________________
उद्देशक : १, मूलं : १८, [भा. ५८८]
२०७ शुद्धिरुपलक्षणमेतत्कथमशुद्धिर्वाभवतीति ? उच्यते-आचार्यास्त्रिविधस्तद्यथा-सिंहानुगो वृषभानुगः क्रोष्टानुगश्च । क्रोष्टुकः शृगालः यत्र यो महत्यां निषद्यायां स्थितः सन् सूत्रमर्थं वाचयति तिष्ठति वास सिंहानुगः, यः पुनरेकस्मिन् कल्पे स्थितः सन् वाचयति तिष्ठति वा स वृषभानुगः, यस्तु रजोहरणनिषद्यायामौपग्रहिकपादप्रोञ्छनेवा स्थितोवाचयति तिष्ठतिवासक्रोष्ट्रकानुगइति । यदाचार्य आलोचनार्हो न प्राप्यते, तदा वृषभस्यापि पुरत आलोचना दातव्या । तदभावे गीतार्थस्य भिक्षोरपीति वृषभभिक्षूअपिआचार्यवसिंहवृषभक्रोष्टुकानुगतया प्रत्येकं त्रिविकल्पौवाच्यौ, आलोचका अपि त्रिविधास्तद्यथा-आचार्या वृषभा भिक्षवश्च । एकैके त्रिविकल्पाः-सिंहानुगाः, वृषभानुगाः, क्रोष्ट्रकानुगाश्च । नवरंक्रोष्टुकानुगेविशेषः ।सयदा निषद्यायांपादप्रोञ्छने वा उत्कुटुकोवाआलोचयति, तत्र यद्युत्कुटुकः स नालोचयति, ततः शुद्धि निषद्यापादप्रोच्छनयोस्तु भजना । किमुक्तं भवति ? यद्याचार्यो महान्वा वृषभो यदि वा भिक्षुरपि ग्लान आलोचयति आलोचनाhणच क्रियते अनुज्ञा तदा शुद्धिः,शेषकालमशुद्धिरिति । अहवावि सभावेणं निमंसुए इति । अथवास आचार्यो वृषभो भिक्षुर्वा स्वभावेन स्व आत्मीयो भावः स्वभावः स्वशीलमित्यर्थः । तेन क्रोष्टानुगो भवेत् । यदि वा कोऽपि धर्मश्रद्धया निषद्यायामुपवेष्टुंनेच्छतितस्य किंनिषद्या कर्तव्या? किंवानकर्तव्या? उच्यते-भवतुयो वा स वा नियमेन तस्य निषद्यां कृत्वा आलोचके नालोचयितव्यं । यदि पुनर्न करोति ततः प्रायश्चित्तमाप्नोति, अत्रदृष्टान्तोनिःश्मश्रुकोराजा ।जहा-एगोराया निम्मंसुओतस्सकयवित्तीकासवो सोपरिभवेणन कयाइउवट्टाएतिबालानस्थितिकाउंसोविणासित्तो । एवमिहापियो निषद्यांन करोति स प्रायश्चित्तदण्डेन दण्डयते । अणो कासवो कतो सो सत्तमे सत्तमे दिवसे उव्वट्ठाति सो रणा पूइतो । एवमिहापि यो निषद्यां करोतिस विनीतोऽयमिति यशः प्राप्नोति । परलोके कर्मक्षपणतः सिद्धिमेति । तत्पुनःप्रायश्चित्तंत्रीणिमासिकानि । तानिचसद्दशेसद्दशानुगेसद्दशस्यसद्दशानुगस्यपुरतआलोचयति वेदितव्यानि । कथमिति चेदुच्यते-सिंहानुगस्याचार्यस्य सिंहानुग एवाचार्ये आलोचयत्येकं मासिकं वृषभस्य वृषभानुगस्य वृषभ एव वृषभानुगे आलोचयति द्वितीय, भिक्षोः क्रोष्ट्रकानुगस्य भिक्षावेव क्रोष्ट्रकानुगेआलोचयतितृतीयमिति, । एतत्स्वस्थानेप्रायश्चित्तमुक्तमिदानीस्वस्थानपरस्थानज्ञापनार्थं स्वस्थानपरस्थानेषुप्रायश्चित्तं वक्तु काम इदमाह[भा.५८९ सट्ठाणानुगकेई परठाणानुगय केइ गुरुमादी ।
सनिसिजाए कप्पो, पुच्छ निसिज्जाच उकुडुओ ।। ___ वृ-गुर्वादयो गुरुवृषभभिक्षवः केचित्स्वस्थानानुगाः केचित्परस्थानानुगाः । तत्रआचार्यस्यसती शोभनानिषद्यातस्यां स्थितस्यप्रस्थापनानुगतावृषभस्यकल्पेस्थितस्य भिक्षोः पादप्रोञ्छनकनिषद्यायां रजोहरणनिषद्यायां यदिवायदिउत्कुडुकोऽवतिष्ठते । एव भिक्षोःस्वस्थानानुगताः । इयमत्रभावनाआचार्यस्यमहत्यांनिषद्यायामुपविष्टस्ययसिंहानुगतत्वमेतत्स्वस्थानं वृषभानुगत्वं,क्रोष्टुकानुगत्वं च परस्थानं, वृषभस्य कल्पेऽवस्थितस्य यत् वृषभानुगत्वमिदं स्वस्थानं । यत्पुनर्महत्यां निषद्यायां पादप्रोञ्छनके निषद्यायांचोपवेशनतः सिंहानुगत्वंक्रोष्टुकागत्वंचतत्परस्थानम्, भिक्षोः पादप्रोञ्छनके रजोहरणनिषद्यायामुकुड्डुकत्वेनावस्थितस्य यत्क्रोष्ट्रकानुगतत्वंतत्स्वस्थानं, यत्तुसंनिषद्यायां कल्पे चोपवेशनतः सिंहानुगत्वं वृषभानुगत्वं च तत्परस्थानं । तत्र सिंहानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष प्रथमः ।। सिंहानुगस्याचार्यस्य वृषभानुगः सन्नाचार्य आलोचयति । एष द्वितीयः २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org