________________
उद्देशकः १, मूलं: १८, [भा. ५९२]
व २०९ सिंहानुगतयालोचयतआचार्यस्यप्रायश्चित्तंषट्लघवोलघुमासाः भवन्तिवृषभानुगतयालोचयतश्चत्वारो लघुमासाः,क्रोष्ट्रकानुगतयालोचयतोलघुमासः । [भा.५९३] दोहिं विगुरुगा एतेगुरुमि नियमा तवेन कालेणं ।
वसभंमियतव गुरुगा कालगुरूहोंति भिक्खूमि ।। वृ- गुरौ नवप्रकारे आलोचयति नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि प्रतिपत्तव्यानि, । तद्यथा-तपसा कालेन च । वृषभस्यैव सिंहवृषभक्रोष्टुकानुगतया त्रिविधस्यालोचनार्हस्यपुरतोवृषभेनवप्रकारेआलोचयतियथाक्रममनन्तरोदितानिप्रायश्चित्तानितपसा गुरूणिसामर्थ्यात्कालतोलघूनिवेदितव्यानि, तथावृषभस्यैवसिंहवृषभक्रोष्टुकानुगतयात्रिप्रकारस्य पुरतो नवप्रकारेभिक्षावालोचयति यथासङ्ख्यमुक्तानि प्रायश्चित्तानि कालतोगुरूणि सामर्थ्यात्तपसि लघूनि भवंति प्रतिपत्तव्यानि, । तदेवं वृषभमालोचना/ प्रतीत्य नवानामाचार्याणां नवानां वृषभाणां नवानां भिक्षणामालोचयतां प्रायश्चित्तमुक्तम् ।। इदानीं सिंहवृषभक्रोष्टुकानुगतया त्रयाणामालोचनार्हाणां भिक्षूणांये पूर्वक्रमेणाचार्या आलोचका नवतेषां प्रायश्चित्तस्थानमाह[भा.५९४] चउगुरुचउलहुसुद्धो छल्लहुचउगुरुग अंतिमोसुद्धो ।
छगुरुचउलहुलहुओभिक्खुस्स उनवसुठाणेसु ।। वृ-भिक्षोरालोचनार्हस्य सिंहवृषभक्रोष्ट्रकानुगतया त्रिविकल्पस्य नवसु स्थानेषु नवस्वालोचकेषु यथाक्रममिदंतद्यथा-भिक्षोः सिंहानुगस्यपुरतः सिंहानुगतयाआलोचयतआचार्यस्य चत्वारो गुरुकाः, वृषभानुगतया आलोचयतश्चत्वारो लघुका लघुमासाः क्रोष्टुकानुगतयालोचयतो लघुमासः, । सोऽप्यालोचनार्हसदृशासनेप्रतिपत्तव्यः, । उत्कृटुकस्त्वालोचयन्शुद्धः,एतानिचप्रायश्चित्तानितपसा कालेन च गुरुकानि द्रष्टव्यानि, । तथा सिंहानुगवृषभानुगक्रोष्ट्रकानुगरूपाणां त्रयाणामालोचनार्हाणां भिक्षूणांवृषभा अप्यालोचकानवतेषामपियथाक्रममभून्येव प्रायश्चित्तानि, नवरंतफ्सागुरूणिकालतो लघूनि । तथा त्रयाणां सिंहानुनादिरूपाणां भिक्षूणामालोचनार्हाणां भिक्षवोऽप्यालोचका नव तेषामपि यथाक्रममून्येव प्रायश्चित्तानि, नवरंतपसा लघूनि । कालतो गुरूणि । तथा चाह[भा.५९५] दोहिं विगुरुया एते, गुरुमिनियमातवेणकालेणं ।
वसभंमियतव गुरुणा कालगुरू होतिभिक्खुंमि ।। - वृ.गतार्था ।सम्प्रति व्याप्त्या प्रायश्चित्तलक्षणप्रतिपादनार्थमाह[भा.५९६] सव्वत्थविसंठाणंअमुंचमाणस्समासियं लहुयं ।
परछाणंमियसुद्धोजइउच्चतरोभवे इयरो ।। वृ-स्वस्थानं नाम स्वोचितमुपवेशनत आलोचयन्नपि यदि न मुञ्चति । ततस्तदमुञ्चतः सर्वत्रामि सर्वेष्वप्याचार्यत्वादिषु स्थानेषु प्रायश्चित्तं मासिकं लघु । इयमत्र भावना-यथालोचनार्हस्याचार्यस्य सिंहानुगस्य पुरतः सिंहानुगएवसन्नाचार्यआलोचयति,तथावृषभस्यवृषभानुगस्य वृषभएव वृषभानुग आलोचयति तथा भिक्षोः क्रोष्टकानुगस्य भिक्षुरेवक्रोष्ट्रकानुगआलोचयतितत एतेषुत्रिष्वपिस्थानेषु प्रत्येकं प्रायश्चित्तं मासिकं लघु, । एतच्च मासिया तिन्नित्ति प्रागेवोक्तं परस्थाने वर्तमानः सर्वत्र शुद्धो यदिनीचतरानुगःसन्नालोचयति ।इतर आलोचनाहः पुनरुच्चतरानुगोभवेत् । तदेवंविभागतएकाशीति 2114
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org