________________
उद्देशक : १, मूलं : १८, [ भा. ५६२]
१९९
तत्र उपदेशप्रदानमनुशिष्टिः, स्तुतिकरणं वा अनुशिष्टिः । तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः । यत्पुनः परस्य परेण चानुशासनं सा परानुशिष्टिः । तत्रोदाहरणम्- चम्पायां नगर्यां सुभद्रा सा हि सर्वैरपि नागरिकजनैरनुशिष्टा । यथा धन्यासि त्वं, कृतपुण्यासि त्वमिति । यत्पुनरात्मानं परं चानुशास्ति, सा उभयानुशिष्टिः । तथा अनाचारे कृते सति यत् सानुनयोपदेशदानमेष उपालम्भः । सोऽपि त्रिविधस्तद्यथा-आत्मनि परे तदुभये च । तत्र यदात्मानमात्मनैवोपालभते । यथा त्वयेदं कृतं तस्मात् सम्यक् सहस्वेति स आत्मोपालम्भः । परेणाचार्यादिना यदुपालम्भनं स परोपालम्भः । तत्रोदाहरणं-मृगावतिर्देवी सा हि आर्यचन्दनया अकालचारिणीति कृत्वा उपालब्धा । उभयोपालम्भनो नाम यत्पुनः प्रथमत आत्मानमात्मनोपालभते पश्चादाचार्यादिना परेणोपालभ्यते । यदि वा गुरुणोपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपाद्यमानं प्रत्युच्चरति । एषउभयोपालम्भः । तथा उपग्रहणमुपग्रहः उपष्टंभकरणमित्यर्थः । सोऽपित्रिविधस्तद्यथा, आत्मोपग्रहः परोपग्रह उभयोपग्रहश्च । तत्र यदात्मन उपष्टम्भकरणं, स आत्मोपग्रहः । यत्पुनः परमुपगृह्णाति स परोपग्रहः । आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः । उपग्रहश्च स्वरूपतो द्विधा द्रव्यतो भावतश्च । अत्र चतुर्भङ्गिका-द्रव्यतो नामैक उपग्रहो न भावतः । भावत एको न द्रव्यतः । एको द्रव्यती भावतोऽपि । एको न द्रव्यतो नापि भावतः । अत्र चतुर्थोभङ्गः शून्यः । तृतीयभङ्गे उदाहरणमाचार्यः तथा उक्तानेव दृष्टान्तानुपदर्शयतिअनुसट्ठीए सुभद्दा उवालंभंमिय मिगावती देवी ।
"
[भा. ५६३ ]
आयरिओ दोसु उवग्गहो य सव्वत्थ वायरिओ ।।
वृ- अनुशिष्टौ परानुशिष्टावुदाहरणं सुभद्रा, उपालंभं परोपालंभे उदाहरणं मृगावतिर्देवी । एते च युदाहरणे प्रागेव भाविते । परस्यद्रव्यभावयोर्विषेय उपग्रहे उदाहरणमाचार्यः । स हि द्रव्यमन्नपानादि दापयति, भावतः प्रतिपृच्छादिकं करोति । अथवा दोसु उवग्गयत्ति यद्द्द्वयोः पारिहारिकानुपारिहारिकयोरुपग्रहे आचार्यो वर्तते तस्मात् परोपग्रहे आचार्य उदाहरणं । अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः । यतः स पारिहारिकस्यानुपारिहारिकस्य समस्तस्यापि गच्छस्यानुशिष्ट्यादीनि करोतीति । सम्प्रति त्रिविधामप्यनुशिष्टिं भावयति-
[ भा. ५६४ ]
दंडसुलभंमिलोए, मा अमतिं कुणसु दंडितोमित्ति ।
[भा. ५६५ ]
एस दुलहो हुदंडो, भवदंडनिवारओ जीव ।। अवि पहु विसोहिओ ते, अप्पानायार मइलिओ जीव । अप्प परे उभए अनुसट्टी थुइति एगट्टा ।।
वृ- दण्डः सुलभो यत्रासौ दण्डसुलभस्तस्मिन् लोके । ए जीव मा एवंरूपाममतिं कुमतिं कुर्याः यथाहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति यत एष प्रायश्चित्तदानरूपो दण्डो दुर्लभः । कस्मात् दुर्लभ इत्याह-भवदण्डनिवारकः निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति न्यायात् । हेतौ प्रथमा । ततोऽयमर्थः यत एष दण्डो भव एव संसार एव दुःसहः दुःखात्मकत्वात् । दण्डो भवदण्डस्तस्य निवारको भवदण्डनिवारकः तस्मात् दुर्लभः अपि च हु निश्चितं हे जीव ते आत्मा अनाचारमलिनः प्रायश्चित्तप्रतिपत्त्या विशोधितो भवति । तस्मात् न दण्डितोऽस्मीति बुद्धिरात्मनि परिभावयितव्या । किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचार्यैरिति चिन्तनीयमिति । एवम मुनोल्लेखेन आत्मनि परस्मिन् उभयस्मिंश्चानुशिष्टिरनुगन्तव्या । आत्मनि साक्षादियमुक्ता एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org