________________
उद्देशक : १, मूलं : १९, [भा. ६२७]
२१९
"
प्रायश्चित्तं, तद्यथा यद्यैकं साधुमपहरन्ति स्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलं, अथ द्वावपहरन्ति । ततोऽनवस्थाप्यं त्रिप्रभृतीनामपहरणेपाराञ्चितं । तथा जघन्योपध्यपहारेपञ्चरात्रिंदिवं मध्यमोपध्यपहारे मासलघु, उत्कृष्टोपध्यपहारे चतुर्गुरुकं, । तथा एषणाया घातः प्रेरणमेषणाघातः, स च स्यात् । तथाहि भवत्युपधिं पात्रादिकमन्तरेण एषणाघातस्तत एषणा प्रेरणे यत्प्रायश्चित्तं तदापद्यते तेषां वसतिपालानामिति । तथा जायपरिहाणेत्ति या च परिहानि रुपधिमन्तरेण शीतादिबाधितस्य तद्गवेषणप्रयतमानस्य वा सूत्रार्थस्य च भ्रंशस्तन्निमित्तकमपि समापद्यते प्रायश्चित्तं, तत्र सूत्रपौरुष्या अकरणे मासलघु, अर्थपौरुष्या अकरणे मासगुरु अथोपधिगवेषणलग्नदीर्घकालतः सूत्रं नाशयन्ति । ततश्चतुर्लघु अर्थनाशेन चतुर्गुरु, तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिषु गतेषु आदेशानां प्राघूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा आगाढा वा परितापनोपजायते, 'तन्निषन्नमपि तेषामापद्यते प्रायश्चित्तं । एक्कतरेत्ति तेषु वसतिपालेष्वभिशय्यादिगतेषु यो मुक्त एकतरो वसतिपालः स एको द्वौ वा बहवो वा यद्यागच्छन्ति प्राघूर्णकास्ते सर्वेऽपि नियमतो विश्रमयितव्या इति जिनप्रवचनमनुस्मरन् बहून् प्राघूर्णकान् आगतान् विश्रामयन् यदनागाढमागाढं वा परितापनामाप्नोति तन्निमित्तकमपि समापतति तेषां प्रायश्चित्तं, साम्प्रतमस्या एव गाथायाः पश्चार्द्धं व्याख्यानयति । आदेसमविस्सामण परितावण ते सऽवच्छलत्तं च ।
[भा. ६२८ ]
गुरुकरणे वि य दोसा हवंति परितावणादीया ।।
वृ- आदेशानां प्राघूर्णकानामविश्रामणे गाथायांमकारोऽलाक्षणिकः एवमन्यत्रापि द्रष्टव्यम् । दीर्घाघ्वपरिश्रमतो यदनागाढमागाढं वा परितापनं तथा तेष्वादेशेषु समागतेषु अवच्छलत्वमवात्सल्यकरणं तन्निष्पन्नं तेषां प्रायश्चित्तं अन्यच्च वसतिपालेष्वभि शय्यादिगतेषु प्राघूर्णकानां समागतानामन्याभावे गुरुः स्वयं वात्सल्यं करोति । गुरुकरणेऽपिच दोषा भवन्ति परितापनादयस्तथाहिगुरोः स्वयंकरणे सुकुमारतया अनागाढमागाढं वा परितापनं स्यात् । परितापनाद् रोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः श्रावकादीनां धर्मदेशना श्रवणव्याघातः लोके चावर्णवादो यथा दुर्विनीता एते शिष्या इति गतमादेश द्वारमधुना ग्लानद्वारमाह
[ भा. ६२९]
सयकरणमकरणे वा गिलाणपरितावणा य दुहतो वि । बालोवीणदाहो तदट्ठमन्नोव आलित्ते ।।
वृ- वसतपिलेष्वभिशय्यादिगतेषु द्विधा तोपि द्वाभ्यामपि प्रकाराभ्यां ग्लानस्य परितापना । तद्यथास्वयं करणे अकरणे वा । तथा हि ग्लानो यदि स्वयमुद्वर्तनादिकं करोति तदापि तस्यानागाढादिपरितापसंभवः । अथ न करोति तथापि परितापनासम्भवस्ततस्तं निमित्तं आपद्यते तेषां प्रायश्चित्तं, अन्यच्चयः पश्चान्मुक्तो वसतिपालः स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति तदा सोऽपि परितापनमनागाढमागाढं वा पद्यते । ततस्तद्धेतुकमपि तेषां प्रायश्चित्तम् । गतं ग्लाऩद्वारमधुनाज्झामणद्वारमाह-वालोवहीण इत्यादि तेषु सर्वेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभिशय्यामभिनैषेधिकी वा गतेषु अग्निकायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत् । तत्र यद्येकोऽपि साधुम्रियते तदा चरमं पाराञ्चितं प्रायश्चित्तम् । अथ न म्रियते किंतु दाहे आगाढमनागाढं वा परितापनमाप्नोति तदा तन्निष्पन्नं प्रायश्चित्तं, अथोपधिर्जघन्यो मध्यम उत्कृष्टो वा दह्यते ततस्त निष्पन्नं प्रायश्चित्तदद्रुमन्त्रोवत्ति तदर्थं बालनिस्तारणार्थं उपधिनिस्तरणार्थवा अन्यः प्रविशेत् । तदाकदाचित्सोऽपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International