________________
२००
व्यवहार - छेदसूत्रम्-१-१/१८ प्रतिपत्तव्येति भावः । अनुशिष्टिस्तुतिरित्येकोऽर्थोऽत्रापिशब्दः सामर्थ्यागम्यते । एतावपि द्वौ शब्दावेकार्थो । किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति । सम्प्रत्यात्मोपालं भोल्लेखं दर्शयतिभा.५६६] तुमएचेवकयमिणंन सुद्धगारिस्स दिज्जएदंडो ।
इह मुक्कोविन मुच्चइ परत्थ इह होउवालंभो ।। - वृ-त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरि अन्यथाभावः कल्पनीयः न खलु शुद्धकारिणो लोकेऽपिदण्डो दीयते । किंचयदिइह भवे कथमप्याचार्येणैव मेवमुच्यते तथापि इहभवे मुक्तोऽपि परत्रपरलोके नमुच्यते । तस्मात्प्रमादापन्नंप्रायश्चित्तमवश्यं गुणवृद्धयाकर्त्तव्यं इतिइहएष भवत्युपालम्भः । एषआत्मोपालम्भः । एतदनुसारणपरोपालम्भउभयोपालम्भोऽपिभावनीयः । सम्प्रति परोपग्रहे यदुक्तं 'आयरितो दोसुवगहेय' इतितत् व्याख्यानयतिभा.५६७] दव्वेणयभावेणयउवगहो दव्व अनपानाई।
भावे पडिपुच्छाई, करेतिजंवा गिलाणस्स ।। वृ- उपग्रहो द्विविधो-द्रव्येण भावेन च । तत्र दव्वे इति तृतीयार्थे सप्तमी । द्रव्येणोपग्रहः कल्पस्थितोऽनुपारिहारिको वाऽसमर्थस्यसतोऽन्नपानाद्यानीयददाति ।भावे भावेनोपग्रहोयत्सूत्रेऽर्थे वा प्रतिपृच्छादि करोति । अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेष भावोपग्रहः अधुना दोसु उवग्गहे यइत्यस्यव्याख्यानान्तरमाह-- [भा.५६८] परिहारानुपरिहारीदुविहेण उवगहेणआयरिओ।
उवगेण्हइसव्वंवा, सबालवुड्डाउलंगच्छं ।। वृ- पारिहारिकमनुपारिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण चोपग्रहेणाचार्य उपगृह्णाति, उपष्टभाति । ततः परोपग्रहेआचार्यउदाहरणम् । “सव्वत्थवायरिओ' इत्यस्य व्याख्यानमाहसव्वं वा इत्यादि वाशब्दः पूर्वार्दोक्तपक्षापेक्षया पक्षान्तरसूचने सर्वं पारिहारिकमनुपारिहारिकं स बालवृद्धाकुलंचगच्छमाचार्योद्रव्यतोभावतश्चोपगृह्णाति, ततःसर्वत्रसमस्तेऽपिगच्छेआचार्यउपग्रहे वर्तते । तस्मात्परोपग्रहे स उदाहरणं अत्रैव व्याख्यानान्तरमाह[भा.५६९) अहवानुसटुवालंभुवगाहे कुणति तिन्नि वि गुरुसे ।
सव्वस विगच्छस्स अनुसट्ठाईणि सो कुणति ।। वृ- अथवेति प्रकारान्तरे अनुशिष्टि उपालम्भ उपग्रहान् त्रीनपि गुरुराचार्यः से तस्य पारिहारिकस्य यथायोगंकरोति । न केवलंपारिहारिकस्य यथायोगंकरोतिकिन्तुसर्वस्यापिगच्छस्य अनुशिष्ट्यादीनि त्रीण्यपिस आचार्यः करोति । अत्रशिष्यः प्राहभा.५७०] . आयरिओ केरिसओ, इहलोगे केरिसो व परलोए ।
इह लोए असारणिओ, परलोए फुडंभणंतोउ ।। वृ-यएष उपगृहकृत आचार्यस्तमेवज्ञातुमिच्छामि कीद्दशः खल्वाचार्य इहलोके हितकारी कीदृशः परलोके इति सूरिशह- चतुर्विधः सामान्येनाचार्यः । तद्यथा-इहलोके हितो नामैको न परलोकहितः १, परलोकहितो नेहलोकहितः २ इहलोकहितोऽपिपरलोकहितोऽपि३, नइहलोकहितो नापि परलोकहितः ४।तत्रप्रथमद्वितीयभंगव्याख्यानमाह-‘इहलोए' इत्यादि । तत्रयावस्त्रपात्रभक्तपानादिकंसमस्तमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org