________________
उद्देशक : १, मूलं : १९, [भा. ६४० ]
२२३
द्वयोः संसक्ते उपाश्रये वृष्टिकाये च निपतति असंयमदोषौ संयविराधनारूपौ दोषौ । तथा हि-संसक्तत्वे दुप्रत्येक्षणीया वसतिरिति तत्रावस्थाने स्फुटा संयमविराधना, । तथा वृष्टिकायेऽपि निपतति केषुचित् प्रदेशेषु वसतिर्गलतीति तत्रापि संयमविराधना अप्कायसंयमविराधनासंभवात् । अन्यच्च वृष्टिकाये निपतति उपधिरप्कायेन स्तीम्पते स्तीभितेन चोपधिना शरीरलग्नेन रात्रौ निद्रा नायाति निद्राया अभावे च अजीर्णदोषः । तस्मात् संसक्तायां वसतौ वृष्टिकाये च निपतति नियमतोभि गन्तव्या अभिशय्येति तदेवमुक्तं गन्तव्यकारणं । तथा चाह[भा. ६४१ ]
दिट्ठे कारणगमनं जइ य गुरुवच्चए तओ गुरुगा । ओराल इत्थपेल्लण संका पच्चत्थिया दोसा ।।
वृ- दृष्टं उपलब्धं भगवदुपदेशतः पूर्वसूरिभिः कारणे अस्वाध्यायादिलक्षणे अभिशय्यायां गमनं । तत्र यद्येवं दृष्टे कारणगमने गुरुरभिशय्यामभिनैषेधिकी वा व्रजेत् । ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, । को दोषो गुरुगमने इति चेदत आह-उरालेत्यादि आचार्यः प्राय उदारशरीरो भवेत् । सहाया अपि च कथमपि तस्य स्तोका अभवन् । ततः काश्चन स्त्रियः सहायादीनस्थापयित्वा हृदयादिना प्रेरयेयुः प्रेरणेनाचार्यमुपसर्गयेयुः । अन्यच्च शय्यातरादीनां शङ्का समुपजायते । तथा किं वसतावाचार्यो नोषितः नूनमगारी प्रतिसेवितुं गत इति यदि वा प्रत्यर्थिकः प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुपलभ्य विनाशयेयुस्तत एवमाचार्यगमने दोषास्तस्मात्तेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं । किन्त्वेतैरपि न गन्तव्यम् । के ते एते इत्याह
[ भा. ६४२ ]
गुरुकरणे पडियारी भएणं बलवं करेज जे रक्खं । कंदष्पविग्गही वा अचियत्तो ठाणदुट्ठो वा ।।
वृ- गुरोराचार्यादिः करणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकीमात्रकादिसमर्पका विश्रामकाश्च तैर्न गन्तव्यम् । तेषां गमने गुरोः सीदनात्तथा भयेन पश्चात् वसतावपान्तरालेऽभिशय्यायां वा तस्करादिसमुत्थेन भयेन सर्वैरपि साधुभिर्नगन्तव्यमात्मसंयमविराधनादोषप्रसङ्गात् । तथा यो बलवान् गुर्वादीनां तस्करादिभ्यो रक्षां करोति तेनापि न गन्तव्यम् । तद्गमने गुर्वादीनामपायसम्भवात् । तथा यः कन्दर्पः कन्दर्पशीलो यश्च विग्रही यथा तथा वा राटिकरणशीलः यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिरवियत्तोत्ति अप्रीतो यश्चस्थानदृष्टः पुरादिदुष्टः एतैरपि सर्वैर्न गन्तव्यं, प्रवचनोड्डाहात्मविराधनादिदोषप्रसङ्गात् । यदि कथमपि ते गच्छन्ति ततो बलादाचार्यादिभिर्वारयितव्याः इति । अथ कारणे समुत्पन्ने तेषां गच्छतां को नायकः प्रवर्तयितव्यः ? उच्यतेगंतव्वगणावच्छेदपवत्ति थेरे य गीयभिक्खूय ।
[भा. ६४३ ]
एएसिं असतीए अग्गीए मेरकहणं तु ।।
वृ- कारणेऽस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गन्तव्यमभिगन्तव्यमभिशय्यादि तेषां च गच्छतां नायकः प्रवर्त्तिनीयो गणावच्छेदको वक्ष्यमाणस्वरूपः तदभावे प्रवर्ती, सोऽपि वक्ष्यमाणस्वरूपः तदभावे स्थविरस्तस्याप्यभावे गीतभिक्षुर्गीतार्थः सामान्यव्रती । एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तः प्रवर्तनीयः । केवलं तस्मिन्न गीते अगीतार्थे 'मेरकहणं तु' इति मर्यादया समाचार्याः कथनं यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते । नमस्कारपौरुष्यादिकं च प्रत्याख्यानं यत् यस्मै दातव्यमित्येवमादि सर्वं कथ्यते इति भावः । अथ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International