SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २१० विधप्रायश्चित्तमुक्तम् । इदानीमोघतो नवविधं प्रायश्चित्तमाहचउगुरुयं मासो वा मासो छल्लहुग चउ गुरुमासो । छगुरुयं छल्लहूयं चउगुरुयं वा बितिएणं ।। [भा. ५९७] व्यवहार - छेदसूत्रम् - १-१/१८ 1 वृ- सिंहानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततश्चतुर्गुरु प्रायश्चित्तं सिंहानुगस्य वृषभानुगीभूयालोचयतो मासलघुः सिंहानुगस्य क्रोष्टुकानुगीभूय पादप्रोञ्छने रजोहरणनिषद्यायां वा स्थितस्यालोचयतो मासलघु, उत्कुटुकः सन् आलोचयन् शुद्धः । वृषभानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततः षट् लघु षट् मासा लघवः प्रायश्चित्तं, वृषभानुगस्य पुरतो वृषभानुगीभूयालोचयतश्चतुर्गुरु चत्वारो गुरुमासाः, वृषभानुगस्य क्रोष्टुकानुगीभूयालोचयतो मासो लघुमासः, क्रोष्टुकानुगस्य पुरतो यदि सिंहानुगो भूत्वा आलोचयति ततः षट् गुरु षट् मासा गुरवः क्रोष्टुकानुगस्यैव पुरतो वृषभानुगीभूयालोचयतः षट् लघु षण्मासा लघवः, क्रोष्टुकीभूयालोचयतश्चतुर्गुरु एतच्च सदृशासनपरिग्रहे प्रतिपत्तव्यं यदि पुनरुत्कुटुकः सन्नालोचयति तदा शुद्धः । अत्रैव व्याप्त्या प्रायश्चित्तलक्षणमाह[ भा. ५९८ ] " सव्वत्थवि समासणे आलोएंतस्स चउगुरू होंति । विसमासण निच्चतरे अकारणे अ विहिए मासो ।। वृ- सर्वत्रापि सिंहानुगे वृषभानुगे क्रोष्टुकानुगे च समे आसने उपविष्टस्य सत आलोचयतः किमुक्तं भवति ? यादृशे आसने निविष्ट आलोचनार्हः आलोचकोऽपि यदि तादृश एवासने उपविष्टः सन्नालोचयति, तदा तस्य प्रायश्चित्तं भवति चदुर्गुरु चत्वारो गुरुमासाः, अतएव प्राक् सिंहानुगस्य पुरतः सिंहानुगस्यैवालोचयतो वृषभानुगस्य पुरतोवृषभानुगस्यालोचयतः, क्रोष्टुकानुगस्य पुरतः क्रोष्टुकानुगस्य समानासनस्यालोचयतश्चतुर्गुरुकमुक्तम् । अथ विषमे अधिके आसने स्थितः सन् आलोचयति ततः षट् लघु षट् गुरुर्वा, तत्र वृषभानुगस्य पुरतः सिंहानुगस्यालोचयतः षट् लघु, क्रोष्टुकानुगस्य पुरतः सिंहानुगस्यालोचयतः षट्गुरु, । एतच्चानुक्तमपिसामर्थ्यादवसितं । तत्रविषमे आसने नीचतरे स्थितः सन्नालोचयति । ततः प्रायश्चित्तं मासो लघुमासः । एतच्चाकारणे निषीदतो वेदितव्यम् । कारणे निषीदन् शुद्ध एव । तथा आलोचनाकाले ये शेषा अप्रमार्जनादयो विधयस्तेष्वपि प्रत्येकं प्रायश्चित्तं मासलघु । सम्प्रति जे एयाए पट्टवणाए पट्ठविए निव्विसमाणे पडिसेवितोस विकसिणे तत्थेव आरोहेयव्वे सिया इति तद्व्याख्यानार्थमाह [ भा. ५९९ ] मासादी पठविए जं अन्नं सेवए तयं सव्वं । साहनिऊणं मासा, छदिज्जुं ते परे झोसो || वृ- प्रागुक्तया प्रस्थापनया प्रायश्चित्तदानलक्षणया प्रस्थापिते प्रायश्चित्तकरणे प्रवर्तिते यदन्यत् मासादि सेवते प्रतिसेवते तत्सर्वं संहत्य एकत्र मीलयित्वा षण्मासा दीयन्ते । यत्पुनः षण्मासेभ्यः परं तस्य समस्तस्यापि गाथायां सप्तमी षष्टयर्थे झोषः परित्यागः । सूत्रे पट्टवेत्युक्तं ततः प्रस्थापनाया भेदानाह [ भा. ६०० ] Jain Education International दुविहा पट्ठव या खलु एगमनेगा य हो अनेगाय । तव तिय परियत्त तिगं तेरस उजानि य पयानि ।। वृ- सा प्रायश्चित्तप्रस्थापना द्विविधा । तद्यथा- एका अनेका च । तत्र या संचयिता सा नियमात् For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy