________________
२०४
| भा. ५८० |
व्यवहार - छेदसूत्रम् - १- १/१८
पुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता ।
लघु पुव्वं कहयति मा मे दो दिजपच्छित्ते ।।
वृ- अत्र द्वितीयभङ्गभावनायां गुरुशब्दो बृहदभिधायी, लघुशब्दोऽल्पवाचकः । ततोऽयमर्थः - पूर्वं गुरूणि मासलघुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्य च तदनन्तरमालोचनावेलायां पूर्वं लघुकानि लघुपञ्चकादीनि कथयति पश्चात् मासलघुकादीनि । कस्मादेवं कथयतीति चेदत आह-'मा मे' इत्यादि । पूर्वमासलघुकादिकथने अयतनया प्रतिसेवित्वं मे गुरुणा विज्ञायेत । ततो द्वे प्रायश्चित्ते गुरुर्दद्यात् । अयतनानिष्पन्नं प्रतिसेवनानिष्पन्नं च । तस्मात् मामे द्वे प्रायश्चित्ते दद्यादिति पूर्वं लघुपञ्चकादि कथयति । तृतीयभङ्गभावनायां त्वियं भावना - गुरुलघुपर्यालोचनामन्तरेण गुरूणि मासगुरुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्य च पूर्वं लघुकानि लघुपञ्चकादीनि कथयति । पश्चात् गुरुमासादेवं कथयतीति चेदत्र आह-मा मे इत्यादि पूर्ववत् । अथवेयं तृतीयभङ्गविशेषतो भावना
[ भा. ५८१]
अहवा जय पडिसेवित्ति नव दाहिंति मज्झ पच्छित्तं ।
इय दो मज्झिमभंगा चरमो पुन पढम सरिसोउ ।।
बृ- अथवेतिप्रकारान्तरे यत्यतनया प्रतिसेवी प्रतिसेवनाकारीति ज्ञात्वा नैव मम दास्यंति प्रायश्चित्तं, उपलक्षणमेतत् । स्वल्पं वा दास्यन्ति प्रायश्चित्तमिति हेतोरुक्तेन प्रकारेण कथयति । तत इति एवममुना प्रकारेण द्वौ मध्यमभङ्गौ द्वितीयतृतीयभङ्गौ मायाविन इति शेषः । चरमः पुनर्भङ्गः पश्चादानुपूर्व्या प्रतिसेवितं पश्चादानुपूर्व्यालोचितमित्येवंरूपः प्रथमसदृशः । यथा प्रथमे भङ्गे यथैव प्रतिसेवना तथैवालोचनेत्यमायाविनः स भङ्गः । तथा चरमभङ्गेऽपि प्रतिसेवनाक्रमेणालोचना न मायावशतोऽन्यथेत्येषोप्यमायिन एवेति प्रथमसशश्चचरमभङ्गः । तदेवं यतः प्रथमचरमभङ्गावमायाविनो द्वितीयतृतीयभङ्गौ प्रतिकुञ्चनायामतः प्रतिकुञ्चनाऽप्रतिकुञ्चनाविपयचतुर्भङ्गी सूत्रखण्डं अपलिउञ्चियं इत्यादि । तद्व्याख्यानार्थमाह ।।
[ भा. ५८२ ]
Jain Education International
पलिउंचण चउभंगो वाहे गोणीय पढमतो सुद्धो । तं चेवयमच्छरिते सहसा पलिउंचमाणेउ ।।
वृ- प्रतिकुञ्चनमधिकृत्य प्रतिषेधाप्रतिषेधाभ्यां चतुर्भङ्गी । गाथायां पुंस्त्वनिर्देशः प्राकृत्वात् । सा चचतुर्भङ्गी यथासूत्रेण तथोच्चारणीया । तद्यथा अप्रतिकुञ्चितेऽप्रतिकुञ्चितं १, अप्रतिकुञ्चिते प्रतिकुञ्चितं २, प्रतिकुञ्चिते अप्रतिकुञ्चितं ३, प्रतिकुञ्चिते प्रतिकुञ्चितं ४ । अस्यां चतुर्भड्यां व्याधी गोणीच शब्दातू भिक्षुकी च दृष्टान्तः । तत्र व्याधदृष्टान्तोऽयम् - जहा कोवि वाहो कसइ ईसरस्स कयवित्तीतो मंसं उवनेइ अन्नया सो वाहो मंसं सुंदरं घेत्तुं ईसरसमीवं संपद्वितो चिंतेइ य इमस्स सव्वं मंसं दायव्वंति पत्तो ईसरसमीवं तेन आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति वाहेणं तुठेणं सव्वं मंसं दिन्नं । एवं कोवि सावराहो आलोइउकामा आयरियस्सगासं द्वितो चिंतेइ य सुहुमबायरा सव्वे अइयारा मए आलोइयव्वा इति पत्तो आयरियसमीवं । आवरिएणं सुद्ध आढाइत्तो धनोसि तुमं, संपुन्नोसि तुमं, न दुक्करं जं पडिसेविज्जइ तं दुक्करं जं सम्मं आलोइज्जइ । तोत तुट्टेण सव्वं जहा चिंतियमपलिउंचियमालोइयं । इह चिंतावेलायामप्यप्रतिकुञ्चितमालोचनावेलायामप्यप्रतिकुञ्चितमिति प्रथमो भङ्गः शुद्धः । तं चेवय मच्छरिए इत्यादि । यदेव प्रथम व्याधोदाहरणे व्याधस्यागमनं तदेव द्वितीय भङ्गेऽपि वक्तव्यं
For Private & Personal Use Only
www.jainelibrary.org