SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २२० व्यवहार - छेदसूत्रम् - १-१ / १९ बालो दह्येत् । अन्यश्च प्रविशन् ततस्तदुभयनिमित्तमापद्यते प्रायश्चित्तं, लोके च महानवर्णवादः गतमग्निदाहद्वारमधुना स्त्रीनपुंसकद्वारमाह [ भा. ६३० ] इच्छी नपुंसगावि य उमत्तणतो तिहा भवे दोसा । अभिधाय पित्ततो वा मुच्छा अंतो व बाहिंव ।। वृ- स्त्रियो नपुंसका वा अवमत्वेन हीनत्वेन स्तोकाः साधवो वसतौ तिष्ठन्ति परिणतव्रताश्चान्यत्र गता वर्तन्ते इति ज्ञात्वा समागच्छेयुस्तदागमने च त्रिधा आत्मपरोभयसमुत्थत्वेन दोषाः स्युः । तथा हि-यतस्त्र्यादिकमुपलभ्यस्वयं क्षोभमुपयन्ति साधवः, एष आत्मसमुत्थो दोषः । यत्पुनः स्वयमक्षुभ्यतः साधून् बलात् स्त्र्यादिकं क्षोभयति, एष परसमुत्थः । यदा तु स्वयमपि क्षुभ्यन्ति त्र्यादिकमपि च क्षोभयति, तदा उभयसमुत्थ इति, मूर्च्छाद्वारमाह-अभिघातेत्यादि वसतेरन्तस्थितस्य वसतिपालस्य कथमपि जराजीर्णत्वादिना पतत्यां वसतौ काष्टादिभिः शरीरस्योपरि निपतद्भिः बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा तरुशाखाया वा अभिघातेन मूर्च्छा भवेत् । उपलक्षणमेतत् । अनागाढा आगाढा वा परितापना स्यात् । यदिचावसतेरन्तर्बहिर्वा व्यवस्थितस्यपित्ततः पित्तप्रकोपतो मूर्च्छाभवेत् । तत एकाकिनः सतस्तस्य को मूर्च्छामुपशमयेत् । ततस्तन्निष्पन्नप्रायश्चित्तसंभवः प्रभूतश्च जनापवादः, तदेवं पश्चान्मुक्तानां वसतिपालानां दोषा अभिहिताः; सम्प्रति ये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाह[ भा. ६३१ ] जत्थविय ते वयंती अभिसेज्जं वा निसीहियं वा वि । तत्थ विय इमे दोसा होति गयाणं मुणेयव्वा ।। वृ-यत्रापि च विविक्ते प्रदेशे ते निष्कारणगामिनो मिशय्यामभिनैषेधिकी वा व्रजन्ति । तत्रापि तेषां गतानामिमे वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः । तानेवाभिधित्सुर्द्वारगाथामाहवीयार तेन आरक्खि तिरिक्खा इत्थी ओ नपुंसा य । सविसेसतरा दोषा दप्पगयाणं हवंते ते ।। (भा. ६३२) वृ- कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां तथा स्तेनाशङ्कायामारक्खित्ति आरक्षकशङ्कायां तथा तिरश्चां चतुष्पदादीनां संभवे तथा स्त्रियो वा दत्तसङ्केतास्तत्र तिष्ठन्ति । नपुंसका वा दत्तसङ्केतास्तत्र तिष्ठन्ति इत्याद्याशङ्कायां एते वक्ष्यमाणाः सविशेषतरा दोषा दर्पगतानां निः कारणगतानां भवन्ति । तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याहअप्पडिलेहियदोसा अविदिन्ने वा हवंति उभयंपि । [भा. ६३३] वसही वाघाएण वि य एत्तमनंते य दोसा उ ।। तथा बृ-यदि नाम ते दर्पगताः कथमप्यचक्षुर्विषयवेलायां गताभवेयुः । ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासु ये दोषा ओघनिर्युक्तौ सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्तव्याः, विकालवेलायां गमने यदि कथमपि शय्यातर उच्चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः । तथा हि-यदि अननुज्ञातेऽवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात् । यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधूनामिति अथवा कथमप्यलाक्षणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत् । ततो रात्रौ मूलवसतिमागच्छतां तेन श्वापदादिभिरात्मविराधना For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy