________________
२०
व्यवहार - छेदसूत्रम्-१उत्तगुणप्रतिसेवनात्वतिक्रमादिभेदतस्तथा चाह - [भा.४२] सापुन अइक्कमवइक्कमे यअइयारा तह
अनायारे संरंभ समारंभ आरंभे रागदोसादी ।। वृ-सा उत्तरगुणप्रतिसेवना पुनरतिक्रमे व्यतिक्रम अतिचारे अनाचारे च भवति, एतदुक्तं भवति, सर्वाप्युत्तरगुणप्रतिसेवना अतिक्रमादिभेदतश्चतुःप्रकाश, मूलगुणप्रतिसेवना संरभेसमारंभे,आरंभेच, संरंभादिभेदतस्त्रिप्रकारतिभावार्थः, तेच संरंभादयो रागद्वेषादितः रागतो द्वेपत आदिशब्दादज्ञानतश्च; तत्ररागतोयथा चिलातीपुत्रस्यसूसुमावधः द्वेषतोयथासत्यकेद्वेयनव्यापादनमज्ञानतो ब्राह्मणादीनां छागादिवधः ननु यथोद्देशस्तथा निर्देश इति प्रथमतो मूलगुणप्रतिसेवनाव्याख्यातुमुचिता पश्चादुत्तरगुणप्रतिसेवना अत्रतुविपर्यय इतिकथं? उच्यते, इहप्रायः प्रथमतोऽल्पसंक्लिष्टाऽध्यवसायः स तूत्तरगुप्रतिसेवनां कुरुते, पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामिति ख्यापनार्थं विपर्ययेणोपन्यास इत्यदोषः, संप्रति अतिक्रमादीन्पिंड विशुद्धिमधिकृत्य व्याचिख्यासुराह [भा.४३] आहाकम्मनिमंतण, पडिसुणमाणअतिक्कमो होई।
पयभेयाइवइक्कम, गहिए तइएतरोगिलिए ।। वृ-कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिपतिबद्धो गुणानुरक्तो वा आधाकर्म्म निष्पाद्य निमंत्रयति, यथाभगवन्युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इतिसमागत्य प्रतिगृह्यतामित्यादितत्प्रतिशृणोति प्रतिश्रवणानंतरं चोत्तिष्टति, पात्राण्युद्गृहणाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एष समस्तोपि व्यापारोऽतिक्रमः, उपयोगपरिसमाप्त्यनंतरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दान्मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणायपात्रंप्रसारयति, नचाद्यापि प्रतिगृह्णाति, एप सर्वोपि व्यापारी व्यतिक्रमः गहिए तईओत्ति आधाकर्मणि गहीत्ते उपलक्षणतत यावदवसतो समानीने गुरुसमक्षमालोचितेभोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि यावन्नाद्यापिगिलति तावत् तृतीयोऽतिचारलक्षणोदोपः, गिलितेत्वाधाकर्मणानाचारः, एवं सर्वेष्वप्यौदेशिकादिषुभावनीयं, अत्रैव प्रायश्चितमाह - [भा.४४ तिन्निय गुरुगामासा विसेसिया तिण्हवगुरु अंते ।
- एएचेवय लहुया विसोहिकोडीएपच्छिता ।। वृ-त्रयाणामतिक्रमव्यतिक्रमातिचाराणां त्रयो गुटकामासाकथंभूता इत्याह विशेषितास्तपः काल विशेषिताः किमुक्तं भवति अतिक्रमेऽपिमासगुरुरतीचारेऽपिमासगुरुरेते च त्रयोऽपि यथोत्तरं तपःकालविशेषिताः अथअंते अनाचारलक्षणेदोषेचतुर्गरुचतुर्मासगुरुप्रायश्चित्तं, एतेचमासगुर्वादयः प्रायश्चितभेदा अतिक्रमादिष्वपिशोधिकोट्यात्वेतएवमासादयोलघुकाप्रायश्चितानितद्यथा अतिक्रमे मासलघुव्यतिक्रमेऽपिमासलघु, अतिचारेऽपिमासलघुनवरमेतेयथोत्तरंतपःकालविशेषिताःअनाचारे चतुर्मासलघु; मूलगुणेपंचविधा प्रतिसेवनेति यदुक्तंतत्रपंचविधत्वं दर्शयति ।। . भा.४५] पाणिवहमुसावाएअदत्तमेहुणपरिग्गहेचेव। .
मूलगुणे पंचविहा परुपणातस्सिमा होई ।। वृ- प्राणवधस्त्रसस्थावरप्राणिहिंसा, मृषावादो भूतोपधातिवचः, अदत्तादान स्वामिगुर्वननुज्ञात ग्रहणं, मैथुनंस्त्रीसेवा, परिग्रहः स च वाह्याभ्यंतरवस्तुषु मूर्छा सर्वत्र एकारांतता प्राकृतलक्षणवशात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org