________________
२०८
व्यवहार -छेदसूत्रम्-१-१/१८ सिंहानुगस्याचार्यस्यक्रोष्ट्रकानुगः सन्नाचार्यइतितृतीयः ३ |वृषभानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य इति षष्ठः ६ । क्रोष्ठकानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयतीति सप्तमः ७ । क्रोष्टुकानुगस्याचार्यस्यवृषभानुगः सन्नाचार्यइत्यष्टमः ८ ।क्रोष्ट्रकानुगस्याचार्यस्यक्रोष्ट्रकानुगः सन्नाचार्य आलोचयतीतिनवमः ९ । एतेषां नवानामप्याचार्याणामालोचयतां यथासङख्यमितिप्रायश्चित्तम् ।। [भा.५९०] मासो दुन्निओसुद्धोचउलहुलहुयअंतिमो सुद्धो ।
गुरुया लहुया लहुय भेया गणिणो नवगणिमि ।। वृ-गणिन्याचार्येलोचनागणिनिगणिन आचार्यस्यालोचकस्यभेदा नवतेचानन्तरमेवोपदर्शिता एतेषां च यथाक्रमं प्रायश्चित्तमिदं मासो इत्यादि सिंहानुगस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं मासलघु । वृषभानुगतया आलोचयन् शुद्धः क्रोष्टुकानुगतयालोचयन् शुद्धः वृषभानुगस्याचार्यस्यपुरतः सिंहानुगतयाआलोचयत आचार्यस्यप्रायश्चित्तं चत्वारोलघवोलधुमासाः, वृषभानुगतया आलोचयतो लघुको मासः, क्रोष्टुकानुगतयालोचयन् शुद्धः क्रोष्टुकानुगतस्याचार्यस्य पुरतः सिंहानुगतयालोचयतआचार्यस्य चत्वारोगुरुकागुरुमासाः,वृषभानुगतयालोचयतश्चत्वारोलघुका लघुमासाः, । क्रोष्टुकानुगतयालोचयतो लघुक एको लघुमासः । पादप्रोञ्छने रजोहरणनिषद्यायां च क्रोष्ट्रकानुगालोचनार्हाचार्यसदृशासने उपविष्टस्य वेदितव्यः । यदा पुनरुत्कुटुकः सन्नालोचयति तदा शुद्ध एव, एतानि प्रायश्चित्तानि तपसा कालेन च गुरुकाणि द्रष्टव्यानि । तथा सिंहानुगवृषभानगक्रोष्ट्रकानुगरूपाणांत्रयाणांआचार्याणांवृषभाआलोचका नव,तेषामपियथाक्रमतान्येव प्रायश्चित्तानि नवरं तपसा गुरूणि कालतोलघूनि वेदितव्यानि, तथा त्रयाणां सिंहानुगवृषभानुगक्रोष्ठकानुगरू पाणामाचार्याणां भिक्षवोप्यालोचकानव तेषामपि यथाक्रमं तान्येव प्रायश्चित्तानि नवरं तपसा लघूनि कालतो गुरूणि । तथा चाह[भा.५९१] दोहिं विगुरूणि ऐतगुरुंभि नियमातवेणकालेन ।
वसभंमियतव गुरुगाकालगुरू होतिभिक्खुमि ।। वृ- गुरावाचार्ये आलोचके जाताकेवचनं गुरुलघुषु आचार्येषु आलोचकेषु नवसु नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि द्रष्टव्यानि । तद्यथा-तपसा कालेन च वृषभेऽत्रापि जातावेकवचनं वृषभेषु तपसा गुरुकाणि कालतो लघूनीति सामर्थ्यादवसीयते, । भिक्षी भिक्षुषु कालतो गुरूणि, सामर्थ्यात्तपसा लघूनि भवन्ति, तदेवमालोचनार्हमाचार्य प्रतीत्याचार्यवृषभभिक्षुष्वालोचकेषु सप्तविंशतिः प्रायश्चित्तस्थानानि प्रतिपादितान्यधुना सिंहवृषभक्रोष्ट्रकानुरूपतया त्रयाणामालोचनार्हाणां वृषभाणां ये पूर्वक्रमेणाचार्या आलोचका नव. भवन्ति तेषां यथासङ्ख्यं प्रायश्चित्तमाह[भा.५९२] लहुया लहुओसुद्धो गुरुया लहुओयअंतिमी सुद्धो ।
छल्लहुचउलहुलहुओ वसभस्स उनवसुठाणेसु ।। वृ-वृषभस्यालोचनार्हस्यसिंहानुगादिरूपतया त्रिविधस्य नवसुस्थानेषुनवस्वाचार्येषुआलोचकेषु यथाक्रममिदंप्रायश्चित्तम् । तद्यथा-वृषभस्य सिंहानुगस्य पुरतः सिंहानुगतयाआलोचयतिआचार्यस्य चत्वारो लघुमासा, वृषभानुगतया आलोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन्शुद्धः, वृषभस्य वृषभानुगस्य पुरतः सिंहानुगतया आलोचयन् शुद्धः वृषभस्य क्रोष्टुकानुगतस्य पुरतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org