________________
व्यवहार - छेदसूत्रम् - १- १/१८ आरोपण पंचविहा पायच्छित्तं पुरिसजाते ।।
वृ- आरोपणा पञ्चविधा पञ्चप्रकारा, तद्यथा- प्रस्थापनिका, स्थापिता, कृत्स्ना, अकृत्स्ना, हाडहडा च । एषा पञ्च प्रकाराप्यारोपणा प्रायश्चित्तस्य । तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयमेव गाथासंक्षेपार्थः । इदानीमेनामेव गाथां व्याख्यानयन् प्रथमतः प्रस्थापनिकादि भेदचतुष्टयं व्याख्यानयति
[ भा. ६०२ ]
२१२
पट्ठवितियावहंते वेयावच्चठिया ठवितियाउ । कसिणा झोसविरहिया जहिं झोसो सा अकसिणाउ ।।
वृ- यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिकारोपणा, या वैयावृत्त्यकरणलब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्यं कुर्वन्यत्प्रायश्चित्तमापन्नस्तस्यारोपितमपिस्थापितं क्रियते, यावत् वैयावृत्य परिसमाप्तिर्भवति । द्वौ योगावेककालं कर्तुसमर्थ इति कृत्वा सा आरोपणा स्थापनिका; कृत्स्ना नाम यत्र झोषो न क्रियते । अकृत्स्ना यत्र किञ्चित् झोष्यते । हाडहडा त्रिविधा, तद्यथा सद्योरूपा स्थापिता प्रस्थापिता च । तत्रेयं सद्योरूपा
[ भा. ६०३ ]
उघायमण्डघायं मासादितवाओदिज्जए सव्वं । मासादीनि क्खित्तं, जं सेसं तं अनुग्घायं ।।
वृ- उद्घातं लघु अनुद्घातं गुरु यत्मासादि मासिकमादिशब्दात् द्वैमासिकं त्रैमासिकं वा इत्यादि तप आपन्नस्तद्यदि सद्यस्तत्कालं दीयते । न कालक्षेपेण तदा सा हडाहडा आरोपणा सद्योरूपा । यदि पुनर्यमासादिकमापन्नस्तत् वैयावृत्यमाचार्यादीनां करोतीतिस्थापितं क्रियते । तस्मिंश्चस्थापिते यदन्यत् शेषमुद्घातमनुद्घातं वा पद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते, सा हाडहडा आरोपणा स्थापिता । प्रस्थापितायाः स्वरूपमाह
[ भा. ६०४ ]
छम्मासादि वहते अंतरे आवन्ने जाउ आरुवणा ।
साहोति अनुग्घाया तिन्नि विगप्पा उचरिमाए ।।
वृ- षाण्मासिकं तपो वहन्, आदिग्रहणात्पाञ्चमासिकं चातुर्मासिकं त्रैमासिकं द्वैमासिकं वा वहन् अन्तरा यदन्यदापद्यते उद्घातमनुद्घातं तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन चानुद्घातं यदारोप्यते एषा हाडहडा आरोपणा प्रस्थापिता । एते त्रयो विकल्पाश्चरमाया हाडाहडाया अथवा इमे त्रयो विकल्पाः[ भा. ६०५ ] सा पुन जहन्न उक्कोस मज्झिमा तिन्नि विगप्पा ।
मासो छम्मासा वा अजहत्रुक्कोसजेमज्झे ।।
वृ- सा हाडहडा आरोपणा त्रिविधा, तद्यथा - जघन्या मध्यमा उत्कृष्टा च । एते त्रयो विकल्पा हाडहडाया भवन्ति । तत्र गुरुको मासो जघन्या ' षण्मासा गुरव उत्कृष्टा । एतयोर्द्वयोर्मध्ये ये गुरुद्विमासादयो गुरुमासपञ्चकपर्यन्ता एषा जघन्योत्कृष्टा हाडहडा सा चतुर्विकल्पा, तद्यथा द्वैमासिकं गुरुकं, त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पाञ्चमासिकं गुरुकमिति । सम्प्रति यत्प्रागुक्तं प्रायश्चित्तं पुरुषजातेइति तद्व्याख्यातुकामः प्रस्तावनामाह-तालपलंवादि आमेतालमलंबेत्यादिना समस्तेन कल्प ग्रन्थेन । आदिशब्दस्यानेकाभिधायकत्वात् व्यवहाराध्ययनेनापि यः प्रायश्चित्तराशिरुक्तो वक्ष्यते च तस्य समस्तस्यापि यथायोगमिमे वक्ष्यमाणाः कृतकरणादयः पुरुषु वहत्का वहमानकाः । ते च यद्यपि प्रागुक्तास्तथापि प्रकरणानुरोधात् भूय आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org