SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १८, [भा. ६०० ] २११ षाण्मासिकीत्येकविधा ।सापि स्वभेदचिन्तायां द्विधा-उद्घाता अनुद्घाताच । अनेका पुनरियं भवति यमित्यादि तत्र पञ्चकादिषु भिन्नमासान्तेषु परिहारतपो न भवति, किन्तु मासादिषु । ततो मासिकमेकं तपः स्थानकं द्वैमासिकादि यावच्चातुर्मासिकमेतत् द्वितीयं तपः स्थानं, पञ्चमासिकं षाण्मासिकं च तृतीयंतपःस्थानं । एतान्यपि प्रत्येकं द्विविधानि । तद्यथा उद्घातानुद्यातानि च । एतत् तपस्त्रिकं परिवत्ततिगंति प्रव्रज्यापर्यायस्य परावर्त्तः । तस्य त्रिकंपरिवर्त्तत्रिकं तत्रच्छेदत्रिकं मूलत्रिकमनवस्थाप्य त्रिकं च । च्छेदो द्विधा उद्घातोऽनुद्घातो वा पाराञ्चितमेकमेतानि तपस्त्रिकसहितानि यानि त्रयोदशपदानि एषा पाराञ्चितवर्जा अनेका प्रस्थापना । अथैतानि त्रयोदश पदानि प्रागेवाभिहितानि किमर्थमिह पुनरुच्चार्यन्ते ? । उच्यन्ते स्मरणार्थं, । अथवा यदेतत् प्रस्थापितोऽपि प्रतिसेवते तत् कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा आरोप्यते । प्राक्कृतत्वं त्वनुग्रहकृत्स्नेनैवारोपितमिति ज्ञापनार्थं । इह अपलिउंचिय पलिउंचिए इत्यादि सूत्रम् । अपलिउंचिए अपलिउंचियामिति प्रथमभङ्गानुगतमित्युक्तम् । एतच्चोपलक्षणं, तेन द्वितीयेन तृतीयभङ्गानुगतेऽपि सूत्रे वक्तव्ये । तच्चैवम्- 'जे भिक्खु चाउम्मासियं वा सातिरेगचाउम्मासियंवा' इत्यादि 'जाव ‘अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियमालोएमाणस्स सव्वमेयं साहणिय जाव आरोहेयव्वे सिया' तृतीयभङ्गानुगतमपि सूत्रमेवमुच्चारणीयम् । नवरं पलिउंचिए अपलिउंचियमालोएमाणस्सेति वक्तव्यं, शेषं तथैवा चतुर्भङ्गानुगतं तु सूत्रं साक्षादाह- 'जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वा' इत्यादि । अस्य व्याख्या निरवशेषा प्राग्वत् ज्ञातव्या नवरमेषोऽत्र विशेषः - 'पलिउंचिए पलिउंचियमालोएमाणस्स' इति, शेषं तथैव । एवममूनि चत्वारि सूत्राणि चतुर्भङ्गविकल्पेन उक्तानि एवं मासिकद्वैमासिकादि सूत्राण्यप्युपयुज्य चतुर्भङ्गविकल्पनतः सविस्तरं भणनीयानि । एवं बहुशः शब्दविशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन चत्वारिसूत्राणिवक्तव्यानि । तत्र प्रथमभङ्गानुगतसूत्रंप्रागेवातिदेशनत उक्तम् द्वितीयतृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थभङ्गानुगतं सूत्रं साक्षादतिदेशत आह- 'एवं बहुसो वि' इति । एवमनन्तरोदितसूत्रप्रकारेण बहुशोऽपि बहुशः शब्दविशिष्टमपि सूत्रं वक्तव्यम् । तद्यथा-जे भिक्खु बहुसो चउमासियं वा बहुसो सातिरेगचाउम्मासियं वा बहुसो पंचमासियं वा बहुसो सातिरेगपंचमासियं वा । एएसिं परिहारठाणाणं अनयरं परिहारठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणे वणिज्जं वयित्ता करणिजं वेयावडियं ठविए पडिसेवित्ता । सेवि कसिणे तत्थेव आरुहेयव्वे सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं जाव पच्छा पडिसेवियं पच्छा आलोइयं अपलिउंचिय अपलिउंचियं जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्टवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तरं मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि वक्तव्यानि । आह-से वितत्थेव आरोहेयव्वे सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं जाव पच्छा आलोइयं अपलिउंचिय जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्टवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तर मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि वक्तव्यानि । आह से वि तत्थेव आरोहेयव्वे सिया इत्युक्तं तत्र कति भेदा आरोपणाया ? उच्यते पञ्च । तथा चाह [ भा. ६०१ ] पट्ठवितिया विया कसिणा कसिणा तहेव हाडहडा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy