुणसु ।। वृ- मध्यस्थो रागद्वेषरहितः अकन्दी कंदर्पोद्दीनपनभाषितादिविकलः । एवंभूतो नायकः स्थापनीयः, । तेन चसाधवोऽसमाचारी समाचरन्तः शिक्षणीयाः । शिष्यमाणाश्चयदिकथमपिब्रुवते। यथा यदि वयमेवं कुर्मस्ततस्तव किं कस्त्वमित्यादि तदा सलेहओ चेवत्ति लेखक इव सयुक्त लेखक वत्तेषांसर्वेषांसाधूनांदोषान् अविस्मरणनिमित्तंमनसि लिखतिसम्यग्अवधारयतीत्यर्थः । अथकेषु दोषेषुतेसाधवः सीदेयुर्यान्सस्वचेतसिधारयतिसूरिराह-तान्दोषानिमान् वक्ष्यमाणान् श्रृणुत । तत्र यदुक्तं 'एएसिंअसतीए' इत्यादितद्वयाख्यानार्थमाह[भा.६४५] थेरपवत्तीगीयासतीए मेरंकहंत अगीयत्थे ।
भयगोरवंचजस्स उकरेंतिसयमुजतोजो य ।। वृ-स्थविरस्यप्रवर्तिन उपलक्षणमेतत् ।गणावच्छेदस्यचतथागीतस्यगीतार्थस्य भिक्षोरसतिअभावे अगीतार्थोऽपिप्रेषणीयः । तस्मिंश्चागीतार्थे प्रेक्ष्यमाणे मेरत्तिमर्यादांसामाचारी यथोक्तस्वरूपांकथयन्ति। किंविशिष्टः सोऽगीतार्थः प्रेष्य आह-भयगौरवमित्यादि यस्य भयं साधवः कुर्वन्ति यस्य चानुवर्तनागुणतोभयतो गौरवं यथोचितं कुर्वन्ति । यश्चस्वयमात्मना समुधुक्तोऽप्रमादी सोऽगीतार्थो नायकः प्रवर्तनीयः । किं कारणभिति चेत् ? उच्यते-असमाचारीरूपदोषप्रतिषेधनार्थं । अथ के ते असमाचारीरूपादोषाः अत आह[भा.६४६] पडिलेहणऽसज्झाए आवस्सगदण्डविनयरा इत्थी।
तेरीच्छ वाणमंतरपेहा नहवीणिकंदप्पे ।। वृ-प्रतिलेखनायामस्वाध्याये आवश्यक दण्डे, उपलक्षणमेतत्, दण्डकादौ विषये । तथा विनये वंदनकादौ तथा राज्ञि स्त्रियां तिर्यक्षु हस्त्यादिषु वानमन्तरे वानमन्तरप्रतिमायां विपणिषु रथेन गच्छत्यां प्रेक्षायांकालग्रहणादौनहवीणत्तिनखवीणिकायांकन्दर्पवासमाचारीरूपादोषाः । एतद्वारगाथासंक्षेपार्थः एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तद्वयाख्यानमुपक्रान्तमिति द्रष्टव्यं । तत्र प्रतिलेखनद्वारमस्वाध्यायद्वारंच विवरीषुराह[भा.६४७] पडिलेहणसज्झाएन करिति हीनाहियं च विवरीयं ।
सेजोवहिसंथारेदंडगउच्चारमादीसु ।। . वृ-प्रतिलेखनास्वाध्यायं वा मूलत एव न कुर्वन्ति, यदिवा हीनमधिकं विपरीतं वा विपर्यस्तक्रम कुर्वन्ति । तत्र येषु स्थानेषु प्रतिलेखना संभवति तानिस्थानान्युपदर्शयति । शय्योपधिसंस्तारकदंडकोच्चारादिषु । इयमत्रभावनाशय्यावसतिस्तस्याः प्रत्युपेक्षणंमूलतएवनकुर्वन्ति । यदिवाहीनमधिकं वाकुर्वन्ति ।अथवायःशय्यायाः प्रत्युपेक्षणाकालस्तस्मिन्नकुर्वन्ति, किन्तुकालातिक्रमेण, एवमुपधेः संस्तारकस्य दण्डकादेश्च भावनीयं । तथा उच्चारादिभूमी न प्रत्युपेक्षन्ते हीनमधिकं वा यदि वा कालातिक्रमेणप्रत्युपेक्षन्तइति,स्वाध्यायमपिमूलतएव नकुर्वन्तियदिवाअप्रस्थापितेकुर्वन्ति, अथवा हीनमधिकं वा कालिकं कालतः कुर्वन्ति यदि वा कालिकवेलायामुत्कालिकमुत्कालिकवेलायां कालिकमिति ।संप्रत्यावश्यकादिद्वारत्रितयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org