________________
उद्देश : १, मूलं : १८, [भा. ५७८ ]
२०३
वृ- या पूर्वानुपूर्वी प्रतिसेवनायामालोचनायां च एष प्रथमो भङ्गः । अस्य त्वियं भावना | गीतार्थः कारणे समुत्पन्ने सति लघुगुरुपर्यालोचनापुरस्सरं लघुगुरुपञ्चकादि यतनया प्रतिसेवते एषा प्रतिसेवनानुपूर्वी । तदनन्तरं गुरुसकाशे यत् यथा प्रतिसेवितंतत्तथैवालोचयति-एषा आलोचनानुपूर्वी विवरीए बिइय तइयत्ति यथाक्रममनुत्तरपूर्वयोः पदयोर्विपरीतभावप्रधानोऽयं निर्देशः वैपरीत्ये द्वितीयतृतीयभङ्गौ पूर्वानुपूर्व्या प्रतिसेवितं पञ्चादानुपूर्व्या आलोचितमिति द्वितीयः । पञ्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितमिति तृतीय इति भावः । तत्रेयं द्वितीयभङ्गभावना पूर्व लघुगुरुपर्यालोचनेन लघुगुरुमासादिक्रमेण यतनया प्रतिसेवितं तदनन्तरं तथाविधकारणोत्पत्तौ लघुगुरुपञ्चकादि आलोचनावेलायां तु प्रथमतो लघुगुरुपञ्चकादि कथयति, पश्चात् मासादि । कस्मादेवं कथयतीति चेत् ? उच्यते-आशङ्कासम्भवात् । तथा यदि पूर्वमासादि कथयिष्यामि तस्मात् पञ्चकादि तत एवं गुरूणां चित्ते स्थास्यति । यथा एषोऽयतनया प्रतिसेवी कथमन्यथा यतस्ततो मासादि प्रथमतः प्रतिसेवितमान् । ततोऽयतनानिष्पन्नंच द्वे प्रायश्चित्ते मह्यं दद्युरिति पूर्वानुपूर्व्या प्रतिसेवते पश्चादानुपूर्व्या आलोचयति तृतीयभङ्गे त्वियं भावना पूर्वं गुरुलाघवचिन्ता विकलतया प्रथमतो गुरुमासादीनि प्रतिसेवितानि तदनन्तरं गुरुपञ्चकादीनि । आलोचनावेलायां तु पूर्वं लघुपञ्चकादीनि कथयति, तदनन्तरं गुरुमासिकादीनि मा मह्यमयतनया प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पन्नं प्रतिसेवना निष्पन्नं चेति प्रायश्चित्तद्वयं दद्युरिति बुद्धया अथवा एवमालोचयन्तं श्रुत्वा गुरवो ज्ञास्यन्ति ।
यथा एष महानुभावो यतनया प्रतिसेवितवान् ततो न प्रायश्चित्तभागिति मह्यं प्रायश्चित्तं दास्यन्ति अल्पं वा दास्यन्ति । ततो द्वितीयभङ्गे च यथापन्नं तद्दीयते । मायां च कृतवानिति मायानिष्पन्नो गुरुक इति गुरुमासोऽधिको दीयते । अथवा पच्छा पडिसेवियं पुव्वं आलोइयमित्यत्र न पूर्व शब्दः पूर्वानुपूर्वाभिधायी । नापि पश्चाच्छब्दः पश्चादानुपूर्वीवाचकः, किन्तु प्रसिद्धार्थप्रतिपादको ज्ञेयः । ततोऽयमर्थः- पश्चात्प्रतिसेविते पूर्वं प्राक् आलोचयति । एष भङ्गः कथं संभवतीति चेत् ते आहु:'आयरियकारणा वा' इति । वा शब्दस्तृतीयभङ्गस्य प्रकारान्तरताव्याख्यापनार्थः । आचार्यकारणात् । उपलक्षणमेतत् । पश्चात् प्रतिसेवते पूर्व मालोचयति । इयमत्र भावना आचार्यदिकारणतोऽन्यग्रामं गन्तुमना यदि वा कारणान्तरे समुत्पन्ने सति विकृतिमाहारयितुकाम आचार्य विज्ञपयति । - ' इच्छामि भदन्त युष्माभिरनुज्ञातः सन् एतेन कारणेन अमुकां विकृतिमेतावन्तं कालमाहारयितुमिति । एवं पूर्वमालोचना पश्चात् प्रतिसेवनोपजायते । अथवायं तृतीयो भङ्गः शून्य एव द्रष्टव्यः । तथानुज्ञायामपि कृतायां प्रतिसेवनानन्तरं भूय आलोचनात् । तथा चाह-पंच्छावसुन्नोत्ति, पश्चात् प्रतिसेवनापूर्वमालोचनेति शून्य एव भङ्गस्तुरेवकारार्थः । तत्र यदुक्तं पुव्वाणुपुव्विं पढमो इत्यस्य व्याख्यानमाहपच्छित्तऽनुपुव्वीए जयणापडिसेवणाए अनुपुव्वी । एमेव विगडणाए बितियतइय माइणी गुरुगी ।।
[भा. ५७९ ]
वृ-गरुलघुपर्यालोचनया प्रायश्चित्तानुपूर्व्या प्रायश्चित्तानुपरिपाट्या गुरुलघुपञ्चकादिक्रमेणेत्यर्थः । यत्यतनया प्रतिसेवितमेषा प्रतिसेवनायामनुपूर्वी एवमेव यथैव प्रतिसेवितवान् तथैव यत् आलोचयति । एषा विकटनायामालचोनायामनुपूर्वी द्वितीयतृतीयभंगयोः । पुनर्यदापन्नं तावन्नियमतो दीयते, केवलं माय़िनो मायाविन्सतौ भङ्गविति द्वयोरपि भङ्गयोरधिको गुरुमासा दीयते । साम्प्रतमनयोरेव भङ्गयोर्भावनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org