________________
उद्देश : १, मूलं : १९, [भा. ६३३]
२२१
अथ नायान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाश्रयणतः संयमविराधना । । गतं विचारद्वारम् अधुना स्तेनद्वारमारक्षकद्वारंच युगपदभिधित्सुराह
[भा. ६३४ ] सुणाई हाइ उवेंति तेना, आरक्खिया तानि य संचरंति । तेनोत्ति एसो पुररक्खितो वा, अन्नोन्नसंका इति वायएज्जा ।।
वृ- शून्यानि गृहाणिस्तेना विवक्षितगृहे प्रवेशनाय वेलां प्रतीक्षमाणा आरक्षकादिभयतो वा उपयन्ति तानि च शून्यानि गृहाणि आरक्षकाः पुररक्षका मा कश्चिदत्र प्रविष्टश्चोरो भूयादिति संचरन्ति प्रविशन्ति; एवमुभयेषां प्रवेशसंभवे अन्योन्याऽऽशङ्कया आरक्षका अभिशय्यायामग्रे प्रविष्टं साधुम्पलभ्य स्तेन एष व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्रा पुररक्षक एष प्रविशतीत्येवंरूपया स्तेना आरक्षका वा अतिपातयेयुः व्यापादयेयुः । गते स्तेना रक्षकद्वारे । सम्प्रति तिर्यग् द्वारमाह
[ भा. ६३५) दुगंच्छिया वा अदुगंच्छिया वा दित्ता अदित्ता तहिं व तिरिक्खा । च उप्पया वालसिरीसवावा, एगो व दोतिणि व तत्थ दोसा ।।
वृ-तत्र अभिशय्यायामभिनैषेधिक्यां वा चतुष्पदास्तिर्यञ्चो द्विधा भवेयुस्तद्यथा - जुगुप्सिता नाम निन्दितास्ते च गर्दभीप्रभृतयः, तद्विपरीता अजुगुप्सिता गोमहिष्यादयः । एकैके द्विविधास्तद्यथा- हप्ता अहप्ताश्च । हप्ता दर्पाध्मातास्तद्विपरीता अदृप्तान केवलमित्थं भूताश्चतुष्पदा भवेयुः, किन्तु व्याला भुजङ्गादयः सरीसृपा वा गृहगोधिकादयः । इत्थंभूतेषुच तिर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु एको द्वौ त्रयो वा दोषा भवेयुः । तत्र एक आत्मविराधनादीनां अन्यतमः द्वौ साधुभेदेनात्मविराधना संयमविराधने; त्रय कस्याप्यात्मविराधना, कस्यापि संयमविराधना, कस्याप्युभयविराधनेति । अत्र चतुर्भङ्गी कस्याप्यात्मविराधना न संयमविराधना १, कस्यापि संयमविराधना नात्मविराधना २ कस्याप्यात्मविराधनापि संयमविराधनापि ३, कस्यापि नोभयमपि ४ । उपलक्षणमेतत् । जुगुप्सित-तिर्यक्त्वचतुष्पदसंभवे विरूपाशङ्कासंभवतः प्रवचनोड्डाहोऽपि स्यादिति । गतं तिर्यग्द्वारमधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह
[भा. ६३६ ] संगारदिन्ना व उवेति तत्थ ओहा पडिच्छंति विलच्छ्माणा । इत्थी नपुंसा च करेज दोसे, तस्सेवणठाइ उवेंति जे उ ।।
वृ- सङ्गारः सङ्केतः स दत्तो यैस्ते सङ्गारदत्ता: । निष्ठांतस्य परनिपातः प्राकृतत्वात् । सुखादिदर्शनाद्वा दत्तसङ्केता इत्यर्थः । इत्थंभूताः सन्तस्तत्राभिशय्यादिषु उपयन्ति गच्छन्ति । एवं लोकानामाशङ्का भवेत्। अथवा तत्र गतेषु जनानामेवमाशङ्का समुपजायेत । यथा स्त्रियो नपुंसका वा ओघा इति तन्मुखनिरीक्ष्यमाणाः प्रतीक्ष्यन्ते ततोऽमी गताः । यदि वा तासां स्त्रीणां नपुंसकानां वा सेवनार्थं ये तत्रोपयन्ति पुरुषास्ते अस्मत्त्र्यादिसेवनार्थमेतेसंयता समागता इति दोषात् अभिघाताऽवर्ण वादादीन् कुर्युः । तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मान्न निष्कारणे गन्तव्यम् । कारणे पुनर्गन्तव्यं तथा
चाह
[ भा. ६३७ ]
कप्पई उकारणेहिं अभिसेज्जं गंतुमभिनिसीहिंवा ।
लहुगाओ अं गमनम्मितानि य कज्जाणिमाईतु ।।
वृ- कल्पतेपुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनैषेधिकी वा प्रागुक्तशब्दार्थां गन्तुं यदि पुनर्न गच्छन्ति ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं तानि पुनः कानि कारणानि इमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org