________________
२०६
व्यवहार - छेदसूत्रम् - १- १/१८
इत्यादि । चतुर्ष्वपि भङ्गेषु भिक्षुकी व्याध उपलक्षणमेतत् गौश्च दृष्टान्तो भावनीयः । यथा च भिक्षुक्यादिषु त्रिष्वपि दृष्टान्तेषु स्वयं भिक्षुक्यादौ प्रतिकुञ्चति स्वामिना स्वार्थभ्रंशिना सहसा अनादरखरंटना वा कृता तथा आलोचकेऽपि चतुर्थभङ्गे स्वयं प्रतिकुञ्चत्याचार्येण सहसा कृतोऽनादरः खरण्टना वा योजनीयेति एतदेव विभावयिषुरिदमाह
[ भा. ५८४ ]
अपलिउंचिय उपलिउंचियंमि चउरो हवंति भंगाओ ! वाहेय गोणी भिक्खुणि, चउसु विभंगेसु दिट्टंतो ।।
बू- अप्रतिकुञ्चितं च प्रतिकुञ्चितं च अप्रतिकुञ्चितप्रतिकुञ्चितं तस्मिन् । किमुक्तं भवति ? अप्रतिकुञ्चितप्रतिकुञ्चिताभ्यां चत्वारो भङ्गा भवन्ति । चतुर्ष्वपि भंगेषु प्रत्येकं व्याधो गोणी गौः भिक्षुकीदृष्टान्तः । [ भा. ५८५ ]
पढमतइएसु पूया खिसा इयरेसुवि सियपयखोरे । एमेव उवनतो खलु चउसु वि भंगेसु वियडंते ।।
तस्मिन्
वृ- पिशितं मांस, पयः क्षीरं, खोरकं वृत्ताकारो भाजनविशेषः । एतेषां समाहारो द्वन्द्वः, विषये यथाक्रमं ये व्याधगोभिक्षुकीदृष्टान्तास्तेषां यथा प्रथमे तृतीये च भने पूजा स्वाम्यादिना कृता । इतरयोस्तु द्वयोर्द्वितीय चरमयोर्भङ्गयोः खिसा खरण्टना एवमेव अनेनैव प्रकारेण चतुर्ष्वपि भङ्गेषु विकटयत्यालोचयति खलूपनयः कर्तव्यः । तत्रादौ व्याधदृष्टान्तमधिकृत्योपनययोजनामाहइस्सरि सरिसो उ गुरू वाहो साहू पडिसेवणा मंसं । तूमणया-पलिउंचण सक्कारो वीलणा होइ ।।
[ भा. ५८६ ]
वृ- ईश्वरसदृश ईश्वरस्थानीयो गुरुर्व्याधो व्याधस्थानीयः साधुः प्रतिसेवनास्थानीयमांसं तूमणयेति देशीपदमेतत् स्थागनमित्यर्थः । स्वगनस्थानीया प्रतिकुञ्चना, सत्कारः सत्कारस्थानीया ब्रीडना स्थगनविषये लज्जापादनं भवतीति । सम्प्रति अपलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहनियजे इएयाए पठवणाए पठविए निव्विसमाणे पडिसेवित्ति सेवकसिणे तत्थेव आरोहियव्वे सिया इति व्याख्यानयन्नाह
[भा. ५८७ ]
आलोयणत्तिय पुनो जा एसा अकुंचिया उभयतो वि । सव्वेव होइ सोही तत्थय मेरा इमा होति ।।
वृ- आलोएमाणस्सेति किमुक्तं भवति ? आलोचयतः । सा पुनरेषा आलोचनाया उभयतः संकल्पकाले आलोचनाकाले च अप्रतिकुञ्चिता न विद्यते प्रतिकुञ्चितं प्रतिकुञ्चनं यत्र सा तथा प्रतिकुञ्चनरहिता इत्यर्थः । सैव भवति शुद्धिस्तात्विकी शुद्धिरुभयत्रापि प्रतिकुञ्चनाया अभावात् । इयमत्र भावना यो नाम संकल्पकालेऽप्यप्रतिकुञ्चितमालोचनाकालेऽप्यप्रतिकुञ्चितमालोचयति, यदि वा उभयत इति प्रतिसेवनानुलोमतः प्रायश्चित्तानुलोमतश्चाप्रतिकुञ्चितमालोचयति । एष एव तत्त्ववृत्त्या शुद्धो मायालेशस्याप्यभावात् । सा चालोचना आचार्यशिष्यभावे भवति । तत्राचार्य शिष्याणामियं मर्यादा सामाचारी, तामेवाह
[ भा. ५८८ ]
आयरिए कह सोही सीहानुग वसभ कोडुगानूगे । अहवा वि सहावेणं निमंसु मासिया तिनि ।।
वृ- आचार्ये आलोचनार्हाचार्यसमीपे यदा आलोचक आलोचनां प्रयुक्ते तदा कथं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org